#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00083 Uniform title: śivasūtravārttika Secondary title: śivasūtra Commentator : bhāskara Author : vasugupta author śivasūtra Editor : Chatterji J C Description: E-text transcribed from volume 4 of the Kashmir Series of Texts and Studies. Notes: This e-text was transcribed by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: Nov. 29, 2005 Publisher : Research Department, Jammu and Kashmir State Publication year : 1916 Publication city : Srinagar Publication country : India #################################################### ओं तत्सत् अथ शिवसूत्रवार्तिकसूत्रपाठः | १ मे प्रकाशे १ चैतन्यमात्मा २ ज्ञानं बन्धः ३ योनिवर्गः कलाशरीरम् ४ ज्ञानधिष्ठानं मातृका ५ उद्यमो भैरवः ६ शक्तिचक्रसंधाने विश्वसंहारः ७ जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसंवित् ८ ज्ञानं जाग्रत् ९ स्वप्नो विकल्पाः १० अविवेको मायासौषुप्तम् ११ त्रितयभोक्ता वीरेशः १२ विस्मयो योगभूमिकाः १३ इच्छाशक्तितमा कुमारी १४ दृश्यं शरीरम् १५ हृदये चित्तसंघट्टाद्दृश्यस्वापदर्शनम् १६ शुद्धतत्त्वसंधानाद्वा १७ स्वपदशक्तिः १८ वितर्क आत्मज्ञानम् १९ लोकानन्दः समाधिसुखम् २० शक्तिसंधाने शरीरोत्पत्तिः २१ भूतसंधान-भूतपृथक्त्व-विश्वसंघट्टाः २२ शुद्धविद्योदयाच्चक्रेशत्वसिद्धिः २३ महाह्रदानुसंधानान्मन्त्रवीर्यानुभवः इति प्रथमप्रकाशसूत्राणि २ ये प्रकाशे १ चित्तं मन्त्रः २ प्रयत्नः साधकः ३ विद्याशरीरसत्ता मन्त्ररहस्यम् ४ गर्भे चित्तविकासो विशिष्टोऽविद्यास्वप्नः ५ विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था ६ गुरुरुपायः ७ मातृकाचक्रसंबोधः ८ शरीरं हविः ९ ज्ञानमन्नम् १० विद्यासंहारे तदुत्थस्वप्नदर्शनम् इति द्वितीयप्रकाशसूत्राणि ३ ये प्रकाशे १ आत्मा चित्तम् २ ज्ञानं बन्धः ३ कलादीनां तत्त्वानामविवेको माया ४ शरीरे संहारः कलानाम् ५ नाडीसंहार-भूतजय-भूतकैवल्य-भूतपृथक्त्वानि ६ मोहावरणात्सिद्धिः ७ मोहजयादनन्ताभोगात्सहजविद्याजयः ८ जाग्रद्द्वितीयकरः ९ नर्तक आत्मा १० रङ्गोऽन्तरात्मा ११ प्रेक्षकाणीन्द्रियाणि १२ धीवशात्सत्त्वसिद्धिः १३ सिद्धः स्वतन्त्रभावः १४ यथा तत्र तथान्यत्र १५ विसर्गस्वाभाव्यादबहिः स्थितेस्तत्स्थितिः १६ बीजावधानम् १७ आसनस्थः सुखं ह्रदे निमज्जति १८ स्वमात्रानिर्माणमापादयति १९ विद्याविनाशे जन्मविनाशः २० कवर्गादिषु माहेश्वर्याद्याः पशुमातरः २१ त्रिषु चतुर्थं तैलवदासेच्यम् २२ मग्नः स्वचित्ते प्रविशेत् २३ मध्येऽवरप्रसवः २४ प्राणसमाचारे समदर्शनम् २५ मात्रास्वप्रत्ययसंधाने नष्टस्य पुनरुत्थानम् २६ शिवतुल्यो जायते २७ शरीरवृत्तिर्व्रतम् २८ कथा जपः २९ दानमात्मज्ञानम् ३० योविपस्थो ज्ञाहेतुश्च ३१ स्वशक्तिप्रचयोऽस्य विश्वम् ३२ स्थितिलयौ ३३ तत्प्रवृत्तावप्यनिरासः संवेत्तृभावात् ३४ सुखासुखयोर्बहिर्मननम् ३५ तद्विमुक्तस्तु केवली ३६ मोहप्रतिसंहतस्तु कर्मात्मा ३७ भेदतिरस्कारे सर्गान्तरकर्मत्वम् ३८ करणशक्तिः स्वतोऽनुभवात् ३९ त्रिपदाद्यनुप्राणनम् ४० चित्तस्थितिवच्छरीरकरणबाह्येषु ४१ अभिलाषाद्बहिर्गतिः संबाह्यस्य ४२ तदारूढप्रमितेस्तत्क्षयाज्जीवसंक्षयः ४३ भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः ४४ नैसर्गिकः प्राणसंबन्धः ४५ नासिकान्तर्मध्यसंयमात् किमत्र सव्यापसव्यसौषुम्नेषु ४६ भूयः स्यात्प्रतिमीलनम् इति तृतीयप्रकाशसूत्राणि || समाप्तोऽयं शिवसूत्रवार्तिकसूत्रपाठः || अथ शिवसूत्रवार्तिके सूत्रेषु प्रतिपादितविषयसंग्रहः तत्रादौ प्रथमप्रकाशे १ ज्ञानक्रियात्मकत्वेन आत्मनः स्वरूपप्रतिज्ञानम् २ अहन्ता-ममतात्मद्वैतप्रथाहेतुकस्यात्मस्वरूपावरणस्य लक्षणम् ३ अणोर्ज्ञानलोपकर्त्रीणां शक्तीनां निरूपणम् ४ द्वैतप्रथा-तत्कर्तृशक्तिसंश्रयादेर्निरूपणम् ५ स्वरूपावरणकृत्प्रोक्तज्ञानाभासनिवृत्त्यै स्वरूपविज्ञानाय च हेतोरनुशासनम् ६ स्वरूपपरिज्ञाने बाह्यान्तरतोऽपि अद्वैतज्ञप्त्यपरिहानि- निरूपणम् ७ जाग्रदाद्यवस्थासु तुल्यतया स्वरूपोपलब्धिदार्ढ्य- कथनम् ८ सर्वभावेषु चिदात्मन एव ग्रहीतृ-ग्रहण-ग्राह्य-तया स्फुरणात्मज्ञानशक्तिरूपाया जागरावस्थाया लक्षणम् ९ पशोरावरकनानाविधभावोल्लेखनात्मविकल्परूपस्वप्ना- वस्थाया लक्षणम् १० ज्ञान-ज्ञेयस्वरूपशक्त्यनभिव्यक्तेः स्वरूपापोहक- मायाशक्त्युद्भावितसुषुप्तावस्थालक्षणम् ११ स्वस्वरूपाभिनिविष्टस्य प्रोक्तावस्थात्रये समकक्ष्यतया सत्त्वादिगुणचमत्कर्तृत्वाद्वीरेश्वरत्वाभिधानम् १२ विश्वात्मना स्फुरच्चिदात्मसमीक्षापरिनिष्ठस्यानुत्तर- भूमिकाधिरोहात्मसिद्ध्यभिव्यक्तिकथनम् १३ इत्थं परभूमिकाधिरूढस्य निरावरणचिद्रूप- समावेशादखण्डितस्वातन्त्र्यावाप्तिनिरूपणम् १४ अस्यैव (योगिनः) विश्वस्मिंस्तादात्म्यसंपत्त्या अन्तर्बहिर्व्यापित्वकथनम् १५ विषयविषययाद्याधारभूते हृदि समस्तवासनाविलयनात्- सर्वभावानां याथात्म्यावबोधनिरूपणम् १६ प्रोक्तशिवचैतन्यलाभायोपायकथनम् १७ शक्तिचैतन्यलाभायोपायकथनम् १८ आत्मचैतन्याधिगमनिरूपणम् १९ बाह्यान्तरतः स्वप्रकाशस्फुरणात्मानन्दातिशयोद्भाव- कसमाधिसुखस्य निरूपणम् २० अस्यैतादृशः सिद्धयोगिनो निरावरणचिद्रूपसमावेशाद्य- थेष्टशरीराद्युद्भावनेऽखण्डितस्वातन्त्र्यनिरूपणम् २१ अस्यैव स्वातन्त्र्यसंपत्त्या यथेष्टक्रीडन-रचनादिवैभव- सिद्ध्यभिधानम् २२ मितसिद्ध्युपेक्षणोत्तरं स्वात्मसाम्राज्यावाप्तिनिरूपणम् २३ समस्तभावोद्भवहेतुशक्तिमच्छक्त्यात्मचित्स्वरूप- परामर्शपरिशीलनात् महावीर्यवत्त्वनिरूपणम् इति प्रथमः प्रकाशः || १ || अथ द्वितीये प्रकाशे १ सर्वज्ञतादिगुणशिवात्मचित्तस्यैव मन्त्रत्वेनाभिधानम् २ चित्तात्ममन्त्रसमावेशे उपायकथनम् ३ स्वप्रकाशविकासात्मविद्याया मन्त्ररहस्यत्वनिरूपणम् ४ मनसः प्राकृतगुणलोपे अनुत्तरपदारूढ्युपायस्य तदन्यथात्वे अशुद्धविद्योद्गमाद्विचित्रभ्रान्तिसंभव- निरूपणम् ५ स्वालोकात्मशुद्धविद्योदयात् स्वात्मचिदाकाशसंचारित्वा- वाप्तिनिरूपणम् ६ प्रोक्तमान्त्रादिवीर्यादौ सद्गुर्वाप्त्यादिशक्तिपाताधिगमात्- मोपायप्रदर्शनम् ७ सद्गुर्वाश्रयणादिशक्तिपातात्सन्मार्गाभिज्ञानात्मफ- लानुशासनम् ८ इत्थं मान्त्रतादात्म्यलक्षणे प्रज्वलज्ज्ञानाग्नौ पुनर्भवहेतुककार्ममलोपादानकशरीरस्यापुनर्भवाय हविष्ट्वकथनम् ९ लब्धस्वात्मवैभवस्य योगिनः परतृप्त्युपपादक- ज्ञानस्यैव भोज्यद्रव्यतयातिदेशनम् १० अविशिष्टविद्यासंहारे तत्पूर्वावस्थाश्रयविकल्पोत्थभावानां स्वप्रकाशोदय- सत्तया स्वप्नवत्प्रत्यवेक्षणात् स्वालोककलनात्मनित्यतृप्त- तादेशनम् इति द्वितीयः प्रकाशः अथ तृतीये प्रकाशे १ स्वरूपप्रथनादिना विवक्षिते विभूतिप्रकरणे प्रथमतः संकल्पन-मननादिधर्मस्याणुसंबन्धिचित्तस्यात्मतया- लक्षणम् २ चित्तस्य रागादिविषयसंश्लेषाद्विक्षिप्ततया अवास्तवज्ञानस्य बन्धकत्वनिरूपणम् ३ तत्त्वानां याथात्म्यबोधाभावरूपाया मायायाः स्वरूपकथनम् ४ तत्त्वसंघातोपादानकदेहस्यांशानां स्वकारणे लयभावनादार्ढ्यात् स्वात्मस्वरूपावाप्त्या आणवोपायफल-परबोधात्मदेहाधिगमनिरूपणम् ५ पृथिव्यादिभूतमयदेहस्याप्यस्य तत्तद्भूतधारणाभ्यासपाटवात्तत्तद्भूत-भौतिकस्थिति- संचार-निर्माण-संयोजन-वियोजनादौ स्वातन्त्र्यनिरूपणम् ६ प्रोक्ततत्त्वधारणादिपाटवात् योगिनो मोहकर्तृकावरणेन तत्तत्तत्त्वभोगसिद्ध्यभिलषणस्य, तदन्यथात्वे प्राच्यशुद्धावस्थाविमर्शनेन सर्वज्ञ्यादिसिद्ध्यभ्युप- गमस्य च निरूपणम् ७ अनन्ततया विस्तृताख्यात्यात्ममोहप्रशमनात्सुप्रबुद्धस्य स्वप्रकाशात्मशुद्धविद्योदयनिरूपणम् ८ इत्थमधिगतसहजविद्यतया विश्वं स्वदीधितिकल्पं समीक्षमाणस्य नित्यप्रबुद्धावस्थया परिनिष्ठाकथनम् ९ विश्वस्मिन् यावत्तत्तद्भावरसावेशाद्यथेष्टतया चेष्टमानस्य आत्मनो जगन्नाट्यलीलाभिभावकत्व- निरूपणम् १० प्रोक्तगुणकात्मकर्तृकप्रवृत्तिस्थित्यादिजगन्नाट्यलीलाधार- तया पुर्यष्टकस्य रङ्गत्वाभिधानम् ११ अस्यैव सुप्रबुद्धतया वशवर्तिनामिन्द्रियाणां जगन्नाट्यलीलाप्रेक्षकत्वेन समभिव्याहरणम् १२ शुद्धचिद्रूपाध्यवसायिबुद्धिसद्भावात्सर्वोत्कृष्टतानु- शासनम् १३ उक्तगुणस्यात्मनः स्वातन्त्र्यसिद्धिसंपन्नत्वनिरूपणम् १४ अधिष्ठीयमानदेहवत् अन्वाश्रितपरकीयदेहादावपि सार्वज्ञ्य-स्वातन्त्र्यादिगुणाविर्भावनिरूपणम् [२-१ ४] १५ परकायप्रवेशादिस्वतन्त्रस्यास्य स्वधाम्नो विभ्रंशानवाप्त्यादिनिरूपणम् १६ विश्वकारणशाक्तपदे निरन्तराभ्यासेन विदात्मविमर्शन- समाहितत्वस्यैव स्वधामाप्रच्युतिनिमित्ततयादेशनम् १७ शाक्तपदसमावेशाधिगमात्परस्वरूपसुगमतानि- दर्शनम् १८ उक्तावधान-प्रवेशात्मोपायद्वयपरिशीलनात्स्वातन्त्र्य- धामविक्रान्तत्वद्योतकस्यापूर्ववस्तुसंपादनसामर्थ्य- वत्त्वस्य निरूपणम् १९ उक्तोपायपरिशीलनाच्छुद्धविद्योदयस्यापुनर्जन्मात्म- फलानुशासनम् २० प्राप्तसिद्धिकस्याप्यणोरवधानस्खलनात् शब्दानुवेधनतो घोरादिसंज्ञकमाहेश्वर्यादिमातृका शक्तीनां मोहकत्वनिरूपणम् २१ उक्तमातृभेदेषु चिद्रसाश्यानभावेन शुद्धशिवतत्त्वानुसंधानदार्ढ्यान्नित्यसमाहिततापरि- शीलननिरूपणम् २२ वर्णानुप्रवेशजन्यशुद्धशिवतत्त्वानुसंधानदार्ढ्या- धिगमोपायनिरूपणम् २३ वर्णानामाद्यन्तकोट्यवस्थाविमर्शपरिहानात् मध्यकोटि- विश्रमे विचित्रविकल्पनाद्यापातात् मोहाधिगमनिरूपणम् २४ परनादात्मप्रकाशसमापत्तौ परातो वैखर्यन्तं प्रसरत्पदमन्त्रादीनामभेदानुभवदार्ढ्यादनुत्तर- सामर्थ्याधिगमनिरूपणम् | २५ मायादितत्त्वग्रामानुसंधानात्तत्तद्भूमिसमावेश- बलाधिगमेन नष्टभावशरीरानुप्राणनात्मसर्वज्ञत्व- सर्वकर्तृत्वादिपरमैश्वर्यलाभनिरूपणम् २६ इत्थं शिवस्वरूपपरिशीलनातिशयाच्छरीरादिसद्भावेपि शिवसारूप्यनिरूपणम् २७ एवं ध्रुवसमाधानवतः शरीरव्यापारस्यापि व्रततयातिदेशनम् २८ तथैवं पराहंभावभावनापदारूढसंबन्धि- सामान्यसंभाषणस्यापि जपतया निरूपणम् २९ अस्यैव पशुषु आत्मस्वरूपज्ञप्तिप्रकाशनस्य दानतया अतिदेशनम् ३० उक्तसंसिद्धियोगिनो विश्वोल्लासनादिसामर्थ्यवैश्वरूप्यभोगान्मोक्षप्रदत्वा- दिनिरूपणम् | ३१ शिवतुल्यतापत्तेर्निजानुत्तरशक्तिमयविश्वात्मना स्फुरत्तानिरूपणम् ३२ विश्वात्मत्वाधिगमात् क्रियाशक्त्युन्मीलितविश्वस्य स्वेच्छया स्थिति-लयकर्तृत्वनिरूपणम् ३३ सृष्टिस्थितिध्वंसकालेपि अविलुप्तस्वस्वरूपत्वादेशनम् ३४ स्वविमर्शाप्रच्युत्या आध्यात्मिकादिनानाविधसुखदुःखा- विर्भावेऽपि तदस्पर्शनिरूपणम् | ३५ सुखाद्यसंस्पृष्टस्याविलुप्तस्वात्मविभवतया केवलचिन्मात्रविश्रान्तत्वकथनम् ३६ शरीराद्यहं भावविजृम्भणे सुखादिमोहाभिघातात् कर्मात्मसंसारिपशुत्वनिरूपणम् ३७ स्वव्यतिरिक्तं किंचनाप्यपर्यालोचयतः स्वस्वरूपप्रत्यापत्त्या नवनवोल्लेखसंनिवेशचित्रितापूर्व- सर्गकर्तृत्वसामर्थ्यावाअप्तिनिरूपणम् ३८ विचित्रभावोल्लासनात्मसर्गान्तरोत्पादनसामर्थ्ये स्वानुभवस्यैव हेतूपदेशनम् ३९ जागराद्यवस्थामुख्यभूततुर्यावस्थाया भावानां स्वबलार्पणे निदानादेशनम् ४० चित्तस्य स्वरूपादप्रच्युतेः करणग्रामेपि स्वरूपप्रथया चिदात्मताभिव्यञ्जनकथनम् ४१ अधरावस्थायां दर्शनश्रवणादिप्रवृत्तीच्छोरात्मनो बुद्धिकर्मेन्द्रियेषु चिद्वलाधानेच्छात्माभिलाषेण संबाह्याकरणचक्रस्य प्रेरणात् शब्दस्पर्शादिविषयेषु प्रवर्तननिरूपणम् ४२ स्वबलोद्योगाधिष्ठानात् रूढविज्ञानस्य पाशवाभिलाष- हानात् संबाह्यात्मपुर्यष्टकप्रशमसंभवादेशनम् ४३ अभिलाषात्ममलप्रक्षये सर्वज्ञत्वसर्वकर्तृत्वादिभूम्या- रूढस्य भौतिकदेहसंबन्धसत्तया शिवतुल्यताप्रशंसनम् ४४ स्वप्रकाशसंविन्निष्ठत्वात् पुर्यष्टकाभिमानप्रशमेपि यावत्कर्मोपभोगं प्राकृतिकतया प्राणतत्संबद्धभूत- कञ्चुकावस्थितेर्निरूपणम् ४५ शिवतुल्यतावाप्तौ अनुत्तरस्वात्मसिद्ध्यभ्यसनार्थं प्राणात्मानाहतशब्दब्रह्मोपासनानिर्देशः ४६ मायाशक्तिवशादभेदखण्डनामुपपन्नस्य विभोः प्रोक्तोपदेशमार्गेण कालुष्यप्रक्षयात्स्वात्मावबोधाधि- गमे पूर्णघनानन्दशिवताभ्युपगमानुशासनम् इति तृतीयः प्रकाशः || ३ || समाप्तश्च शिवसूत्रवार्तिकसूत्राणां विषयार्थ संग्रहः || ओं नमः श्रीशंभवे स्वात्मानन्दप्रकाशवपुषे | अथ शिवसूत्राणि | श्रीभट्टभास्कराचार्य-विरचितवार्तिकोपेतानि | तत्रायं प्रथमः प्रकाशः --------------- Pअगे १ ------------------- हिमगिरितनयाकान्तं शशधरकलिकोत्तंसम् | स्थितिलयजनिकर्तारं प्रणमत वरदं देवम् [अतिस्वच्छतरात् अनुत्तरध्रुवपदात् उन्मिषितया स्वस्वातन्त्र्यशक्त्या कमनीयम्, विश्वसंजीविनी अमाख्या कला उत्तंसो मुख्यमुपकरणं यस्य तादृशम्, सृष्ट्यादिपञ्चकृत्यकरणशीलं, देवं द्योतनादिसतत्त्वं विश्वोल्लासनादिक्रिडापरं च, प्रोत्कृष्टस्वात्मलाभात्मवरदं स्वात्मानं समाविशतेत्यर्थः | बाह्यार्थस्तु स्पष्टः | अत्र प्रथमपादे शक्तिमत्स्वरूपप्रधानतया सामान्यचित्स्वरूपस्य, द्वितीये शाक्तस्वरूपप्राधान्येन सहजविद्योदयस्य, शिष्टे विश्वनाट्योल्लासिरूपमुख्यतया विभूतेर्वर्णनात् वक्ष्यमाणप्रकाशत्रयोपक्षेपणं कृतम् |] || १-१|| --------------- Pअगे २ ------------------- नित्योदितनिजाभासस्फुरत्तानिह्नुतात्मने | शिवाय परिपूर्णैकचिद्रूपवपुषे नमः [सदोदितस्वप्रका- शात् अनवरतं प्रसरद्रूपिण्या स्वाभिन्नोच्छलद्विशदतमनीला- दिस्फुरत्तया आवृताकृतेः शिवस्य संकुचिताण्.वात्मप्रकटी- करणम्, वस्तुतः तावदस्थ्येऽपि पूर्णसच्चिद्धनभावस्यान- पहानिरित्याशयः, अनेन तृतीयप्रकाशे उपक्रमाभ्यासादिषु वक्ष्यमाणसारार्थसर्व-स्वं सूच्यते | आदर्शपुस्तकविशेषे उपलक्ष्यमाणो गुरुपारम्पर्योप- दिष्टार्थस्तु यथा-स्वात्मैव शिव इति, तथा चोपनिबत्स्यते ऽतत्रात्मन्येव शिवता सर्वस्याखण्डितैव हिऽ इति | अथ कथं संसारिणः शिवत्वं ? अत्रोच्यते-विमोहिनीशक्तिवशात् अयमाच्छादित इव भवति, न त्वाच्छादितः परमार्थतः सदा प्रकाशमानत्वात्, तदाच्छादने सर्वव्यवहारोच्छेदः स्यात् तथा च वक्ष्यते ऽसा चास्त्यहंतेदन्तादि ज्ञानाभासादिनावृता |ऽ इति | किं तर्हि तदपसरणकारणम्?-ईश्वरानुग्रह एव | तथा च ऽशक्तिपातवशाद्देवि नीयते सद्गुरुं प्रतिऽ इति | तत्रानुग्रहे सति स्वस्वरूपं कथितरूपं स्फुटीभविष्यति | तथा तस्य चैवं-विधस्य स्ववशे एव सर्वं भवति | तद्वक्ष्यते स्वस्वरूपं शिवः साक्षात् | इत्यादि |] || १-२ || श्रीमन्महादेवगिरौ वसुगुप्तगुरोः पुरा | सिद्धादेशात्प्रादुरासन् शिवसूत्राणि तस्य हि || १-३ || सरहस्यान्यतः सोऽपि प्रादाद्भट्टाय सूरये | श्रीकल्लटाय सोऽप्येवं चतुःखण्डानि तान्यथ || १-४ || --------------- Pअगे ३ ------------------- व्याकरोत्त्रिकमेतेभ्यः स्पन्दसूत्रैः स्वकैस्ततः | तत्त्वार्थचिन्तामण्याख्यटीकया खण्डमन्तिमम् (क:-टीकायाः खण्डमिति) || १-५ || एवं रहस्यमप्येष मातुलेयाय चावदत् | श्रीमत्प्रद्युम्नभट्टाय सोऽपि स्वतनयाय च || १-६ || श्रीमत्प्रज्ञार्जुनाख्याय प्रादात्सोऽप्येवमावदत् | श्रीमहादेवभट्टाय स्वशिष्यायाप्यसौ पुनः || १-७ || श्रीमच्छ्रीकण्ठभट्टाय प्रददौ स्वसुताय च | तस्मात् प्राप्य करोम्येष सूत्रवार्तिकमादरात् || १-८ || दैवाकरिर्भास्करोऽहमन्तेवासिगणेरितः | यस्मादागमविभ्रंशाद्भान्तेर्भ्रमितबुद्धयः || १-९ || सुकुमारा अतस्तानि सूत्राणि विवृणोमि च | --------------- Pअगे ४ ------------------- तत्रात्मन्येव शिवता सर्वस्याखण्डितैव [स्वात्मैव शिवः चिदात्मा न तु व्यतिरिक्तो वाद्यन्तराभिमत इव, शिवता हि सर्वस्य स्वानुभवसिद्धा परिपूर्णालौकिककार्यकारणात्मैश्वर्या- श्रया सर्वविश्रान्तिस्थानं यत्प्रत्यभिज्ञापनायानुक्षणं व्यवहारदशायां भावसर्जनादिकृत्यस्वातन्त्र्यमुपलक्षणं चिदणुषु सहृदयैकावगम्यमस्ति | सैव स्वेच्छाविर्भावितमाया- प्रमातृतावशात् इदन्ताज्ञानसंपादितावृतिरिव पुद्गलैरुप- लब्धुं न पार्यते, अतस्तद्विज्ञानायानुग्राह्यजनानुजिघृक्षोः श्रीशिवात् सूत्राणामवतारः |] हि || १-१० || सदास्त्यहन्तेदन्तादिज्ञानाभासादिनावृता | तस्यावृतिविनाशाय स्वरूपज्ञप्तये शिवः || १-११ || सक्रमज्ञानपूर्वाणि (क्: संक्रामे ज्ञानेति-) सूत्राण्याह कृपाकुलः [तीव्रतरशक्तिपातिनः शांभवज्ञानेन, तीव्रमध्यशक्त्यनु-गृहीताः शाक्तज्ञानेन, मन्दशक्तिपातवन्त आणवज्ञानेन ऊर्ध्वोर्ध्वतरादिसोपानाधिरोहणक्रमेण सर्वोर्ध्वपदवीमा-सादयन्ति इत्यतोऽधिकारिजनापेक्षया सूत्राणां सक्रममुपन्यासः |] | स्वस्वरूपं शिवः साक्षात्तस्योन्मेषनिमेषतः [उन्मेषो नाम शक्तिप्रसरः , निमेषो नाम तत्संकोचः, तन्निबन्धिन्यावेव विशुद्धसंविन्मात्ररूपस्य जगतः चिदिच्छादिकलाचक्रस्य तन्निमित्तस्य शिवादितत्त्वपञ्चकस्य वा खेचर्यादिशक्तिप्रसरणस्य वा सृष्टिस्थिती |] || १-१२ || --------------- Pअगे ५ ------------------- शक्तिप्रसरसंकोचनिबद्धावुदयव्ययौ | जगतो ज्ञानदेहस्य कलाचक्रस्य चोद्भवः || १-१३ || तत्स्वरूपस्योपन्यासे (क्: तत्स्वरूप-उपन्यास) बह्व्यो विप्रतिपत्तयः [मलप्रतिबन्धतारतम्यात् वादिनां विमतयः सन्ति | तत्र लौकिकाः चैतन्यविशिष्टं शरीरं, नैयायिका ज्ञानादिगुणिनं बुद्धितत्त्वप्रायं, मीमांसकाः पुर्यष्टकं, सौगता ज्ञानसंतानं, केचित् श्रुतिविदः शून्यमभावब्रह्मात्मकं, माध्यमिका अप्येवं, पाञ्चारात्रा अव्यक्तं, सांख्या विज्ञानकलावस्थां, केचित् वेदविद ईश्वरतत्त्वं, वैयाकरणाः सदाशिवतत्त्वं, विश्वोत्तीर्णतन्मयतादिस्वभावं त्रिकादिदर्शिन आत्मानं पर्तिपद्यन्ते | सर्वे अमीपारमार्थिकस्वातन्त्र्यवञ्चिता मायया भेदभूमिमापन्नाः |] | संस्थितास्तद्व्युदासार्थं शिवः सूत्रमरीरचत् (ख्: शिवसूत्रमिति- ; ग्: शिवसूत्राण्यरीरचत्) || १-१४ || चैतन्यमात्मा || १-१ || चौतन्यमात्मनो रूपं सिद्धं ज्ञानक्रियात्मकम् | तस्यानावृतरूपत्वाच्छिवत्वं केन वार्यते || १-१५ || तदावृतेरुपन्याससूत्रमाह (क्: तदावृत उपन्यासेति-) महेश्वरः | ज्ञानं बन्धः || १-२ || --------------- Pअगे ६ ------------------- अहं ममेदमिति यज्ज्ञानं भेदप्रथात्मकम् (ग्:- ज्ञानभेदिति-) || १-१६ || शव्दानुवेधतो जातं मायीयमलमूलकम् (ख्: मायीयमलपूर्वकम्) [परमेशर्वस्यैव नित्यविभुस्वरूपस्य दुर्घटनासंपादयित्र्या स्वमायाशक्त्या विश्वात्मनाट्योद्भासनाय नटस्येवाकल्पेन स्वात्मैश्वर्यमपह्न य संकोचग्रहणेनाण्.वात्मभूमिका-मध्यासीनस्य प्रकाशान्वयव्यतिरेकानुविधायितया सत्त्वाससत्त्वविकल्पोपहतत्वात् स्वात्मा व्यतिरेकिषु भावेषु अहं ममेदमिति- कॢप्तशव्दसंबन्धितया भिन्नभिन्नप्रथात्मकं यज्ज्ञानं तदेव निजैश्वर्यावरणलक्षणाणवमलं बन्धात्मकं मायीयं मलमुक्तमित्यर्थः |] | तद्वन्धनं समाख्यातमविद्यावृतिलक्षणम् || १-१७ || शव्दानुवेधने त्वस्मिन्कारणं (क्: शव्दाविद्याभिधे त्वस्मिन्कारणे) किमतोऽवदत् | सूत्रं पशोर्मोहिकानां (ग्: मोहकीनामिति) कलानां प्रतिपादकम् || १-१८ || योनिवर्गः कलाशरीरम् || १-३ || योनयः शक्तयो ज्ञेयाश्चतस्रः सर्वकारणम् | --------------- Pअगे ७ ------------------- अम्बा ज्येष्ठाभिधा रौद्री वामा च शिवमूर्तयः || १-१९ || तासां वर्गः समूहः स्यात्तच्छरीरं कलासु च | अकारादिक्षपर्यन्ता कलास्ताः शव्दकारणम् || १-२० || मातरः शक्तयो देव्यो रश्मयश्च कलाः स्मृताः | एताः शब्दानुवेधेन प्रत्ययोद्भासिकाः पशोः || १-२१ || तेनासौ भोग्यतां याति तासां, स्वविभवं यतः | तस्य लुप्तं तदुत्थेन ज्ञानाभासेन सर्वदा [सर्वशक्तिकारणात् शक्तिचतुष्कादेव आदिक्षान्तकलाचक्रोदयः, तदेव कलाचक्रं स्थूलं वर्णात्मकं पदवाक्यसंघटनया अशेषविचित्र- लौकिकालौकिकशब्दरूपेण परिणतं पशूनां प्रत्ययजनयितृ, येन विलुप्तविभवास्ते तद्भोग्यभावं यान्ति इति योनय इत्यारभ्य कारिकाचतुष्टयाभिप्रायः |] || १-२२ || ज्ञानाभासस्य तासां (ख्: ज्ञानाभासः स तासामिति) च किमाधारो ह्यतोऽवदत् | ज्ञानाधिष्ठानं मातृका || १-४ || ज्ञानस्यैव द्विरूपस्य परापरविभेदतः || १-२३ || --------------- Pअगे ८ ------------------- स्यादधिष्ठानमाधारः शक्तिरेकैव मातृका [अभेदाभास- भेदप्रथनभावेन द्विविधज्ञानस्य परापर-रूपता, उभयविधस्यास्य विश्वजननी शक्तिरेवाधिष्ठात्री, तत्र परज्ञाने अघोराख्या शक्तिः अन्तर्बहिः स्वात्ममयताभासयि-तृत्वात् | अपरस्मिन् अभेदानुसंधानवैकल्-यात् बाह्यौन्मुख्यसंपादिनी घोराख्या शक्तिः शिवताच्छाद-यित्रोत्यर्थः |] || १-४ || इत्थमावृतिरूपं यज्ज्ञानं तद्विनिवृत्तये || १-२४ || व्यक्तये स्वस्वरूपस्य सूत्रमीशोऽभ्यभाषत | उद्यमो भैरवः || १-५ || परिपूर्णस्वरूपस्य शिवस्येत्थं चिदात्मनः || १-२५ || स्वस्वरूपापरित्यागं कार्यं प्रत्युद्बुभूषतः (ख्: प्रतिबुभूषता) | भाव उद्योग उन्मेष उद्यमः परिभाष्यते || १-२६ || तदेव जगदाख्यातं शार्वं तत्त्वं च भैरवम् (ग्: भौवनम्) | तत्रापि स्वपरिस्पन्दस्फुरत्तायां स भैरवः || १-२७ || --------------- Pअगे ९ ------------------- भरणाद्रमणादत्र वमनादपि चोच्यते | अखण्डितनिजाभासप्रथनादपि चिद्विभोः [अत्र शांभवोपायौ- चित्यवशात् तीव्रतरपरशक्तिपातपूतस्वान्तानां सिद्धादिदर्शन- चर्वाद्यभ्यवहारादिनानुग्राह्याणां जनानां जपध्याना- द्यनुष्ठानयन्त्रणानिरपेक्षं भरणरवणवमनात्मक- परमभैरवावेशशालिनाम् अविरतप्रसरज्ज्ञानक्रियात्मशाक्ता- मृतरनिःष्यन्दचर्वणात् पुनरपि नवनवामृतरसास्वादशालिनी स्वरूपावेशप्रत्यापत्तिः संजायते | एवमुद्यतानां स्वभावोन्मेषे संवित्प्रकाशावरणाभावः सिद्ध एव |] || १-२८ || || १-५ || एवमुद्यमिनश्चास्य चिद्वपुर्भैरवात्मनः | उन्मेषेऽपि स्वस्वरूपप्रकाशो न प्रहीयते (क्: प्रतीयते; ख्: प्रलीयते) || २९ || इत्युक्त्वापि निमेषस्य यथा न परिहीयते | स्वस्थितिस्तत्प्रसिद्ध्यर्थं सूत्रमाह महेश्वरः || १-३० || शक्तिचक्रसंधाने विश्वसंहारः || १-६ || --------------- Pअगे १० ------------------- शक्तयश्च जगत्कृत्स्नं ताश्च ज्ञानक्रियात्मिकाः | वृत्तयः पूर्वनिर्दिष्टास्तच्चक्रं चकनादतः (ख्: चक्रं चशनादिति) || १-३१ || तत्संधानं स्वीकरणं स्वात्मन्येव निमेषतः | संहारः प्रविलीनत्वं शिवत्वं तेन तस्य तत् || १-३२ || एवं शव्दार्थरूपादेर्ज्ञानस्योन्मेषसंभृतौ | कारणं परमात्मैव भैरवः स शिवस्तदा [ज्ञानक्रियाशक्ति- मयस्य जगतः प्राकाशविमर्शात्मानुत्तररूपात् अपृथक्तया परामर्शने परमसंविन्मयशिवाग्निसाद्भावात्मा प्रविलयो भवति, एवं कारणे कार्यस्याविभिन्नभावेन स्थितस्य निमेषावस्थायामपि स्वस्थितिर्नाव्रियते इति भावः |] || १-३३ || स्वस्वरूपपरिस्पन्दादच्युतस्य चिदात्मनः | जाग्रदादिविभेदोऽयं स्यादनावरको (ग्: स्यादवावारक) यथा || ३४ || तदर्थमिह देवेशः सूत्रमाह यथार्थवत् | जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोग संवित् (शिवसूत्रविमर्शिन्यां हि मूलसूत्रपाठः ऽतुर्थाभोगसंभवःऽ) || १-७ || --------------- Pअगे ११ ------------------- स्वस्वरूपैकघनताविमर्शस्तुर्यभूः स्मृता || १-३५ || सर्वानुस्यूतरूपत्वाद् गलितभ्रमसंस्थितेः | तुर्याभोगाख्यसंवित्सा ह्युपलब्धृस्वरूपता || १-३६ || स्थितैव जाग्रदादीनां भेदे सर्पत्यपि स्फुटम् (क्: भेदे सत्यपि च स्फुटे) [स्मृत्याद्यवस्थाः स्वप्नेन मदमूर्छाद्यवस्थाः सुषुप्तेन गृह्यन्ते, अतोऽत्र तिसृणामवस्थानामवस्थान्तरा- क्षेपिणीनां निर्देशात् न पृथक् तन्निर्देशापेक्षणम् | एवमेषां त्रयाणां विजृम्भमाणे विभिन्नव्याप्रारे व्युत्थितस्य योगिनः स्वरूपैकघनविमर्शनात् एतदवस्थात्रयकृतपारमार्थिकवस्तु- समावृतिर्नास्ति; तस्मात् समाध्यनुष्ठानप्रयासोऽस्यानुपयुक्तः परिपूर्णस्वरूपेऽवधानस्य विधानानौचित्यात्, अपूर्णे तु पारिमित्यास्पदावधानस्य पूर्णताप्रायकताविरोधात्- इत्ययमाशयः स्वस्वरूपेति कारिकाद्वयस्य |] || १-७ || एवमुक्त्वा जाग्रदादिव्यक्तये परमेश्वरः || १-३७ || सूत्रत्रयमन्ववदज्जीवन्मुक्तत्वसिद्धये (ख्:-पर्यवदद्-) | ज्ञानं जाग्रत् || १-८ || --------------- Pअगे १२ ------------------- बौद्धं गार्वं च साकल्पं (ख्: बौद्धं सौगतसांकल्पम्) शाब्दं स्पार्शं च रूपजम् || १-३८ || रसजं गन्धजं चान्यदैन्द्रियज्ञानमेव यत् | अत्र गृहीतृग्रहणग्राह्यरूपा चिदात्मनः || १-३९ || स्फुरत्येव ज्ञानशक्तिर्जाग्रद्वृत्तिरिहैव सा | पशोः स्वरूपहान्यैव सा वृत्तिः परिभाष्यते [ निश्चयनाभिमानन - संकल्पन-शब्दन-स्पशन-दर्शन -रसनगन्धो- पादानात्मकं बाह्येन्द्रियवृत्तिजं ज्ञानं, द्रष्ट्राद्युपाध्युपहिता जाग्रद्वृत्तिः पशूनां स्वात्मव्यवधायिनी, पतीनां तु स्वरूपस्फूर्तिदायिनीत्यर्थः |] || ४० || स्वप्नो विकल्पाः || १-९ || दृष्टिस्वभावस्य विभोरन्तर्नवनवोदयः | विकल्पानां स्मृतः स्वप्नस्तद्बाह्यार्थनिरासतः (क्: बाह्यार्थनिरासनम्) [बाह्यार्थाभावे तद्वत्त्युपशान्तौ बाह्यार्थनिरपेक्षमन्तर्वि-सृत्वराणां पुरगिरिवनोपवनाद्युल्लेखवैचित्र्येणाभासमाना-नां स्वार्थक्रियाकारिणां विकल्पानां नवनवाविर्भावः स्वप्नः पशोः स्वरूपामावृणोतीत्यर्थः |] || १-४१ || पतिभावाद्विकल्पानां दृढतादृढता पुनः | --------------- Pअगे १३ ------------------- पशुत्वादावृतिः सैव ज्ञेया शक्त्यात्मनः प्रभोः || १-४२ || अविवेको मायासौषुप्तम् || १-१० || ज्ञानज्ञेयस्वरूपायाः शक्तेरनुदयो यदा | चिद्रूपस्याविवेकः स्यादसावेवाविमर्शतः || १-४३ || सैव मायावृतिजालपोषकत्वात्प्रकीर्तिता | अर्थस्मृती स्वात्मसंस्थे चिद्रूपे सा सुषुप्तता || १-४४ || पत्युरेवं स्वविश्रान्त्या पशोरावृतिरूपतः | इत्थं तिस्रस्त्रिप्रकाराः प्रत्येकान्योन्ययोगतः || १-४५ || मुख्यगौणत्वभेदेन ज्ञेयाः सम्यक् चिदात्मनः | एवं ज्ञानज्ञेयमयः पतिरत्र पदद्वये || १-४६ || सुषुप्ततुर्ये त्वन्यस्मिंश्चिन्मयश्च विभुः स्मृतः [उभयत्र वेद्यवेदनात्मतया विलसन्त्याः शक्तेः विरत्या किरणसंहृत्या रवेरिव चिद्रूपस्यात्मनोऽनवभासनं सा आवरणजालमयी मायात्मिका सुषुप्तिः, यत्रार्थतत्स्मृती अव्यवहितस्वात्ममात्र- संस्थे, न तु तस्याप्यसत्ता तद्व्युत्थितस्य सुखस्वापाकिंचिञ्ज्ञा- नयोः स्मृत्यनुपपत्तेः | एवमासु तिसृषु दशासु पतिपश्वोः स्वरूपावभासानवभासनं स्वभावसिद्धम् इति ज्ञानेत्यादिपद्यजातस्याभिप्रायः |] | --------------- Pअगे १४ ------------------- अथासामेव तिसॄणामवस्थानां गुणत्रयम् || १-४७ || स्थितमेवानुषङ्गेण तदर्थं सूत्रमुक्तवान् | त्रितयभोक्ता वीरेशः || १-११ || सत्त्वं रजस्तमश्चेति त्रितयं गुणसंज्ञितम् || १-४८ || अवस्थानुगुणं तद्धि स्वस्वरूपादुदेत्यलम् | आच्छादकं (क्: आधारगम्; ग्: आवारकम्) पशूनां तत्स्वस्थितेस्तु विभोः पुनः || १-४९ || सर्वानुस्यूतरूपत्वात्स्वरूपाच्छादनं न तत् | इत्थमेवं गुणस्पन्दनिःष्यन्दानां च चिद्वपुः || १-५० || भोक्ता स्वीकरणात्प्रोक्तः प्रसरस्य विभुत्वतः | अत एव हि वीरेशः स्वप्रकाशैकवृत्तितः [गुणसाम्यावस्थात्म- प्रकृतितत्त्वोत्पन्नानां सत्त्वादीनां गुणानामेकैकप्राधान्यात् त्रिविधस्य जाग्रदादिदशात्रयस्य प्रकाश-प्रवृत्ति-मोह-मयस्य स्ववैभवप्रसरणात्मतया चमत्कर्तृत्वाद्वीरेशः प्रोच्यते इत्यर्थः |] || १-५१ || एवं मरीचिनिचयो गुणत्रयसमुद्भवः | वैकल्पिके जगत्यस्मिन्वमनग्रासतत्परः || १-५२ || तत्रापि ग्रासकृद्यस्मात्तेन वीरेश्वरः स्मृतः | --------------- Pअगे १५ ------------------- एवं स्वस्य स्वभावस्य व्युत्थानेऽपि यथा स्थितिः || १-५३ || स्वका न प्रच्यवत्यस्य तदर्थं सूत्रमादिशत् | विस्मयो योगभूमिकाः || १-१२ || एवं सर्वस्य सर्गादेः कारणं चिद्वपुः प्रभुः || १-५४ || तदधिष्ठितमेवेदं जगत्समवलोकयन् | विस्मयाविष्ट इव यस्तिष्ठति प्रतिभानवान् || १-५५ || तस्य बिन्द्वादिभावौघसंवन्धाद्विस्मयोदयः | समाधिव्यक्तयस्ताः स्युर्या एता योगभूमयः [वेद्यवस्तुजाता- मृतरससारचर्वणे चिद्घनस्वात्मावेशसद्भावात् विकसिताकृत्रिमकरणैः स्वात्मविभूतिं नित्योदितविकसितां पश्यतोऽस्य योगिनोऽपूर्वालौकिकविस्मापकवस्तुदर्शनात् या आश्चर्यायमाणता बिन्द्वादिस्थानावधानपरिशीलनादिवर्जं संजायते सा परतत्त्वभूमिकाधिरूढिज्ञापिका, बिन्द्वादिभावौघसंबन्धादिति ल्यब्लोपे अपादानविभक्तिः |] || १-५६ || १२ || एवमस्याप्रतिहता सर्वेच्छा च विजृम्भते | तदर्थं भगवान्सूत्रमभ्यभाषत शंकरः || १-५७ || इच्छाशक्तितमा (ऽइच्छा शक्तिरुमाऽ) कुमारी || १-१३ || --------------- Pअगे १६ ------------------- सर्वातिशायिनी शक्तिरिच्छैव परमात्मनः | सर्वदृक्कर्तृतायोगात्कुत्सावत्सृतिमारिणी || १-५८ || निरावरणचिद्रूपसमावेशाद्भवत्यतः | तदेव कारणं तस्य सर्वत्राखण्डितं विभोः [निखिलशक्ति- गर्भिण्या इच्छाशक्तेर्योगादेवास्य सर्वत्र दृश्यमये जगति अप्रतिहतं स्वातन्त्र्यं समस्ति, यद्यथेच्छति तथा प्रथते | येन विश्वमनाश्रितादि पृथ्व्यन्तं स्वाङ्गकल्पं निरावरणचिद्घनरूपं प्रस्फूरेत् इत्यर्थः |] || १-५९ || एवं सर्वात्मकस्यास्य किमेकं देहिदेहवत् | शरीरमुत वा सर्वमत्रोवाच सुरेश्वरः || १-६० || दृश्यं शरीरम् || १-१४ || सर्वभावोद्भवस्यास्य [सर्ववेद्याकारः परमशिव एव स्फटिक इव स्वप्रतिफलितानां स्वाधिष्ठानानां क्वचित् संकुचितभूमिकायामपि बहिरन्तः सतां भावानां व्यापित्वात् तत्प्रकाशसत्ताप्रदान-तत्स्थित्यन्यथानुपपत्तिसद्-भावेन जीवितदेशीय इति सूत्राशयः |] सर्वबीजात्मनः प्रभोः | --------------- Pअगे १७ ------------------- चिद्रूपस्य व्यापकत्वान्नैकं तस्य शरीरकम् || १-६१ || तन्न बाह्यार्थ (क्: तेन बाह्यार्थ) एवास्य यो यो दृश्यो विकल्पजः | स स देहो व्यापकत्वात्सर्वभावोद्भवत्वतः || १-६२ || स्ववर्गचित्स्वरूपेण तादात्म्यात्सर्वदेहभृत् | शरीरव्यतिरेकेण दर्पणप्रतिबिम्बवत् || १-६३ || दृश्यं यस्य व्यापकत्वात्स मोक्षश्रीनिकेतनम् | उक्त्वैवं ज्ञानसद्भावस्तद्योगश्च (क्, ग्: उक्त्वेति ज्ञानसद्भावं तद्योग) कथं भवेत् || १-६४ || स्वहृन्मन्दिरगस्यास्य (क्: सुहृन्मन्दिरगम्यस्ये) तदर्थं सूत्रमाह च | हृदये चित्तसंघट्टाद्दृश्यस्वापदर्शनम् || १-१५ || आधारभूते [सर्वेन्द्रियनाडिसंततीनामधिष्ठानभूते हृदि ऐहिकामुष्मिकेभ्यो बाह्यार्थेभ्यो विरज्योपरतस्य चित्तस्याभ्यासादिनावधानात् दृश्यानर्थविलयः | यद्वा शुद्धाशुद्धाध्वनोरूर्ध्वाधस्तनयोरवधिकल्पतया स्थितं सौषुप्तं व्योम हृदयमुच्यते, तत्र वृत्तिविलयनात् औष्ण्याभावे वह्नेरिव मनसोऽपि लयः | तस्मिन् निर्मनस्के अतेजस्तमोमये (यत्र देहाद्यहन्ताभावात् तदपेक्षिब्रह्मक्षत्रशब्दोपलक्ष्यमाण-योः वेदाध्ययनव्यवहारव्यवस्थापनकर्मणोरानुषङ्गिकी निवृत्तिः ) तुरीयाकाशे अव्यवहितस्वस्वभावस्योपलब्धिः, जन्ममरणादिसंसारानर्थमूलाज्ञाननिवृत्तिश्च | अप्रबुद्धमतेस्तु तत्र स्वापानुभव इति आधारभूते इत्यादीनां सूत्रार्थज्ञापककारिकापद्यानां संग्रहाशयः |] हृदये चेतसः स्थित्युपग्रहः || १-६५ || --------------- Pअगे १८ ------------------- संघट्ट इष्यते तेन स्याद्दृश्यस्वापदर्शनम् | सौषुप्तं व्योम (क्: सौषुम्णं व्योमेति; ग्: सौषुप्त्यमिति) हृदयं मध्यस्थत्वात्प्रभाष्यते || १-६६ || अत्रात्मनः समाधानं यत्संघट्टः स चेतसः | तदुत्थवृत्तिजालस्य स्वात्मन्यैक्यादुदीरितः || १-६७ || शरीरापेक्षया तस्मिन् व्योम्नि लीनो यदा तदा | ब्रह्मक्षत्रवधस्तस्य स्थित एवानुषङ्गतः || १-६८ || दृश्यं स्यादुपलभ्यं यन्निरावरणलक्षणम् | स्वस्वरूपं प्रबुद्धं तत्तत्प्राप्तिर्दर्शनं स्मृतम् || १-६९ || स्वापकारस्य मोहस्य हानावत्र च दर्शनम् | दिव्यमुद्रासमावेशात्प्रबुद्धः सर्वदा विभुः || १-७० || अप्रबुद्धमतेस्तस्य स्यात्स्वापस्यैव दर्शनम् | सोमपानात्प्रबुद्धस्य स्वप्नस्वातन्त्र्यमेव तत् || १-७१ || --------------- Pअगे १९ ------------------- तमोवरणनिर्भेदः सोऽयं च प्रतिभोदयः | अन्तर्बहिर्विचार्यैव स्वरूपं तद्विवर्जनात् || १-७२ || अखण्डमण्डलाकारं परिपूर्णं करस्थितम् | तदर्थं शिवशक्त्यात्मभेदे स्थितिर्यथा स्थिता || १-७३ || स्वालोकश्च (क्: स्वो लोकश्च) न हीयेत प्राह सूत्रत्रयं विभुः | शुद्धतत्त्वसंधानाद्वा (विमर्शिन्यां तु मूलशिवसूत्रेषु ऽशुद्धतत्त्वसंधानाद्वाऽपशुशक्तिःऽ इत्येकसूत्रात्मा भेदविशिष्टश्च पाठोऽस्ति | अस्मिन्ग्रन्थे शुद्धतत्त्वसंधानाद्वा इति, ऽस्वपदशक्तिःऽ इति च विभक्तसूत्रद्वययात्मा पाठः एतद्ग्रन्थकृता संव्याख्यातोऽस्ति |) [अत्र विश्रामभूमिसंज्ञकस्य परानदात्मशिवचैतन्यस्य निरूपणपूर्वकमुपायकथनम् |] || १-१६ || शुद्धं निरुपधि ज्योतीरूपं तत्त्वं शिवाभिधम् || १-७४ || तत्संधानं तदात्मत्वविमर्शस्तेन वा भवेत् | तमोवरणनिर्भेदः परिपूर्णैकरूपतः || १-७५ || बाह्याहंभावसंत्यागादखण्डितनिजस्थितिः (क्:-निजस्थितेः) | इति शिवचैतन्यनिरूपणम् || --------------- Pअगे २० ------------------- स्वपदशक्तिः [अस्मिन् परानन्दात्मलाभभूमिसंज्ञकशाक्तचैतन्यनिर्देशः संव्याख्यातोऽस्ति |] || १-१७ || स्वपदं सत्पदं ज्ञेयं (ग्: ऽसत्पदशक्तिस्थितिःऽ) शिवाख्यं यदुदीरितम् || १-७६ || तद्वीर्यं दृक्क्रियारूपं यत्सा शक्तिः प्रकीर्तिता | तस्याः कर्त्रंशसंवेशो लीनता स्यात्स्थितिश्च सा || १-७७ || तदेव प्रतिभालोकः स्यात्प्रकाशैकमन्थरः | इति शक्तिचैतन्यनिरूपणम् || वितर्क आत्मज्ञानम् [अनेन प्रोल्लासभूमिसंज्ञकात्मचैतन्यध्वननपुरःसरम् स्वालोकस्य पाप्त्युपायो निरूप्यते |] || १-१८ || उपाध्युपाधिसंभेदे विवेकः प्रत्यवेक्षणम् || १-७८ || स वितर्कः स्वस्वभावविमर्शैकघनात्मनः | आत्मनः शिवरूपस्य प्रत्यभिज्ञाप्रसाधने || १-७९ || --------------- Pअगे २१ ------------------- परं तत्साधनं ज्ञेयं तस्मिन्सत्यात्मवेदनम् | तस्माद्वा प्रतिभोन्मेषः स्याच्छुद्धस्यात्मनः परः || १-८० || इति आत्मचैतन्यनिरूपणम् || निरानन्द-परानन्द-महानन्दस्वरूपकम् | शिवशक्त्यात्मचैतन्यत्रयमेतन्निरूपितम् || १-८१ || विश्रामलाभप्रोल्लासभूमिसंज्ञं त्रयेण च | सूत्राणां ................... || १-१६-१-१८ || ............पुनरप्याह यथास्य प्रतिभोदये || १-८२ || स्वरूपलाभसौख्यैक्यप्रकाशैक्यं कचत्यलम् | लोकानन्दः समाधिसुखम् [स्फुरितस्वात्मस्फूर्तेर्योगिनः स्वरूपलब्धिसुखं, विश्वत्र भावेषु प्राकशैक्यकचनं च प्रोक्तोपायसेवनात् झटिति प्रस्फुरतीत्याशयः |] || १-१९ || चित्प्रकाशः परः शुद्धश्चान्तर्बहिरिवोदितः || १-८३ || नित्यः सर्वात्मकः सर्वः सर्वभावोद्भवो विभुः | स लोक इति विज्ञेयः स एवानन्द उच्यते || १-८४ || चित्प्रकाशैककचनं निर्यन्त्रणस्फुरद्वपुः | --------------- Pअगे २२ ------------------- तदास्वादैकतानत्वात्समाधिसुखमीर्यते || १-८५ || यद्वा ग्रहीतृग्राह्यैकवर्गप्रसरणात्मके | पदद्वये स्वप्रमोदस्तत्समाधिसुखं स्मृतम् (निर्यत्रणेत्याद्यारभ्य स्मृतमित्येतत्पर्यन्तं पादोनपद्यद्वयं पुस्तकान्तरेष्वविद्यमानं ग पुस्तकाश्रयेण पूरितम् |) || १-८६ || १-१९ || एवं स्वतन्त्रस्य (ख्: तस्य स्वतन्त्रस्य) सतः स्वेच्छाकर्तृत्वसूचकम् | सूत्रं प्रोवाच भगवानकृत्रिमफलोदये || १-८७ || यतः क्रियात्मिका शक्तिर्बन्धयित्री पशुष्वतः | शक्तिसंधाने शरीरोत्पत्तिः [शक्तिरूपाणां भावानां निरुपादानादिसामग्रीजातं स्वभित्तावेव निर्भासनाद्धेतोः शक्तिमांश्चित्स्वरूप एव स्वेच्छया स्वात्मनि प्रकाशैक्येन स्थितमर्थजातमुन्मीलयति, अतः प्रागुक्ततत्स्वातन्त्र्याख्यशक्तिं तादात्म्येन परामृशन् स्वतन्त्रोऽयं योगी यथेच्छममरादिविलक्षणां कायसंभूतिं रचयतीत्यर्थः |] || २० || शक्तिमान्निरुपादानः सच्चिद्रूपः प्रकाशकः (क्: चिद्रूपोर्ऽथप्रकाशक) || १-८८ || अन्तःस्थितानां भावानामिच्छयैव बहिर्यतः | --------------- Pअगे २३ ------------------- इच्छाज्ञानक्रियापूर्वाः शक्तयः पञ्च संस्थिताः || १-८९ || ईशान्यापूरणी हार्दी वामा मूर्तिश्च ता मताः | अन्या विज्ञानदेहाख्या आसामेवानुगाः स्मृताः || प्रक्रियादेहनिर्माणमासां संधानमुच्यते || १-९० || तस्मिन्सति शरीरस्य यस्य यस्य यथा स्थिता || १-९१ || स्यादुत्पत्तिस्तथा तिर्यङ्नरामरविलक्षणा | इत्थं कर्तृत्वमेवास्य सर्वत्राक्षययखण्डितम् || १-९२ || सत्यालोकेऽपि कार्यस्य क्षयित्वं च निरूपितम् || १-२० || स्वातन्त्र्यात्पुनरस्यैव विभवप्रतिपादकम् || १-९३ || अवोचद्भगवान्सूत्रं स्वेष्टक्रीडानिरूपितम् | भूतसंधानभूतपृथक्त्वविश्वसंघट्टाः [य एष चिदात्मनः शुद्धाध्वोपादानभूतो विशदतमश्चिदानन्दे- च्छाज्ञानक्रियाशक्तिनिचयः स एवाधस्तनाध्वनि पञ्चकपञ्च- कात्मना तत्त्वक्रमावतरणनिबन्धनम्, तद्यथा आकिंचन्य- दशावभासने संकुचिततया स्वशक्त्या मायाभावमाश्रितया चिदात्मा पुंस्तत्त्वभूमिकामापन्नः | शक्तिनिचयस्तु तद्दशौचितीपरिमितवैभवोपभोगायकञ्चुकीभूतः | तदनु तदधरतत्त्वजालसंतानाय त्रिशक्तिच्छायोपजीविन्या तया गुणपरिणत्युन्मिषत्तया तत्साम्यावस्थां प्रकृतिमध्यासीनया पुर्यष्टकभावसमापत्तिः | इच्छादित्रितयोपादानानि मनोबुद्ध्य- हंकृत्तत्त्वानि, शक्तिपञ्चकानुषङ्गेनैव ज्ञानशक्तिप्राधा-न्यात् धीन्द्रियाविर्भावः, क्रियाशक्तिप्राधान्यात् कर्मेन्द्रियोत्-पत्तिः; बहिरपि स्थूलभावेन अथः सह तदुत्पादः | इत्थं भिन्नभिन्नप्रकारेण विश्वरचना, तथा तेषु तत्त्वेष्वनुगतमेकं सामान्यप्रकाशस्वरूपं भिन्नेष्वभिन्नं विलक्षणां पुर्यष्टकभूमिकासंश्रित्या विश्वनाट्यनिर्वहणं चास्य चिदात्मनः स्वेष्टक्रीडनविस्फुरितं निरूप्यते इति |] || १-२१ || --------------- Pअगे २४ ------------------- शव्दशक्त्याद्यवयवैः खादिभूतविनिर्मितिः || १-९४ || संधानमुक्तं तत्तेषां मूर्तिभेदविवक्षया | प्रतिभूतं च भूतं च स्वसत्तैक्यं (ख्: स्वमर्थैक्यम्) विविक्तता || १-९५ || पृथक्त्वमुच्यते तद्धि कर्त्रंशप्रवरो यतः | वृत्त्याह्लादप्रकाशाख्यस्पर्शानुभवभूजुषः || १-९६ || ज्ञेयौ ज्ञानक्रियेऽर्केन्दू यजमानस्य चिद्विभोः (क्: यजमानश्च चिद्विभुः) | चतसृभिस्तथाभूत-विश्वसंघट्ट (क्: -तथा भूतैर्विश्व-) इष्यते || १-९७ || प्रतिमूर्तिक्रियायोगं कचनं चिद्विभोरतः | एतावद्विश्वमेवेह यदष्टकसमागमः || १-९८ || १-२१ || --------------- Pअगे २५ ------------------- कथं सर्वस्य जगतः कारणं शक्तयस्तथा | आत्मनस्तत्प्रभुत्वं स्यात्तदर्थं सूत्रमुक्तवान् || १-९९ || शुद्धविद्योदयाच्चक्रेशत्वसिद्धिः || १-२२ || शुद्धं निरुपधि ज्योतिः सर्वाभासावभासकम् (क्, ख्: ज्योतिः सर्वभासेत्यादिकपदजातं तत्प्रथनमित्यन्तं नाभूत्, ग पुस्तकादुपन्यस्तम् |) || १-१०० || तस्यानन्तार्थस्रष्ट्टत्वात्परस्वातन्त्र्यधर्मिणः | वेदना वर्णिता विद्या सर्वाहंबोधरूपिणी || १-१०१ || तस्योदयस्तत्प्रथनं तस्माच्चक्रेशलक्षणा | सिद्धिर्भवति विश्वत्र माहेश्वर्यविकस्वरा (क्: सिद्धिर्भव्ति चक्राख्येत्येवं रूपः, माहेश्वर्येति-पादहीनश्च पाठः |) [विश्वमयानुत्तरचिद्धनपरमशिवस्य स्वात्मनः साक्षात्करणात् परापरस्वातन्त्र्यमासाद्य योगिनः परममाहेश्वर्यविकस्वर- तच्छक्तिसमापत्त्या अणिमाद्यष्टैश्वर्यात्मिकानां चक्रेश्वरीणामीश्वरताप्राप्तिः | यत्र अणिम्ना स्वेच्छया सद्य एव अवयवापचयेन देहसौक्ष्म्यसंपादनात् परमाणुष्वपि समावेष्टुं शक्तता | लघिम्ना गरिष्ठवपुषः इषीकातूलवत् वायुस्कन्धेषु संचारः | महिम्ना महत्परिमाणत्वम् | प्राप्त्या भूमिष्ठस्याप्यवयवोपचयेनाङ्गुल्यग्रदैर्ध्यात् चन्द्रादिस्पर्शनम् | प्राकाम्येन इच्छानभिघाततया उदक इव भूमावपि निमज्जनोन्मज्जनयोर्नास्य रूपं भूतरूपैर्विहन्यते | वशितया सर्वभूतान्यादेशकारीणि भवन्ति | ईशितृतया भूतानां प्रभवाप्ययव्यूहानामीष्टे | यत्रकामावसायि-तया यथासंकल्पं भूतप्रकृतीनामवस्थानम् इति | यद्वा चक्रं संविद्देवीरूपं ब्राह्यादिशक्तिचक्रं, तदीश्वरत्वेनास्य प्रातिभादयो योगशास्त्रप्रसिद्धा ज्ञानप्रकर्षा जायन्ते, इत्यखण्डितैश्वर्यपरिपूर्णश्चक्रेश्वरो विराजते इत्याशयः |] || १-१०२ || || १-२२ || --------------- Pअगे २६ ------------------- इत्थं सति कथं मन्त्रवीर्यसंविद्भवत्यतः | सूत्रमाह महावीर्यस्वरूपप्रतिपादकम् || १-१०३ || महाह्रदानुसंधानान्मन्त्रवीर्यानुभवः [शक्तिमच्छक्तिसंघट्टस्यैव उत्पत्स्यमानविसर्गप्रसरणा- धारानवगाह्यस्वभावतया महाह्रदोपचारः | तदन्तःसारसर्वस्वभूतः स्वसंवेद्योऽहंपरामर्शमयो निरपेक्षोऽविकल्पमहामन्त्रमणिः ( यत् विश्वावष्टम्भकमादि- मान्त्यरूपमसामान्यं वीर्यं तदुपभोगपात्रैः महायोगिभिरेवास्वाद्यते प्रोक्तरूपानुसंधानात् ) परावाग्रपो गर्भीकृतानन्तवाच्यवाचकात्मा प्राप्यस्थानीयं विश्रान्तिधामेत्यर्थः |] || १-२३ || चिदात्मैव परः शुद्धः शक्तिमच्छक्तिविग्रहः | सृष्टिस्वभावो भावानामुद्भवे परमैव भूः || १-१०४ || दिक्कालकलनाहीनो ह्यनवच्छिन्नसंततिः | महाह्रदसमानत्वात्स महाह्रद उच्यते || १-१०५ || तदकृत्रिममाख्यातं बलमात्मनि तत्र च | --------------- Pअगे २७ ------------------- दृगानन्दारणीसारमध्यस्वरसलक्षणः || १-१०६ || विकस्वरोन्मिषत्तात्मशाक्ताख्येन बलेन च | सोमांशे स्थैर्यलाभः स्यात्तदुदानप्रवेशनम् || १-१०७ || अनुसंधानमेतत्तत्तेन तत्र स्थितिर्यदा | तदा गर्भीकृताभीष्टवेद्याकारनिजस्थितिः || १-१०८ || सम्यगुच्छूनतारूपोल्लसिताङ्कुररूपकः | प्रोन्मेषः सूक्ष्मवाग्रूपः सोऽनभिव्यक्तवर्णकः || १-१०९ || ककारार्धवृत्तियोगाद्भवेन्मन्त्रोदयः स्फुटम् | स एव वीर्यानुभवो मान्त्रः साधकसिद्धिदः (क्: मन्त्रः साधक-) || ११० || || १-२३ || सामान्यचित्प्रकाशैकस्वरूपप्रतिपादकम् | शिवसूत्रप्रकरणं समाप्तमिदमादिमम् || १-१११ || --------------- Pअगे २८ ------------------- अतः परतरं मान्त्रं स्वरूपमुपवर्ण्यते | वक्ष्यमाणप्रकरणे विद्योदयसमन्वितम् || १-११२ || इति श्रीमद्भट्टदिवाकरात्मज-श्रीमदाचार्य-भट्टभास्कर- विरचिते शिवसूत्रवार्तिके सामान्यचित्प्रकाशस्वरूपनिरूपणा-ख्यः प्रथमः प्रकाशः || १ || अथ सहजविद्योदयाख्यः द्वितीयः प्रकाशः --------------- Pअगे २९ ------------------- उक्तक्रमेण शिवतां सर्वज्ञानक्रियावतः | उपपाद्यात्मनस्तत्र मान्त्रं वीर्यं च यादृशम् || २-१ || पुनराहात्र वक्तव्यं मान्त्रं स्वं रूपमेव यत् | कोऽसौ मन्त्रो यस्य वीर्यं तदर्थं भगवानजः || २-२ || चित्तं मन्त्रः [उक्तोपायः तीव्रतरादिशक्तिपातवतांसुप्राप्यः | मन्दशक्तिपातवतां तु मन्त्रवीर्यं समापत्तुं पौनःपुन्येन श्रुतस्मरणादिवशात् अस्फुटतादिक्रमेण स्फुटतमत्वाद्यापत्तिपर्यन्तं विकल्पसंस्करणात् मन्त्रादिनिभालनात्मकमुपायान्तरं ( येन परस्फुरत्तासंवेदन - भेदप्रथनोपशमने सहजविद्योदयः ) उपेयपदप्राप्तये आरभ्यते चिदेव प्राक् विश्वक्रीडनप्रारिप्-सायां निजाकालकलितचिन्मयपदवीतः अधोभुवमवतरन्ती परिमितभावपरिग्रहणपुरःसरमुल्लासितसंकुचितचेत्यं प्रति औन्मुख्यं गृह्णाना चित्तमिति प्रोच्यते | सैव पुनः स्वपदारुरुक्षायां सोपानाद्यधिरोहण-क्रमेण पारिमित्यमुज्झती ईशनशीला चित्प्रकाशघनशिवतामयी संपद्यते | अतः तन्मनो वेद्यमुपसंहृत्यान्तर्मुखीभावेन स्वतन्त्रत्वात् स्वं महः पराम्रष्टुं पर्याप्तं, तत्परामर्शनधर्मित्वात् चित्तमन्त्रयोरभेदोपचारः |] || २-१ || --------------- Pअगे ३० ------------------- चित्तमेव शिवो ज्ञेयः प्रमाता निरुपाधिकः | सर्वज्ञतादिगुणवान् दिक्कालकलनोज्झितः || २-३ || स्वात्मानुभवधर्मित्वात्स मन्त्र इति गीयते | तत्कथं (तत्कथामिति पद्यार्धं पुस्तकान्तरेष्वविद्यमानं ग पुस्तकाअत्प्रक्षिप्तम् |) योगिनां सिद्ध्येत्तदाह परमेश्वरः | प्रयत्नः साधकः || २-२ || चित्तरूपसमावेशे [भूयो भूयो बाह्यवृत्तिसंहरणात् ज्ञात्रादिभीन्नसंवेदनविलयपूर्वं प्रोक्तमन्त्रस्वरूपात्- मध्येयाकारतादात्म्यप्रत्ययैकतानतायाः प्रवहद्रूपत्व-मेव साध्यप्राप्तौ प्रकृष्टापकारकमित्यर्थः |] प्रयत्नोऽतिशयः स्मृतः || २-४ || पूर्वोक्तवीर्यवृत्त्यासौ पुनरुक्तनिभालनात् | स एव साधकस्तत्र प्रकृष्टः परिकीर्तितः || २-५ || --------------- Pअगे ३१ ------------------- चित्तत्त्वमात्मनः सिद्धं वक्ष्यमाणनयेन च | त्रिकसारे षट्सहस्रे शिवेनैव निरूपितम् || २-६ || चिच्छक्तेः स्वस्वभावो यः स मन्त्रः परिगीयते | यन्नैरन्तर्यमननाद्योगी रूढशिवावनिः | यद्वशात्परमार्थज्ञा योगिनो योगचिन्तकाः || २-७ || २-२ || एवमादिश्य भगवान्वाचकानां स्वरूपकम् | वाच्यवाचकयो रूपमभिन्नं भेदयोगि वा || २-८ || स्यात्तदर्थं प्राह सूत्रं स तदर्थप्रकाशकम् | विद्याशरीरसत्ता मन्त्ररहस्यम् || २-३ || शुद्धे चिन्मात्रतावेशादुन्मेषः सहसैव यः || २-९ || स्वप्रकाशविकासाख्या सा विद्येति निरूपिता | शरीरसत्ता सा मान्त्री रहस्यं परमं च तत् [इत्थं मन्त्रवीर्यप्रविविक्षायां साधकस्य भेदास्पदतया प्रकाशमानो वाचकात्मा मन्त्रः स्वव्यापारसमन्तरम् अशेषविश्वाभेदमयेन पूर्णाहंविमर्शनसारस्फुरणात्मना वाच्येनाभिन्न एव | ऽप्राक्संवित्प्राणे परिणताऽ इत्युक्तनीत्या बिन्दुस्वरूपिणी परावाङ्मयी शक्तिः क्रियाशक्तिस्फारमयनाद- रूपेण सूक्ष्मप्राणतामाश्रित्य परनादगर्भा चित्प्रकाशस्य प्राधान्येन अनुदितवाच्यवाचकक्रमां पश्यन्तीरूपतामुन्-मील्य, तदनु बुद्ध्याधिष्ठानां क्रमस्य स्फुटास्फुटतया मध्यमां, ततोऽपि करणप्रधानां वैखरीं च स्फुटक्रमां प्रोन्मीलयति-इत्येतावतः प्रसरक्रमस्य प्राच्यतररूपानुगततया प्रकाशमानतान्यथानुपपत्तेः परतरवाच्याभिन्नमेव मन्त्रचक्रमित्यर्थः |] || २-१० || || २-३ || --------------- Pअगे ३२ ------------------- एवं स्थिते रहस्येऽर्थे मन्त्ररूपे यथायथम् (क्: ऽएवं स्थिते यस्य यस्य मन्त्ररूपो यथायथम् | तथा स देहिभिर्मान्त्र उपायः परमोदयम्ऽ) | एष्टव्यो देहिभिर्मान्त्र उदयः परमोदयः || २-११ || कथं स्यादत्र च विभुः सूत्रमाह यथार्थवत् | गर्भे चित्ताविकासो विशिष्टोऽविद्यास्वप्नः (शिवसूत्रविमर्शिन्यां हि ऽगर्भे चित्तविकासोऽविशिष्टविद्या-स्वपनःऽ इत्येवंविधः पाठोऽस्ति) || २-४ || प्रकाशानन्दसारान्तर्व्यावर्तनबलाद्भृशम् || २-१२ || विषयेभ्यो निवृत्तस्य मनसश्चिन्मयी स्थितिः (ऽविषयेभ्यऽ इत्याद्यारभ्य ऽविलोपनम्ऽ इत्यन्तं सार्धपद्यद्वयं; ग पुस्तकात्संगृहीतम् |) | परो विकासश्चिच्चन्द्रचन्द्रिकामृतनिर्भरः || २-१३ || स्रवच्छाक्तामृतापूराप्लुतानन्दिजगन्मयः | --------------- Pअगे ३३ ------------------- तत्सद्भावादविद्यायाः प्रथयन्त्या धरादिभिः || २-१४ || तत्त्वजालैरलंग्रासयुक्त्या स्वप्नो वोलोपनम् | तदेवं सति विद्यैव यथावत्प्रतिपादिता || २-१५ || सोपायेयमतः सर्वमन्त्रमुद्रास्वरूपिणी (क्: सोपदेशमतः सर्व- |) [मान्त्रोदये चित्तस्य प्राकृतस्वभावविनाशेन तद्गुणापादितानां विसृणामवस्थानां स्वरूपविप्रलोपात् अत्युन्नतपरपदावेशा- रुढिरुपायः | एवं वीर्यलाभे सति मन्त्रान्तराणां तत्संजीवितानामधिकार्यसमृद्धौ शक्त्याधानं प्रयोज्यते, अन्यथा औत्तराधर्येण स्थितयोरात्मशिवयोर्मन्त्रनियोजना जाड्यनैष्फल्यमादधना वैयर्थ्यमियादिति भावः |] || २-४ || मान्त्रं वीर्यं तत्स्वरूपं तद्विमर्शं तथोदयम् || २-१६ || प्रतिपाद्य पुनर्मुद्रावीर्यार्थं प्राह शंकरः || विद्यासमुत्थाने स्वभाविके खेचरी शिवावस्था [यया परचिदाकाशे योगी चरति सा खेचरी मुद्रा, साक्षात् शिवावस्थैव | अत्र मुद्रामन्त्रवीर्ययोर्मायीयसमस्तक्षोभप्रशान्त्या चिदात्मकस्वरूपोन्मज्जनैकलक्षणमवस्थासाम्यमस्ति केवलं बाह्यार्थज्ञाने कार्यभेदात् पृथगर्थता ज्ञायते इत्यर्थः |] || २-५ || स्वालोकलक्षणा शुद्धा यैव विद्या निरूपिता || २-१७ || --------------- Pअगे ३४ ------------------- समुत्थाने तदुदयो यथावत्प्रागुदीरितम् | स्वाभाविकं स्यात्सहजं बलमात्मन्यकृत्रिमम् || २-१८ || तदेवं सति तस्मिंस्तन्मुद्रावीर्यं विजृम्भते | खेचरी सा शिवावस्था शिवव्योम्न्युदिता यतः (तदेवमिति पद्यार्धंपुस्तकान्तरेषु अविद्यमानं गऽ पुस्तकाधारेण पूरितमस्ति |) || २-१९ || खे स्वचिद्गगनाभोगे चरणात्खेचरीति सा | ध्येयानुकारतादात्म्यप्रतिपत्त्युदयात्मिका (क्, ग्: ध्येयाकारस्य तादात्म्या-) || २-२० || अत एव शिवावस्था स्वरूपावेशशालिनी || २-५ || एवं मौद्रं च मान्त्रं च वीर्यं स्यादेकरूपकम् || २-२१ || कार्यभेदाद्भेदयोगि बाह्यार्थप्रतिपत्तितः | अतो मुद्रामान्त्रवीर्यव्याप्त्युपायार्थमाह च || २-२२ || गुरुरुपायः [गुरुरत्र मन्त्रादिबललाभे पारमेश्वरी अनुग्राहिका शक्तिरुपेयपदप्रापिणी, यया अनुत्तरे परमशिवाख्ये औन्मनसपदे विश्रान्तिभाग्भवति भक्तजनः |] || २-६ || --------------- Pअगे ३५ ------------------- प्राप्तावत्र गुरुः शक्तिरुपायः परमः स्मृतः | यतः सा शाम्भवी शक्तिरनुग्रहकरी सदा || २-२३ || उत्पाताद्रक्षितोरजन्तुः क्रियते भवनिस्पृहः | तदधिष्ठितदेहोऽसौ (क्: तदधिष्ठितदेहस्य) नीयते सद्गुरुं प्रति || २४ || वक्तृत्वात्तात्विकार्थानामुपेयपदलम्भनात् (वक्तृत्वादित्यारभ्य सार्धपद्यं पुस्तकान्तरेष्वनुपलक्ष्यमाणं ग. पस्तकात् संगृह्योपन्यस्तम् |) | गुरुरौन्मनसे धाम्नि विश्रान्तिपथदर्शकः || २-२५ || एवं गुरौ प्रसन्ने तु किं भवेत्तत्प्रदर्श्यते | मातृकाचक्रसंबोधः || २-७ || स्वाभासा मातृका ज्ञेया क्रियाशक्तिः प्रभोः परा || २-२६ || तस्याः कलासमूहो यस्तच्चक्रमिति (क्: तस्य कालः समूहश्च-) कीर्तितम् [अनुत्तरमूर्तेः परमशिवस्य स्वेच्छया विश्वं सिसृक्षोः प्रथमस्पन्दात्मिका स्वरूपप्रत्यवमर्शनलक्षणा तदभिन्ना मातृकाख्या क्रियाशक्तिरस्ति, सैव अम्बा-ज्येष्ठा-वामा- रौद्रीरूपं शक्तिचतुष्टयं विभाव्य ध्रुवेच्छोन्मेषादि- कलानां प्रसरविश्रान्त्यादौ अन्योन्यव्यतिमिश्रणात् उद्भविष्यन्तं बीजात्मकशुद्धाध्वानं तदभेदवेदनरूपं बिन्दुं च प्रोल्लास्य उत्स्रक्ष्यदधरभूमेः विसिसृक्षारूपं विसर्गं प्रदर्शितवती, योन्यात्मशाक्तोल्लासमयमशुद्धा-ध्वानं प्रपञ्चयति | तत्र सर्वशक्तिचक्रक्रोडीकारिण्या इच्छाशक्तेः प्राणनात्मतावतारे अनाहतध्वनिविवर्तनपूर्वं पदवाक्यादिगर्भप्राणक्रियासमुद्भवः | अतो मातृकैव एतावतो वाच्यवाचकात्मकस्य विश्वस्य प्रपञ्चयित्री मन्त्राणां मुख्यमादिकारणम् इत्यर्थः |] | --------------- Pअगे ३६ ------------------- तस्य सम्यक् परिज्ञानं यत्संबोधः स इष्यते || २-२७ || सति तेन विवर्तो यो वाच्यवाचकलक्षणः | क्रियाशक्त्युदितत्वात्स भिन्नोऽभिन्नः सदायतः || २-२८ || नित्योदितानस्तमितप्रकाशवपुषः पुरा | विर्यौन्मुख्यात्प्रभोरिच्छाशक्तेः समुदयो भवेत् || २-२९ || ततः संवेदनस्पर्शौ प्रादुर्भूतौ ततः पुनः | सर्वार्थप्रतिभासश्च ततो ध्वनिरनाहतः || २-३० || पदवाक्यार्थगर्भः स्यात्ततः प्राणात्मिका (क्: ततश्च पदवाक्यार्थगर्भा प्राणात्मिका) क्रिया | पञ्चाशद्वर्णगर्भा वाक् ततः सर्वस्य (क्, ग्: पञ्चाशद्वर्णगर्भान्तर्विश्वसर्गस्य) संभवः || २-३१ || --------------- Pअगे ३७ ------------------- मन्त्रादिवस्तुजातस्य मूलमेकं ततः स्मृता | मातृकैव क्रियाशक्तिः शिवस्येत्थं विजृम्भते || २-३२ || मातृकाचक्रसंबोध (क्: प्रमातृचक्रसंबोध) एवं जातो यदा तदा | यद्यद्वक्ति प्रबुद्धः सन्प्रभुर्मन्त्रेन्द्रतामियात् [एवं संबोधवतः प्रबुद्धस्य यत्किंचन निरन्वयं लौकिकं वा भाषणमयमपि, तत् मन्त्रवत् स्वकार्यसंपत्तौ निर्यन्त्रणं प्रसरेदिति |] || २-३३ || २-७ || इत्थं प्रज्वालिते मान्त्रे तेजसि प्रज्वलत्यलम् | कार्मं पुनर्भवकरं वपुस्तत्राह शंकरः || २-३४ || शरीरं हविः || २-८ || ज्ञानानले [मान्त्रं दिव्यदेहमाश्रित्यासीनस्यास्य सर्वभावजालचिदग्निसात्करणलक्षणेष्टिं कुर्वतो यजमानस्य मायीयप्रमातृताप्रशान्त्या सर्वाहंभावपरवीर्यात्म- मान्त्रशरीरसंपत्तौ देहबन्धनहेतोः कार्ममलस्य विनस्टिरित्याशयः |] प्रज्वलिते मन्त्रतादात्म्यलक्षणे | शरीरं प्रगलत्येव भौतिकं कर्मबन्धनम् || २-३५ || हविर्भूतमतश्चाथ (क्: हविर्भूतमय-) दिव्यदेहाश्रयाद्यतः | --------------- Pअगे ३८ ------------------- एष एव परो देहो यजमानस्य चिद्विभोः (क्: यजमानश्च चिद्विभुः) || २-३६ || निरर्गले महासत्त्वे नित्योदितमहानले | यदर्पर्णं शरीरादेर्भावजातस्य सर्वदा || २-३७ || २-८ || एवं परं ज्ञानकायस्थितस्यान्नं किमाह च | ज्ञानमत्रम् [परावस्थायां स्वात्मवैभवविजृम्भणं परिशीलयन् असावत्यन्तं निराकाङ्क्षः, अन्तर्बहिःस्वात्म- विस्फुरणमये विश्वस्मिन् भरितस्वभावत्वात्; व्यवहारे तु कदाचित् शरीरभूमिकायां वर्तमानः प्रबुद्धनटवत् स्वात्मचमत्- करणपूर्वं पात्रीभूय अभिनयान् निर्वहन् विषयेन्द्रियैः विषयजातं परामृतरसाच्छुरितमाहृत्य स्वात्मने समर्पयति, न तु विषयासक्त्या स्वरूपस्फूर्तिं विस्मृत्य पशुरिव अधरावस्थामधितिष्ठतीति भावः |] || २-९ || ज्ञानमत्र परं सम्यगुक्तं प्रकरणद्वये (क्, ख्: प्रकरणद्वयम्) || २-३८ || तदेवान्नमिव ज्ञेयं परितृप्त्युपपादकम् | --------------- Pअगे ३९ ------------------- यतः प्रपूर्णतैव स्यादसकृत्तन्निभालनात् || २-३९ || तदेवं सत्यविद्यायाः संहारस्तेन किं भवेत् | तदर्थं चास्य निष्पत्त्यै खण्डमाहामरार्चितः (क्: खण्डस्याह महेश्वर) || २-४० || विद्यासंहारे तदुत्थस्वप्नदर्शनम् [ इत्थमुक्तप्रक्रियार्थ-निभालनेन किंचिज्ज्ञत्वलक्षणाया अविशिष्टविद्याया निमज्जने तदुत्पन्नानां स्वरूपशून्यार्थनिर्भासनविकल्पमयानां भवाभवादिजगतां स्वप्नवत् निरुपादानसामग्यं स्वस्वातन्त्र्यात् गिरिनगरोपवनादिवैचित्र्येण संवेदनस्वच्छतमदर्पणे निमग्नोन्मग्नानां चित्सत्ताव्यतिरेकितां प्रत्यवेक्षमाणो योगी निरङ्कुशं शिववत् नित्यसर्वज्ञतादिशक्तिः सहजविद्योदयपदे विहरतीत्यर्थः |] || २-१० || संसारवेदनी (क्: संहारे वेदनी) विद्या ह्यविशिष्टा निरूपिता || २-४१ || तस्याः संहार एव स्यात्स्वप्रकाशोदये सति | संहारे सत्यविद्योत्थं भावजातं विमोहकम् || २-४२ || स्वप्नरूपं (क्: स्वप्नजातम्) स्मृतं तस्य दर्शनं प्रत्यवेक्षणम् | इत्येवं परमेशेन संगृह्य च निरूपितम् || २-४३ || --------------- Pअगे ४० ------------------- प्रबुद्धता वृत्त्युदये सा निरङ्कुशवत्स्थितिः | स्वालोककलनात्मत्वं ध्येयैक्यं नित्यतृप्तता || २-४४|| || २-१० || द्वितीयमेतत् सहजविद्योदयनिरूपकम् | शिवसूत्रप्रकरणं समाप्तमिह सांप्रतम् || २-४५ || प्रवक्तव्यमतश्चात्र विभूतिस्पन्दलक्षणम् || ज्ञानयोगबलप्राप्तौ चिन्तामणिरिवापरः || २-४६ || इति काश्मीरिकश्रीभत्टदिवाकरात्मज-भट्टभास्कराचार्यविरचिते शिवसूत्रवार्तिके सहजविद्योदयाख्यो द्वितीयः प्रकाशः || २ || अथ विभूतिस्पन्दाख्यः तृतीयः प्रकाशः --------------- Pअगे ४१ ------------------- स्वरूपप्रत्यभिज्ञानान्मान्त्राच्च सहजोदयात् | विभूतयः प्रवर्तन्ते कीर्त्यन्ते ताश्च सांप्रतम् || पूर्वापरविमर्शेन यो बोधोऽस्य (ऽयो बोधोऽस्यऽ इत्यत आरभ्य ऽसमाचष्ट तदर्थकम्ऽ इत्यन्तं पादोनपद्यद्वयमितरेष्वादर्श- मूलपुस्तकेष्वविद्यमानम्; ग. पुस्तकात्सगृह्य प्रत्युपन्यस्तम् |) विजृम्भते | तद्विकासादविच्छिन्नपरानन्दः स्वयं भवेत् || येनाखण्डितस्वातन्त्र्यशक्तिः स्वाभाविकी स्फुटा | विभूतिः प्रथते, खण्डं समाचष्ट तदर्थकम् || तत्र चित्तात्मनः पूर्वं प्रत्यवेक्षार्थमावदत् | आत्मा चित्तम् || ३-१ || --------------- Pअगे ४२ ------------------- मनःपर्यायमाख्यातं [मनसो बहिर्मुखतायां परामर्शनं संकल्पः, अन्तर्मुखतायां तु स्वात्ममननात्मको मन्त्रः | आन्तर्मुख्ये विक्षेपाभावात् संकुचितां चित्ततां परित्यज्य सहजं स्वं चिदात्मस्वभावत्त्व-मादीयते | तत्र नैविड्येन अभ्यासदशायामिन्द्रियवृत्त्यधीनता-विरहात् अव्यवहितज्ञानक्रियः तद्बलाक्रमणात् यथास्वेच्छं शिववत् क्षितिवार्यनलाद्यनपेक्षं संकल्पितं वस्तु बहिः सर्वजनदृश्यं स्रष्टुं शक्नोति | अयुक्तस्य संकल्पादयोऽनन्य-दृश्या अबहिःप्रकाश्याः, युक्तस्य तु मन्त्रादयोऽपि शैवासाधारणगुणित्वात् यत् किंचित् सुदुष्करमपि अर्थजातं प्रकाशयितं प्रभविष्णव इत्याशयः |] चित्तं सर्वत्र शासने | इन्द्रियत्वात्स संकल्पः स्यात्तु मन्त्रस्तदुच्यते || आत्मैव चित्तं विज्ञेयं वागादिरहितं यदा | तदा मन्त्रः स विज्ञेयः संकल्पानुविधायकः || नैव संकल्पसिद्धिः (क्, ख्: तेन संकल्पसिद्धि) स्यात्तत्स्वरूपनिभालनात् || ३-१ || कुतश्चित्तस्य संकल्प सिद्धिर्नास्ति तदाह च || ज्ञानं वन्धः || ३-२ || --------------- Pअगे ४३ ------------------- ज्ञानं [रागादिना विषयेषु व्यासङ्गात् अविगलितरजस्तमोमलं विक्षिप्तं चेतः प्राच्यवास्तवस्वरूपाक्रमणत्मस्वबलालाभे प्रकाशवरणक्षित्यभावात् जनसाधारणान् संकल्पान् निर्मातुं न प्रभव्ति, अतो विषयासक्तिरेव यथेच्छनिर्माणप्रतिबन्धमूलमित्यर्थः |] विषयसंश्लेषाद्रागादिज्ञप्तिलक्षणम् | तदेव बन्धश्चित्तस्य स्वरूपावरणात्मकम् || अन्तर्बहिश्च (अन्तर्बहिरित्यादि पद्यार्धम् इतरमूलादर्शपुस्तके- ष्वविद्यमानं ऽगऽ पुस्तकाधारेणोपन्यस्तम् |) विषयानासक्त्याभ्यासपाटवात् | यदा मन्तव्यता (क्: तदा मन्तव्य) तस्य तद्द्रष्टा मुक्त एव हि || ३-२ || इत्थं नित्यस्य च द्रष्टुः किमावरणमुच्यते || कलादीनां तत्त्वानामविवेको माया || ३-३ || कलादिक्षितिपर्यन्तस्तत्त्वग्रामोऽस्य सोच्यते | ततमेतैर्जगत्सर्वमतस्तत्त्वानि तत्र च || कला कतृत्वसामर्थ्यं किंचिन्मात्रं प्रकीर्तितम् | --------------- Pअगे ४४ ------------------- तादृशं ज्ञानसामर्थ्यं विद्यातत्त्वमिति स्मृतम् || इदमेवेष्टमस्तीत्थं रागः पाशोऽस्ति बन्धनम् | इदानींतनभावेऽस्मिन् कालोऽप्याकलनं मतम् (कालोऽप्याकलनं मतम् इत्यतोऽनन्तरम् ऽअल्पेषु भावजातेषु विद्या ज्ञानसमर्थता | कालोऽधुनादिताबुद्धिप्रवृत्तिः कलनात्मिका ||ऽ इति पद्य ख. पुस्तके समुपलक्ष्यमाण पक्षिप्तमधिकं प्रतिभाति |) || नियतत्वं कर्मफले नियत्यात्मकतात्मनः | समदुःखसुखज्ञत्वमन्तस्तत्त्वे प्रधानता || सुखदुःखविमोहित्वं गुणाः स्युर्मन्तृता (क्: स्युः स्मर्तृता) च धीः | संरम्भत्वमहंकारो मनश्चाक्षप्रयोक्तृता || अक्षैर्विशेषितं ज्ञत्वं बुद्धीन्द्रियगणः स्मृतः | तैरेव भिन्नं कर्तृत्वं कर्मेन्द्रियगणस्त्वयम् || शव्दमात्रावभासित्वं तन्मात्रकगणस्तथा | भिन्नशव्दादितोद्वृत्तं (क्: शव्दादिनोद्वृत्तम्) गणः स्यात्पाञ्चभौतिकः || --------------- Pअगे ४५ ------------------- एतेषामविवेको यः सा माया [माययैव कलादिभिः तत्त्वजालै रचितकञ्चुक-पुर्यष्टक-भौतिक-शरीरेषु परिमितप्रमातृभावाभिमानं ग्राहितानामणूनां सदोदितस्वप्रकाशद्रष्ट्टस्वरूपं समाव्रियते | विवेकाभ्यासालम्बिनां तु मायापदो परिगतानां शुद्धविद्यासंश्रयित्वात् अनावृतस्वात्मप्रत्यवभासः | तदनु बन्धनिवृत्त्या प्रागुक्तमन्त्राद्यधिकारः |] मोहनी यतः | विवेकः पुनरत्रैव शुद्धविद्यादिसंश्रितः || अतः शुद्धानि तत्त्वानि प्रोच्यन्ते तत्त्ववेदिभिः (क्: प्रोच्यन्तेऽतो विवेकत इति; ख्: प्रोच्यन्ते साञ्जनादणु) | स्वज्योतिष्ट्वं शिवं तत्त्वं दृक्क्रिये शक्तिरुच्यते || सर्वाज्ञानक्रियावत्त्वयोग्यता (क्: क्रियावर्ते योग्यता) स्यात्सदाशिवः | प्रेर्यत्वमैश्वरं तत्त्वं तद्द्वारा प्रेषणा (ख्: तद्वारप्रेरणम्) यतः || शिवशास्त्रादिवोद्धृत्वं विद्या शुद्धेह कीर्तिता | इत्थमात्मन्यवस्ताभिरेताभिस्तत्त्वकल्पना || तत्त्वानां तदवस्थात्वमुच्यमानं न दुष्यति | --------------- Pअगे ४६ ------------------- सर्वानुस्यूतरूपत्त्वाद्विमर्शः परमस्त्वतः || ३-३ || इत्थं तत्त्वात्मककलारूपं प्रसरमात्मनः | निरूप्य पुनरप्याह तत्संकोचाद्यथोदयः || श्रीरे संहारः कलानाम् || ३-४ || तत्त्वानां यत्स्वसामर्थ्यं कलास्ताः परिकीर्तिताः | तत्संघातः [तत्त्वसंघातात्मके शरीरे तत्त्वावयवानां प्रातिलोम्येन स्वस्वकारणनुप्रवेशलयभावनया तदावसानिके सर्वाधिष्ठानचिन्मये स्वात्मनि समापत्त्या परबोधदेहोदयः | यद्वा हठात्सर्ववृत्त्युपसंहारात्मना उल्लङ्घनवृत्त्या विकल्पहानैकाग्रयवृत्तिसंपत्तिपुरस्सरम् अविकल्पसंविदात्मै- श्वर्यपदावाप्तिः | इत्थं प्रमातृत्वेन अभिमतस्य कलाप्रसरस्य स्वरूपावरणानैश्वर्यनिदानस्य उपसंहरणेन सिद्ध्यङ्कुरः पल्लवितः प्रस्फुरेदित्यर्थः |] शरीरं स्यात्सकलत्वमतोऽस्य तत् || आधार आत्मनस्तत्र कलानां करणात्मनि | स्वके स्वकेऽनुप्रवेशः संहारः परिकीर्तितः || एवं यावद्वोधदेहप्राप्तिस्तत्रोदयः परः | --------------- Pअगे ४७ ------------------- अथोल्लङ्घनवृत्त्या वा शिवतत्त्वावलम्बनम् || तत्स संहार एव स्यात्कलानां तेन चोदयः || ३-४ || तत्त्वप्रसरसंकोचस्वरूपेऽपीत्थमात्मनि || वृत्त्युल्लङ्घनयोगेन स्वस्वरूपोदयं शिवः | प्रतिपाद्य पुनः प्राह भूतसिद्ध्युदयः कथम् || नाडीसंहार-भूतजय-भूतकैवल्य-भूत- पृथक्त्वानि || ३-५ || चिदाधारे [अन्तर्बहिर्वा द्वादशान्ते प्राणापानोपसंहारात् इडादिनाड्युप-शमनेन सिद्धीच्छोः तन्त्रोक्तप्रक्रियोपवर्णितकन्दाद्यधिष्ठाने त्रयस्रवर्तुलादिसंस्थानां स्वस्वबीजाक्षरचिह्नितां पृथिव्यादिधारणां धारयतो नियतकालांशाभ्यासेन भूतानि वशीभवन्ति, येन पाञ्चभौतिकेषु गमागमविहरणादि अस्य न प्रतिहन्यते | तथा आचरतोऽपि अस्य तदैश्वर्यानासक्त्या भूतानुपरक्तस्वच्छचिदानन्दघनस्वात्मसंस्थितिसिद्धिरपि अप्रयाससिद्धा भवति | तथा तत्त्वसंघटितं वस्तु तदिच्छया वियुज्यते संयुज्यते च | एवं स्वात्मविवर्तनात्मभावजातानां विविधामवस्थां विकृतां च अन्यथा च कर्तुमसौ प्रभुशक्तिप्रतिहतस्वातन्त्र्या इत्यर्थः |] शरीरेऽस्मिन्संस्थिते पाञ्चभौतिके | स्वातन्त्र्यादात्मनः स्वाम्यं गृहे गृहपतेर्यथा | --------------- Pअगे ४८ ------------------- तत्र चिदाकाशलयान्नाडीसंहार इष्यते | यतः सर्वत्र सर्वासां नाडीनां मुखमुच्यते || नाड्याधारा वायवः स्युस्तदाधारश्च चिद्विभुः | तस्य वृत्तिलयान्मध्ये षड्गुणा वृत्तिरुत्तमा || स्थिरद्रवोष्णचलता सौषिर्यविपरीतता | तत्त्वस्वरूपमथवा स्थानलक्ष्यप्रभेदतः || विभावयन्भूतजयः स्यात्प्रबुद्धस्य च प्रभोः | तन्निरासत एवास्य कैवल्यमनुपाधिकम् || षट्त्रिंशत्तत्त्वसामर्थ्ययुक्तं भूतं पृथक् पृथक् | करोत्यात्मबलस्पर्शात्स्वविवर्तविवर्तनात् || संघातस्थमथात्मस्थं विकरोत्यथवा विभुः | प्रभुशक्तिरतः सेयं सर्वत्राखण्डितात्मनः || ३-५ || तथाप्यस्यात्मनो मोहे वहुशाखे विसर्पति | स्वरूपसिद्धिरस्य स्यान्न स्याद्वा प्राह शंकरः | मोहावरणात्सिद्धिः [पारमार्थिकविचारात् अधरभूमिस्थं सिद्ध्याद्याविर्भवनं भेदप्रथास्पदं मायाकोटिपतितमेव, तद्धि योगिजनस्य स्वरूपाच्छादकम् अतः तदुपलब्धये तदवस्थायां प्रहर्षकामादिवृत्त्युद्गमस्य स्वरूपतिरोधायितायां सत्यां तेषां प्राच्यकोटौ चरमकोटौ वा चेतःसमाधानेन सर्वज्ञत्वादिलक्षणा परसिद्धिर्भवेदित्यर्थः |] || ३-६ || --------------- Pअगे ४९ ------------------- कामक्रोधलोभहर्षभयत्रासमदोद्गमे | प्रहर्षेऽपि च सर्वत्र मोह एव विजृम्भते || तदेवावरणं ज्ञेयं स्वरूपाच्छादकत्वतः (क्: स्वरूपाच्छादकं ह्यत) | हेतुभूतात्ततस्तस्मात्प्राक्कोटिप्रविमर्शतः || सिद्धिः स्यादात्मनः सर्वज्ञत्वकर्तृत्वलक्षणा || ३-६ || सति मोहे सिद्धिरेवं तज्जयात्स्यात्किमाह तत् | मोहजयादनन्ताभोगात्सहजविद्याजयः [अपरिच्छिन्नपरिपूर्णात् बहुशाखभेदप्रशमनाख्यमोहजयात् सुप्रबुद्धस्य पूर्णाहंविमर्शसंविदाख्याकृत्रिमविद्योदयो भवति | यद्वा मोहजयात् हेतोः अनन्तभट्टारकाख्यरुद्रप्रमात्रधिष्ठितं शुद्धविद्यापदमध्यास्य सहजालोकसंपत्प्राप्तिः, शुद्धविद्यापदे हि अनन्तनाम्ना रुद्रप्रमात्रा समन्ततः साम्राज्यं भुज्यते इति अत्र ल्यब्लोपे अपादानकारकम् इति |] || ३-७ || --------------- Pअगे ५० ------------------- बहुशाखो मोह उक्तस्तज्जयः सुप्रबुद्धता | नित्यं स्वालोकवशतस्त्वसंकुचितचिद्गतेः || तस्मादनन्ताभोगाख्यात्स्वप्रकाशोदयः स्फुटम् | जयस्यानन्तता यस्माद्वहुशाखो विजृम्भते || स एवाभोग इत्युक्तः परिपूर्णस्वरूपतः | स्वप्रकाशात्मिका विद्या सहजा प्रागुदीरिता || उद्भवः प्रोद्गमस्तस्यास्तेनात्मालोक (क्: उदयः प्रोद्गमात्तस्य) उत्तमः || ३-७ || एवंसिद्धिः प्रबुद्धः संस्तिष्ठेन्नित्यमतन्द्रितः | एकत्रारोपयन्सर्वं तदर्थं प्रोक्तवानजः || जाग्रद्द्वितीयकरः || ३-८ || ज्ञानं जाग्रदिति प्रोक्तं तेनालोच्य स्वगोचरम् | आदद्यादेकतः सर्वं ततो मोहबहिष्कृतम् || प्रबुद्धः सर्वदा तिष्ठेद्योगिराड् भेदवर्जितः | करवत्कर एवातो जाग्रदादानगौरवात् || --------------- Pअगे ५१ ------------------- अत एव द्वितीयत्वं विचित्रत्वादुदीरितम् [ज्ञानं जाग्रत् इति प्रागुक्तसूत्रनीत्या जाग्रदत्र ज्ञानशक्तिः | पूर्वं तु अनुवाद्यविधेयभावेन इदं व्याख्याय अधुना विधेयानुवाद्यत्वेन व्याख्यायते सूत्राणां विश्वतोमुखत्वात् | आदानक्रियासादृक्ष्येण ज्ञानशक्तिरूपे करे रूपालोकमनस्- कारैः भासितं विश्वं यत्किंचित् परप्रकाशात् भेदाभेदविकल्पोपहतन्यायेन अभिन्नं पर्यालोच्य समादीयते इत्येवं प्रबुद्धः एकस्मिन् संवेदने बहिरन्तः स्वात्ममयं विश्वं विश्रान्तं संजानानो मोक्षलक्ष्मीभाजनं जीवन्मुक्तिव्यवहृतिमाचरन् स्वात्मन्येव विहरेदित्यर्थः |] || ३-८ || इत्थं नित्यप्रबुद्धस्य मोहलक्ष्मीश्चिरोषिता | शरीरमाश्रयत्येव जीवन्मुक्तस्य सर्वदा || अतः परानन्दरसक्षीव आत्मा सदा कथम् | चेष्टते सूत्रमाचष्टे तदर्थं चन्द्रशेखरः || नर्तक आत्मा || ३-९ || रसभावनयाभिज्ञो (क्: रसभावनवाभिज्ञ; ख्: भावनया वेद्य) वागङ्गाहार्यसत्त्वयुक् | यद्वत्प्रौढनटः सम्यगनुगन्ता प्रकीर्तितः || --------------- Pअगे ५२ ------------------- तद्वदात्मा स्वरूपेण स्फुरन्स्फुरति सर्वतः | तत्तद्भावरसावेशात् तत्तच्चेष्टाविलासवान् | स नर्तकः स्मृतो यस्मात् सर्वावस्थावलम्बकः [इत्थं विहृतौ अयं परानन्दरसेन घूर्णन् प्रौढनट इव रसभावतदा- भासाद्यभिज्ञः मितमातृतात्मपात्रतामुपगत्य अनुकार्यरसभावादीन् आङ्गिकाभिनयादिभिः स्वात्मानमवि- स्मृत्यैव व्यञ्जयन् सर्वावस्थानुकारी विभावादिभिः आस्वादिपदवीमुपनीतः इष्टानिष्टप्राप्तिपरिहारेच्छामन्तरेण इन्द्रियपरिस्पन्दानुपूर्व्या जगन्नाट्यमभिनयन् सर्वत्र स्वात्मभानेन अविलुप्तदृक्शक्तिसंतोषितमना विलसतीत्यर्थः |] || ३-९ || नृत्यतोऽस्यात्मनः सम्यगाधारार्थमतोऽवदत् || रङ्गोऽन्तरात्मा || ३-१० || बहिरुन्मेषभाग्योऽयमात्मा (क्: बहिरुन्मेषभोग्यस्तु आत्मा) नर्तक उच्यते | तस्यैवान्तर्निमेषो यः सोऽन्तरात्मा प्रकीर्तितः || स एव रङ्ग आख्यातः पुर्यष्टकसमाश्रयात् [विविधविततनाट्यक्रीडाप्रदर्शनाशयेन यत्र रज्यते स रङ्गः तत्तद्विचित्रभूमिकाग्रहणस्थानं पुर्यष्टकरूपान्तरात्मा | तदाश्रयणेनैव नरतिर्यगादिदेहभूमिकासु रचितास्पदः करणप्रवृत्त्या सृष्टयादिपञ्चकृत्यकृत् चिदात्मा परिनृत्यति |] | --------------- Pअगे ५३ ------------------- प्रवृत्तिस्थितिसंहारैर्नृत्यतीवात्र चिद्विभुः | एवं सतीन्द्रियगणस्तस्यानाच्छादको भवेत् || तदर्थं पुनराप्याह सूत्रं कान्तार्धदेहभृत् | प्रेक्षकाणीन्द्रियाणि || ३-११ || सुप्रबुद्धः स्वतन्त्रश्च चिदात्मैव यतः परः | तत्सामर्थ्याद् इन्द्रियाणि चेष्टन्ते स्वासु वृत्तिषु (क्: चेष्टन्ते स्वस्ववृत्तिषु) || प्रेषकाणीव तान्यत्र चिद्विभोः परिनृत्यतः | स्वरूपावरणे चास्य तानि न प्रभवन्ति हि [स्वतन्त्रश्चिदात्मैव करणद्यवभासयिता, तद्भासैव सर्वस्य प्रकाशमानत्वात् तमेव भान्तमनुपजीव्य विश्वमिदं सर्वं जडान्धमूकप्रायं भवेदिति, अतः तदनुप्राणितानि करणानि त्रैलोक्यनाटकप्रकटनाह्लादातिशयनिर्भरं गलिताहमिदन्तात्मविभागं स्वरूपं साक्षात्कृत्य सहृदयप्रेक्षकजनवत् प्रत्यगात्मदृशे योगिने परामृतमयरसचमत्करणमर्पयन्ति, येन नास्य पशुजनस्येव खेचर्यादिभिः आच्छाद्यमानाभेदप्रथामृतरसं करणचक्रं दुःखमयविश्वसरणौ परिवर्त्यते | अतः परिनृत्यतः चिदात्मनः स्वरूपं न तिरोधीयते इत्यर्थः |] || ३-११ || --------------- Pअगे ५४ ------------------- तदेवं सति यद्बुद्धिवशात्सर्वोत्कटः पुमान् | प्रभवत्येव भगवांस्तदर्थं सूत्रमुक्तवान् || धीवशात्सत्त्वसिद्धिः (क्: सत्त्वशुद्धिः; ख्: सत्त्वभित्ति) || ३-१२ || शब्दादिविषया [सततप्रसरत्स्वभावेषु करणेषु सत्सु वृत्तिप्रतिफलितान् शव्दादीन् विषयान् आगमोक्तयुक्त्यादिभिः चिन्मयस्वभावाव्यतिरिक्तान् अध्यवस्यन्ती बुद्धिः अनुशयान्तरप्रक्षयात् रजस्तमोवृत्त्यमलिनता स्वज्योतिर्मयं विश्वत्र परप्रकाशं समवेक्षमाणा स्फुरत्तात्मसत्त्व- प्रकाशास्पदं योगिनं निष्पादयति इत्यर्थः |] वृत्तिश्चिद्रूपाभिनिवेशिनी | यदा भवेत्तदा बुद्धिस्तत्रैवाध्यवसायिनी || पूर्वं भवत्यतः शुद्धा सैव धीशक्तिरुच्यते | त्यक्ताशयत्वात्सत्त्वस्य भित्तिः सोऽवधिरुच्यते || तद्वशात्सत्त्वसिद्धिः (क्: सत्त्वभित्तिः, सत्त्वशुद्धि) स्यादत एव निरूपितम् || ३-१२ || --------------- Pअगे ५५ ------------------- इत्थं सति स्वतन्त्रत्वमात्मनः स्यादतोऽवदत् | सिद्धः स्वतन्त्रभावः || ३-१३ || स्वातन्त्र्यमस्य संसिद्धमात्मनः प्रोक्तरीतितः (क्: प्रोक्तनीतित) [येन शिवादिधरण्यन्तमशेषं विश्वं भ्रियते दृश्यते भास्यते स्ववशे स्थाप्यते च सोऽस्य स्वतन्त्रभावं सहजज्ञत्वकर्तृत्वात्- मकः सर्ववशीकरणशीलः | यथा रासायनिक्या ओषध्या संसिद्धया यत् किंचन वस्तु आविद्धं सत् हेमतामेति एवं शिवस्वरूपभावनया विश्वं भावितमस्य वशे तिष्ठतीत्यर्थः |] || ३-१३ || सर्वज्ञत्वक्रियावत्त्वाच्छरीरेऽस्मिन्यथा तथा || सर्वत्र स्यान्न वा तत्र प्राहात्र शशिभूषणः | यथा तत्र तथान्यत्र || ३-१४ || आत्मनाधिष्ठिते देहे यद्वत्सर्वज्ञतादयः | स्फुरन्ति तद्वत्सर्वत्र स्वाधिष्ठानबलेन च [अधिकारिणोऽस्य यथा अस्मिन् अधिकृतशरीरे स्वात्मशिवतां परामृशतः स्थितस्य सर्वज्ञत्वक्रियावत्त्वादयः, एवं स्वात्मबलाक्रमणशक्त्या सर्वत्र परकीयत्वाभिमतेषु देहेषु सर्वज्ञत्वादयोऽव्यवहिताः प्रस्फुरन्ति इति |] || ३-१४ || --------------- Pअगे ५६ ------------------- कर्तुरेवं स्वतन्त्रस्य विशतोऽन्यपुरादिषु || तद्धर्मोपहितस्यास्य स्यादकालपदस्थितिः (विशत इति तद्धर्मोपहितेति च पदद्वयं मूलादर्शपुस्तकान्तरेष्वविद्यमानं; ग्: पुस्तकाश्रयेण समुपन्यस्तम् |) | कथं ? तदर्थं कालारिः प्राह सूत्रं यथार्थवत् || विसर्गस्वाभाव्यादबहिःस्थितेस्तत्स्थितिः (ऽविसर्गस्वाभाव्यात्ऽ इति सूत्रं तु विमर्शिनीग्रन्थे न विद्यते, एतद्ग्रन्थे एव ग्रन्थकृता संगृह्य व्याख्यातमस्ति |) || ३-१४ || ३-२ || सृष्टिस्वभावाच्चिद्रूपात्प्रवृत्तिकलनात्मना | जातस्य कालवपुषः स्पन्दस्यैवात्र चित्पदे || जन्म न स्यात् संकलनात्तस्य संकल्पजस्य च || ३-६१ || बहिर्बाह्यपदार्थानां पृथक्संस्थित्यभावतः (बहिर्बाह्येत्यादित आरभ्य योगनिभालनात् इत्यन्तः सार्धपद्यात्मपाठः पुस्तकान्तरेष्वविद्यमानः; ग्: पुस्तकात्संगृह्य समुपन्यस्तोऽस्ति |) | प्रकाश्यानां प्रकाशैक्यभावनापथसेविनाम् | --------------- Pअगे ५७ ------------------- स्वस्माद्धाम्नः प्रच्यवनं नास्ति योगनिभालनात् | अकालकामजा सैव स्यादकालपदाश्रयात् [विसिसृक्षाशीलो हि परमेश्वरः सृज्यवस्तुविषयं स्वस्मिन् आधारभूते समुन्मग्नं स्वाव्यतिरेकित्वेन आलोच्यमानं परिबिभ्रत् अपि नैव स्वात्मविस्मृतिं जुषते | यावता मायाभूमावपि वेद्यप्रकाशनं वस्तुतः परप्रकाशानान्तरीयकतया अन्तःस्थितं सत् स्वातन्त्र्यात् बहिः प्रकाशते | तस्मात् प्रतिपन्नतात्त्विकस्वरूपस्य धर्मिधर्मोपहितता न कदाचित् आक्राम्येदित्यर्थः |] || अकालपदसंप्राप्तौ यो हेतुस्तमतोऽवदत् (क्: प्राप्तौ हेतुमत्र तथावदत्) | बीजावधानम् || ३-१५ || बीजं सर्वस्य जगतश्चिदात्मैव परं स्मृतम् | अवधानं तद्विमर्शः सावधानेन चेतसा || तदाकालपदप्राप्तिर्मोहाद्याग्रहहानितः [एवं परिमिताहंभावनिरसनपुरःसरं विश्वकारणशाक्त-पदे निरन्तरतया दृढाभ्यासेन चित्तावधानमेव अकालकलितस्वरूपप्राप्त्युपाय इति भावः |] | --------------- Pअगे ५८ ------------------- सर्वभावोद्भवभुवः प्रवेशोऽन्तश्चिदात्मनः || कथं पुनर्योगिवृत्त्या स्यादत्र प्राह शंकरः | ??????? व्याख्या कहा का है नहीपता आसनस्थः सुखं ह्रदे निमज्जति ??? [विज्ञानवतां योगिनां चिदात्मान्तःप्रवेशोपायात्मयोगोचित- प्रयत्नाधिगम्यवृत्त्या द्रढिम्ना परिशीलनं विदधतां सत्यामपि उभयवाहोच्छेदात्मकुम्भकवृत्तौ रवीन्दुसंघ्ट्ट- जन्योदानाग्निपर्यायस्य शुचेरूर्ध्वोत्क्षेपणात्मना रेचकवाहेन अधराधराधारादिपदानिक्रमश उल्लङ्घ्य यावता द्वादशान्तपदे विश्रान्तिर्जन्यते, अत एवोदानस्य द्वैतेन्धनप्लोषकारित्वात् चण्डत्वम्, परमशुद्धिकारणत्वाच्च पवमानत्वम् तदाश्रित्यैव द्वादशान्तस्थशिवचैतन्यामृताब्-धौ प्रोच्छलद्विश्ववैचित्र्यतरङ्गे निरायस्तावगाहमानता, यन्निरन्तरसंभोगरसपरिचर्वणोद्युक्तानाम् अकालकलितानुत्तरशाक्तपदसंप्राप्तिः उक्तोपायसेवनतो बहिरन्तः कलनाविकलम् अखण्डस्वातन्त्र्यमयी कल्पते इति |] || ३-१६ || पवमानः शुचिश्चण्डो मध्यमः प्राण आसनम् | योगिनां ज्ञानपूर्वाणां सन्मत्स्यवलनात्मना || पूर्वमुक्तं च तत्रस्थः सुखं मज्जति तद्ध्रदे | ह्रदत्वमत्र प्रागुक्तं सर्वभावोद्भवत्वतः || चिद्रूपस्य च बीजत्वमत एव निरूपितम् | अवधानानुप्रवेशावत्रोपायावुदाहृतौ || कालकामजयायैवमजामरपदाप्तये || ३-१६ || --------------- Pअगे ५९ ------------------- एवं कर्त्रंशविश्रामस्तत्स्वातन्त्र्यमखण्डितम् || तेन कर्तृत्वमस्य स्यात्तदाह वृषलाञ्छनः | स्वमात्रा निर्माणमापादयति || ३-१७ || स्वा शक्तिः परमेशस्य ज्ञत्वकर्तृत्वलक्षणा | यावद्वीर्यं बलं तस्य भवप्रभवकारणम् || अतश्च सा जगन्माता तस्य शक्तिमतः परा | तया स्वमात्रा निर्माणं यथास्वं रोचते विभोः (क्: यथास्वं रचति विभुः) || तथा संपादयत्याशु तत्स्वातन्त्र्यबलादलम् [प्रागुक्तयोः अवधानप्रवेशात्मनोरुपाययोः अनुशीलनमहात्म्-यात् यथाभिमतं वेद्यवेदकावभासनात्मकं वस्तु अपूर्वोल्लेखावभासनशीलिन्या कर्तृत्वादिसतत्त्वया स्वशक्त्या तत्पदविश्रान्तो निर्मातुं प्रभवति, तन्निर्माणमेव अस्य स्वातन्त्र्यधामविश्रान्तिसूचकमिति |] || ३-१७ || एवमस्य च यद्रूपं तदा बुद्ध्या मलावृतम् || तद्विनाशात्पुनर्जन्म न भवेत्तत्र चावदत् | विद्याविनाशे जन्मविनाशः || ३-१८ || --------------- Pअगे ६० ------------------- सोपाधिका वेदनीया (क्: सोपाधिका बोधनीया) पदार्थविषयैव या | अशुद्धा सा स्मृता विद्या पुनः संभवकारणम् || स्यात् तद्विनाशः सहजविद्योदयनिभालनम् | सति तेन स्वतन्त्रत्वव्यक्तिः स्यादात्मनः परा || अत एव पुनर्जन्म न भवेत्स्वबलाश्रयात् | जीवन्मुक्तिरियं सिद्धिरकालपददायिनी [वृत्तिज्ञानं वेद्यफलप्राप्तिसाधनं वस्त्वाकारखचिततया अशुद्धविद्या- इत्युच्यते सैव बन्धयित्रो, तद्विपरीतशुद्धविद्यानुसंधानेन सहजसंवित्समासादनात् स्ववीर्यलाभे सति आणवमायीयमलद्वयसहकृतं देहेन्द्रियादिसमुदायात्मकं कार्मबन्धनं परिलुप्यते इत्यर्थः |] || ३-१८ || वेदनीयपरा येयं बाह्यार्थोपाधिरञ्जनात् | विद्या तत्प्रेरणे हेतुः क इत्यत्रोक्तवानजः || कवर्गादिषु माहेश्वर्याद्याः पशुमातरः || ३-१९ || सर्वात्मकस्वरूपस्य शब्दराशेः कलामयम् | यद्रूपं पूर्वमादिष्टं पशोः शब्दानुवेधतः || --------------- Pअगे ६१ ------------------- प्रत्ययोत्पादकं सम्यक् तद्द्विरूपं प्रकीर्तितम् | बीजयोनिप्रभेदेन तत्र बीजं शिवः स्वयम् || शक्तिर्मायाभिधा योनिः कादिक्षान्ताष्टवर्गिणी | माहेश्याद्यष्टकं तत्र परापरफलप्रदम् || अधिष्ठाय पशूनां च बाह्यार्थावगमे स्थितम् | मिश्रकर्मफलासक्तिजनकं घोरलक्षणम् || विषयासक्तचित्तानामधोऽधः पातकारकम् | घोरघोरतरं तत्स्यादघोरं शिवदायकम् || एवं मात्राष्टकं (क्: एवं मात्रष्टकम्) चैतत्प्रतिवर्गं त्रिभेदवत् | पूर्ववर्गे भैरवता संस्थितैवानपायिनी [परा वाक्शक्तिः शिवाभिन्नस्वरूपा इच्छादित्रिकमुद्भाव्य वर्गवर्ग्यादिरूपां मातृकां समुन्मीलयन्ती पशुप्रमातृषु सविकल्पकसंवेदनदशायाम् अन्तःस्थूलसूक्ष्मशब्दपरामर्- शनं कुर्वती वर्गाद्यधिष्ठात्रीभिः माहेश्वर्यादिभिः रागद्वेषकामलोभादीन् आतन्वाना तेषां देहादितादात्म्यमेव निष्पादयति इत्यतः करणद्वारैः प्रसरन्त्यां वृत्तौ घोरादिसंज्ञिका माहेश्वर्याद्याः मातरः पशून् स्वात्मविमुखान् विषयासक्त्या अधः पातयन्ति, पतिभ्यस्तु स्वात्मविकासरसं तथा तथा चमत्करणपूर्वं समर्पयन्त्यो नैव भेदप्रथनमुत्पादयन्ति इत्यर्थः |] || ३-१९ || --------------- Pअगे ६२ ------------------- तदेवं शब्दराशिश्च त्रिस्वरूपोऽष्टवर्गजः || उच्चारस्यादिमध्यान्तभेदा वर्णव्रजेऽपि च | तत्राभेदेन शिवता यथा स्यात्प्राह तत्तथा || त्रिषु चतुर्थं तैलवदासेच्यम् || ३-२० || उक्तेषु मातृभेदेषु त्रिषु वर्णात्मकेषु च | योऽवशिष्यत एवात्र चतुर्थः स शिवः परः || सोऽनुसंधेय आसेच्यस्त्रिषु (क्: सोऽनुसंबन्ध आसेव्य-) तैलवदम्भसि | तदनुस्यूतरूपत्वात्स्यात्सिद्धिरनपायिनी [प्राक्सूत्रे निर्णीताभिः घोराघोरादिसंज्ञकपशुमातृभिः अधिष्ठितानां स्थूलसूक्ष्मवर्णात्मकविकल्पानामाद्यन्त-कोटौ अधिष्ठानात्मना प्रतीयमानेन चिद्रसेन परिषेचनं विधेयम् | अर्थात् चिद्रसाश्यानभावेन तदवस्थितिः पुनः भेदप्रथां विगाल्य तैलवत् अधिकाधिकप्रसरदाश्रयव्याप्त्या चिद्रसमयी अनुसंधेया येन तेषां स्वव्यापृतिर्बन्धनात्मिका अपेयादित्यर्थः |] || ३-२० || अत्र वर्णानुप्रवेशे क उपायस्ततोऽवदत् (क्: क उपाय इतोऽवदत्) | --------------- Pअगे ६३ ------------------- मग्नः स्वचित्ते प्रविशेत् (क्: मग्नः स्वचित्तेऽनुप्रविशेत्) ??????[बहिरिदन्तौन्मुख्यं जिगमिषोः चिन्नाथस्य उद्युक्तप्रसरद्दृक्क्रियाशक्तिमत्त्वात् येयम् अर्थाच्छुरिता वृत्तिरस्ति, तस्याः प्रत्याहरणात् योगी अङ्गारवह्निन्यायेन अविकल्पसंवित्त्या वर्णानुप्रवेशं कुर्यात् | वर्णानुप्रवेशे संसिद्धया भैरवमुद्रया मन्त्राद्यनुप्राणनमपि सिद्ध्येदिति |] || ३-२१ || बाह्यार्थाकारता येयं प्रवृत्तिं भजतो विभोः | पूर्ववृत्त्युदयेनालं तत्प्रत्याहॄतियोगतः || स्वात्मन्येव निमग्नः स्यात्प्रवृत्त्युपरमे सति | एवं निमेषवशतः शिवो भूत्वा स्वचेतसा || अङ्गारकल्पवर्णानां वह्निनवच्चान्तरं विशेत् | पुनर्भैरववृत्त्यैव मन्त्रानुप्राणनं परम् || न केवलं यावदयं विधिः परपुरादिषु | इत्थं सति च मन्त्राणां शिवभैरवता स्फुटम् || स्फुरत्येवान्यथा कस्माद्वर्णात्मा मन्त्र ईश्वरः || ३-२१ || तदेवं वर्णमात्रस्य पूर्वापरनिरासतः | --------------- Pअगे ६४ ------------------- स्थितत्वात्किं भवत्याह तदर्थं सूत्रमीश्वरः || मध्येऽवरप्रसवः (क्: -प्रसर) || ३-२२ || वर्णस्योच्चार्यमाणस्य पूर्वमध्यान्तलक्षणम् | भागत्रयं यत्तत्रादिपर्यन्ते शिवरूपता || संस्थितैवोद्बुभूषाख्यविश्रमाख्यस्वरूपतः | मध्ये च प्रसवो भ्रंशः (ख्: मध्ये च प्रसरो भ्रंश इत्येवं एव पाठो व्याख्यातोऽप्यस्ति |) स्यात्पशोर्वर्णमात्रके || पत्युः शाक्तं स्फुरद्रूपमेतदेवोपदिश्यते [उच्चिचारयिषायां तद्विरतौ च आद्यन्तकोटिलक्षणायां मध्यमादिवाग्विषयाणां स्थूलसूक्ष्मसंनिवेशवतां वर्णानां पश्यन्त्यादाव- विभक्तपदे निलयनात् अप्रयाससंसिद्धा शिवरूपता अस्ति | मध्यकोटौ तु तेषां तत्तद्विचित्राकारसंनिवेशस्फुरणात् अविकल्पसंविदः सकाशात् परिभ्रं-शित्वमित्यर्थः |] || ३-२२ || इत्थं सति त्रिस्वरूपे यथा साम्यं भवत्यलम् || तथा प्रदर्शयन्नाह पार्वतीदयितः पुनः || --------------- Pअगे ६५ ------------------- प्राणसमाचारे समदर्शनम् || ३-२३ || सर्वज्ञानक्रियारूपं यत्स्वसामर्थ्यमुत्तमम् | स प्राणः परनादाख्यः सर्वानुप्राणनक्षमः || तत्समाचार आवेशो वर्णशब्दाणुषु स्फुरन् (क्: शव्दवर्णाणुषु स्फुटम्) | तेनाभेदश्चानुभवः समदर्शनमुच्यते || एवं तद्वलमाक्रम्य सर्वज्ञानबलान्विताः | वर्णमन्त्रादिकाः सर्वे भवन्तीति किमद्भुतम् [सर्वप्रकाशानं जीवितभूते परनादाख्ये स्वतन्त्रप्रकाशे समापत्त्या वैखरीपर्यन्तं प्रसृतानां पदमन्त्रादीनाम- भेदानुभवनाभ्यासधाराधिरूढेः परवीर्यलाभः इर्त्यर्थः |] || ३-२३ || वर्णानुप्राणनं शंभुर्निरूप्याह प्रसङ्गतः | यथा भावशरीरादेः स्यादनुप्राणनं तथा || मात्रास्वप्रत्ययसंधाने नष्टस्य पुनरुत्थानम् || २४ || मायाद्यवनिपर्यन्ततत्त्वग्रामकलास्तु [मायातत्त्वादिपृथिवीपर्यन्ततत्त्वकला भूतशरीरोपादानभू-ताः स्वात्माभिन्नताप्रत्ययानुसंधानेन चिद्रसमयीः निष्पाद्य शब्दादिविषयास्पदं भावश्रीरमपि चिदानन्दघनरसमयमुदेति येन सर्वकर्तृत्वादिभूमिसमावेश-वीर्यं लब्ध्वा सर्वत्र परिपूर्णज्ञत्वकर्तृत्वादिरूपं परमैश्वर्यमध्यास्यते इत्यर्थः |] याः | --------------- Pअगे ६६ ------------------- ता मात्रा व्यक्तयो याश्च प्रतितत्त्वं स्वगोचरे || तासु स्वप्रत्ययं ज्ञानं प्रतिस्वं तेन पूरणम् || अनुसंधानमेतत्तत्कर्तुस्तद्भूम्युपाश्रयम् || सति तस्मिन्विनष्टस्य भावादेरुदयः पुनः | एवं कर्तृधरावेशबलतो (क्: कर्तृवरादेशबलत) यत्र यत्र च || मात्राप्रत्ययसंधानं कुर्यात्तत्कर्तृता भवेत् | सर्वज्ञसर्वकर्तृत्त्वबलावेशदृढस्थितिः || ३-२४ || य एवं नित्ययुक्तः स भवेत्कीदृक्तदाह च | शिवतुल्यो जायते || ३-२५ || सर्वस्मिन्कारणकुले शिवः शिरसि वर्तनात् | सदा निरुपधिज्योतीरूपत्वाच्चित्स्वरूपतः || तत्तुल्यो नित्ययुक्तत्वात्कुर्वन्नपि विचेष्टितम् | --------------- Pअगे ६७ ------------------- जीवन्मुक्तः साधकः स्यात्पूर्वोक्तज्ञानवीर्यतः [एवं नित्ययुक्तस्य शिवस्वरूपपरिशीलनातिशयासादिततत्पदत्वात् देहकलासद्भावेपि जीवन्मुक्तिसुखास्वादनेन शिवता उपमीयते | प्रारब्धोपनीयमानभोगातिक्रान्त्या विदेहमुक्तो तु तादात्म्यमेव प्राप्यते इति भावः |] | एवमभ्यस्यतश्चास्य (क्, ख्: एवमभ्यस्य तच्चास्य) कीदृशी नित्ययुक्तता | तदर्थं भगवान्सूत्रमाह व्रतनिरूपकम् || शरीरवृत्तिर्व्रतम् || ३-२६ || शरीरमेव कङ्कालं कपालं कङ्करस्थितम् | पृष्ठदण्डं दण्डमत्र करपादगलस्थिताः (क्: दण्डमात्रकरेति; ख्: दण्डपात्र |) || अस्थिखण्डाः पञ्च मुद्रा भस्म दीप्तिः परा स्मृता | गुणत्रयं चोपवीतं ध्वजिका स्यान्महापथम् || भूषणानीन्द्रियाण्यत्र विहृतिर्विषयेष्वलम् | हॄच्छ्मशाने सदासक्तिः कायवाक्चेतसा स्फुरन् (क्: चेतसा स्फुटम्; ख्: सदा शक्तिरित्येवंविधः |) || --------------- Pअगे ६८ ------------------- यो यश्चेष्टापरिस्पन्दो वीरेशस्योत्सवः सदा || महाव्रतमिदं ज्ञेयं निरर्गलनिजस्थितेः [प्राङ्निर्दिष्टनयेन अभ्यस्यतो महाव्रतं पाशुपताख्यं प्रसिद्ध्येत् यत्र कङ्काल- कपाल-दण्ड-पञ्चमुद्रा-भस्म-उपवीत-ध्वज-भूषण- निवास-विहृत्यादिसामग्रीजातमव्यक्त-द्रव्यमयमुपयुज्येत | व्यक्तलिङ्गितया तु धर्मध्वजी भूत्वा मलकालिकयोपसंलिप्यते |] | इत्थं व्रतधरस्यास्य जपः कीदृक्तदाह च || कथा जपः || ३-२७ || यद्यत्कर्तृधरारूढः प्रबुद्धः सन्प्रभाषते | तत्तज्जपः स्याद्व्रतिनः स जपात्पुरुषोत्तमः || वीर्यावलम्बनोच्चारसंचाराख्या कथा जपः | एवं चतुर्धा विज्ञेयः शाक्तो हंसश्च (क्: पुद्गल; ख्: हांस च पाठोऽस्ति |) पौद्गलः || [निष्कलोऽप्यथ] शाक्तोऽत्र येयं स्वा [हं] क्रिया चितेः (पौद्गल इत्यतोऽनन्तरं क. ख. पु. अविद्यमानः, (.....शाक्तोऽत्र येयं स्वा...क्रिया चितेः, इत्येतावानाद्य मध्यतो नष्टाक्षरोऽपि पद्यार्थपाठः ग. पुस्तकात्संपूरितोऽस्ति |) | --------------- Pअगे ६९ ------------------- निष्कलः प्रणवाङ्गस्थो हंसो नादकलात्मकः || जीवसंज्ञो मरुद्रूपः स्वप्रवृत्त्यायुतद्वयम् (क्: महद्रूपस्वप्रवृत्त्या-) | सहस्रं षट्शतान्येव वहत्यच्छिन्नसंततिः [एवं महाव्रतवतोऽस्य वीरेशस्य पराहंभावभावनापद- मधिरूढस्य परवीर्यानुप्राणिततया चतुर्विधानां निष्कलहंस - पौद्गल-शाक्तरूपाणां मन्त्राणां स्वात्मदेवतापरामर्शनसारार्थवत्त्वावर्तनात्मा जपोऽनवरतं प्रवर्तमानो नैव विच्छिद्येत |] || ३-२७ || य एवं ज्ञानवान्सिद्धो जपव्रतपरायणः | केन दानेन तेनेह भाव्यं तत्राह शंकरः || दानमात्मज्ञानम् || ३-२८ || आत्मस्वरूपप्रज्ञप्तिर्ज्ञानं तत्परमुत्तमम् | उक्तं च वक्ष्यमाणं च तस्य सम्यक् प्रकाशनम् || शक्तिपातप्रबुधानां यत्तद्दानमिहोत्तमम् | तद्दानात्क्षपणं सम्यक्पाशानां स्यात्पशोस्ततः (क्, ख्: पाश्यानां स्यात्पशुष्टुत) || --------------- Pअगे ७० ------------------- दीक्षाशब्द इह प्रोक्तो दानक्षपणलक्षणः [तीव्रशक्तिपातवतां प्रोक्तजपव्रतिनामुक्तवक्ष्यमाणप्रक्रियया वर्णितमात्मज्ञानमेव पशुषु प्रकाशनीयं तदेव दानं, यतः स्वरूपज्ञापनस्य आणवादिपाशानां च दानक्षपणलक्षणायां दीक्षायामधिकारित्वमनुग्राह्येषु प्रवर्ते इति |] || ३-२८ || एवं सृष्टिस्थितिध्वंसरक्षानुग्रहकृद्विभुः || आत्मैव शिवरूपत्वात्तत्स्वरूपनिरूपणे | सूत्रं व्यस्तं समस्तं च प्रोवाचेन्दुकलाधरः || योविपस्थो ज्ञाहेतुश्च (क्: योनिस्थो ज्ञानहेतुश्च) || ३-२९ || योनित्वेन च विश्वस्य पर एव स्थितः प्रभुः | ज्ञानक्रियात्मा हेयस्य तुच्छीकरणहेतुतः || अतो योगी विश्वरूपपदस्थो ज्ञानपूर्वकः | हेतुर्भोगस्य मोक्षस्य प्रकृष्टः प्रतिपादितः || य एवं योगिराट् सम्यक्कत्रंशाभिनिवेशतः | लब्धस्थितिः स विपस्थस्तज्ज्ञाने (क्: लब्धस्थितिः स विश्वस्थ) हेतुरुत्तमः || --------------- Pअगे ७१ ------------------- अत्र ये पशवस्तेषु पतिर्मातृगणः स्मृतः | तत्स्थ आत्मा प्रस्फुरति तेन चक्रेश्वरस्त्वसौ [विश्वकारणं परशिव एव ज्ञानक्रियात्मा हेयतुच्छीकरण-प्रयोजककर्ता तत्प्रसादादेव हि विश्वोल्लासधाम्नि संस्थितो योग्येव पूर्णज्ञातृत्वादिसद्भावेन भोगमोक्षभाजनम् | यद्वा कर्तृभूम्यधिरोहणात् लब्धस्थितिः योगीन्द्रः स्वज्ञानशक्त्या उपदेश्यान् प्रतिबोधयितुं शक्तः | अथ वा पशुप्रमात्रधिष्ठा-नेषु माहेश्वर्यादिमातृकागणेषु तच्चक्रेश्वर आत्मैव प्रस्फुरति | तमेव निजरश्मिरूपा मातृकाधिष्ठितचिद्वृत्तयो विषयसारांशाहरणेन सदा पूजयन्ति | तस्मात् तदाश्रिता इमा मातृकाः तद्व्यतिरिक्ततया स्वसत्तामलभमानाः स्वप्रकाशनाय तमुपजीवन्ति इत्यसौ शाक्तोल्लासमय एवेत्यर्थः |] || इत्थं चिद्भैरवस्यैता वृत्तयो रश्मयः स्मृताः | शब्दादिविषयैर्भोगैः पूजयन्त्यः सदा स्थिताः || एतन्मातृगणज्ञानमत्र हेतुः स्वचिद्विभुः || ३-२९ || एवं शक्तिमयस्यास्य विश्वाकारत्वमाह तत् (क्: विश्वाकारतयाह तम्) || स्वशक्तिप्रचयोऽस्य विश्वम् || ३-३० || --------------- Pअगे ७२ ------------------- एवं शक्तिमतश्चास्य शक्तयः स्वाश्चिदादयः (क्: स्वाश्चिदात्मनः; ख्: स्वाच्चिदात्मन) | तासां नवनवोल्लासस्पन्दा ये प्रचयाः स्मृताः (क्, ख्: प्रचयाश्च ये) || त एव विश्वं विज्ञेयं यतः शक्त्यात्मना विभुः | जगद्रूपः प्रस्फुरति स्फुरन्नेवात्मना सदा [यथा शिवस्य विश्वं निजानुत्तरशक्तिमयम् एवमस्य योगिनः शिवतुल्यत्वात् स्वसंविच्छक्तेः विचित्रनवनवोल्लासस्पन्दमयक्रिया- शक्तिस्फुरणात्म विकसितमस्ति | तत्तन्नीलसुखादि वेद्यजातं बहिरन्तश्च प्रथमानं प्रकाशविश्रान्तिमाश्रित्य स्वव्यवस्थापनं प्राप्नुवत् अन्यथा स्वसिद्ध्यनुपपत्तिं प्रथयेदिति स्वसंविदेव तथा तथा विश्ववैचित्र्येण सर्वत्र स्वयं स्वैरमनोरथवत् प्रस्फुरति | शक्तितद्वतोरभेदात् शिव एव तथा विभायदिति भावः |] || ३-३० || एवं सृष्टिकृदेवात्मा स्थितिकृल्लयकृद्यथा | तथा प्रदर्शयन्नाह सूत्रं त्रिपुरसूदनः || स्थितिलयौ || ३-३१ || तैरेव शक्तिप्रचयैर्वृत्त्युल्लासस्वरूपकैः | --------------- Pअगे ७३ ------------------- चिदात्मैव स्थितिलयौ प्रकरोति निजेच्छया [एवं स्वेच्छाशक्त्यैव चिदात्मा स्थितिप्रलयौ रचयति क्रियाशक्त्युन्मीलितस्य विश्वस्य | तत्र शक्तितत्त्वावधि तत्तत्पदाध्यक्षानाश्रितादिप्रमातॄन् अपेक्ष्य तत्तत्परार्धकालप्रमितायुष्कालं यावत् बहिर्मुखत्वेन स्वाधरस्थविश्वस्य अवभासनं नाम स्थितिः | यथास्वमुपरि- तनपदनिमेषवशात् स्वस्यापि विलयः, का कथा स्वस्मात् अधस्तनस्य विश्वस्य | एवं चित्प्रमातृविश्रान्त्यात्मको लयः | इत्थमेतावुभौ अवभासमानौ स्वशक्तिप्रचय एव | यतः तत्तद्वेद्यजातं निमील्यमानमुन्मील्यमानं च प्रकाशनान्यथानुपपत्तेः संविच्छक्त्यात्मकमेवेत्यर्थः |] || ३-३१ || एवं सृष्टिस्थितिध्वंसकालेऽप्यात्मा निजस्थितिः | यथा भवति तत्राह सूत्रं शास्त्रार्णवो हरः || तत्प्रवृत्तावप्यनिरासः संवेत्तृभावात् || ३-३२ || तेषां सृष्ट्यादिभावानां प्रवृत्तावपि चिद्विभुः | स्वस्थितिं न जहात्येव सदा संवेत्तृभावतः || अनिरासोऽत्राविलोपः (क्: अनिरासोऽत्रावलुप्त) संवेत्तृत्वे विशेषणम् | इत्थं लोपो व्यवस्थानां नावस्थातुः कदाचन || --------------- Pअगे ७४ ------------------- निरूपितं स्यात्सर्वत्रानुस्यूतत्वस्वरूपतः [सृष्ट्याद्युन्मज्जनेऽपि चित्स्वभावस्थितिः तुर्यचमत्करणविमर्शनमयात् संवेत्तृभावात् सकाशात् नैव जातु किल निरस्यते | तदित्युपलक्षणं पञ्चकृत्यस्य | पञ्चकृत्यकारी चिदात्मा तत्तत्कृत्योल्लसनात्मस्वात्मैश्वर्यं प्रकटयन् विनश्यत्स्वभावानां तेषां भावानां पूर्वापरकोट्योः चमत्कर्तृतया सदोदितः स्वस्य तत्साक्षिस्वभाव-तामवगमयेत् | इत्थमविनाशिनोऽवस्थातुरवस्था एव विविधा नष्टोदिता असकृत् विपरिवर्तन्ते न तु तस्य विनाशः | तथात्वे हि तद्विलयादयोऽसाक्षिकत्वात् असंभाव्याः प्रतीयेरन् इत्यर्थः |] || ३-३२ || एवं सुखासुखे अत्र निरूपयितुमाह च || सुखासुखयोर्बहिर्मननम् (क्: सुखासुखत्वे बहिर) || ३-३३ || अदिव्यविषयास्वादादिष्टप्राप्त्यादिनोदितम् [इत्थमुपलब्धृपदस्थि- तस्य लौकिकप्रेष्ठतमविषयस्पर्शप्राप्ति-जन्या आनन्दवृत्तिः | तदप्राप्त्या तद्विपर्यस्तापत्त्या च उत्पन्ना अनानन्दवृत्तिः दुःखम् | तत् पुनराध्यात्मिकादिबहुभेदैः बहुविधम् | एवमुभे एते आविर्भूतेऽपि विमर्शदार्ढ्यात् अनहंममतावत्त्वेन नीलादिवत् संवेद्यमाने स्वरूपानावरके स्तः, न पुनः पशुप्रमातुरिव अस्य अहन्तास्पर्शो भवति तत्रेत्यर्थः |] | --------------- Pअगे ७५ ------------------- प्रत्यगात्मनि बाह्यान्तःसुखस्य (क्: बाह्यान्तर्मुखस्य; ख्: बाहयोऽन्तर्मुखस्य) मननं मतम् || दुःखं त्रिधा पञ्चाधा च पुनर्भेदैरनन्तकम् | आध्यात्मिकादित्रितयं तापत्रितयमेव तत् || तमो मोहो महामोहस्तामिस्रश्च चतुर्थकः | अन्धतामिस्र एवान्यदत्राष्टप्रकृतिः स्थितः || आत्माभिमानस्तु तमो मोहो देहात्मता मतः | महामोहस्तु बाह्यस्य पुत्रादेरात्मरूपता || तामिस्रः स्यात्कुटुम्बादिबाधाकर्तर्यमर्षणम् (ख्: कुटुम्बादेर्नाशकर्तुरामर्ष) | पञ्चमस्त्वन्धतामिस्रो मरणत्रास एव यः || अत एव विभेदेन पुनर्गच्छत्यनन्तताम् | चितः कर्तृधरावेशदार्ढ्यात्तादात्म्यरूपतः (ख्: चितेः कर्तृधरादेशदार्ढ्यताद्रूप्यभागिता) || सुखदुःखाद्यवस्थाख्यमननं यदुदेत्यलम् | कुतश्चित्कारणाद्वापि तदनावरकं भवेत् || ३-३३ || --------------- Pअगे ७६ ------------------- अतस्तन्मननं वाह्यमन्तर्विशति नो यदा | तदा तन्मुक्त आत्मैव (क्, ख्: तदा तन्मुख आत्म) कीदृशः स्यात्तदाह च || तद्विमुक्तस्तु केवली || ३-३४ || ताभ्यां च सुखदुःखाभ्यां (क्: तस्यां च सुखदुःखाभ्याम्, तस्यां तादात्म्यदशायामिति पर्यायोपेतः पाठः |) मूढभावेन च प्रभुः | विमुक्तः केवलः स्वस्थः सर्वानुस्यूतवृत्तितः [यदा सुखादिमननमन्तर्नैव विशति, तदा सुखादिना तत्कृतमोहेन च असंस्पृष्टः सन् अविलुप्तस्वात्मविभवः केवलचिन्मात्रपरप्रमा- तृरूपे विश्रान्त्या योगी योगफलमनुभवतीत्यर्थः |] || ३-३४ || मूढभावश्छादकः (क्: मूढभावाच्छादक) स्यान्न वा तन्निजगाद च | मोहप्रतिसंहतस्तु कर्मात्मा || ३-३५ || मोहो मौर्ख्यमनुद्योगस्त्वविद्या (क्: मौर्ख्यमनुद्वेग; ख्: मोहमौर्ख्याद्यनुद्योगश्चाविद्या) जाड्यमावृतिः [यदा अविद्यापर्यायेण मोहेन शरीरादिषु आत्माभिमानितां विजृम्भ्य नैरन्तर्येण व्याप्तो भवति, तदा देहावयवसहकृत- शुभाशुभमिश्रकर्माणि समाचरन् पूर्णं चिद्व्योमैकरूपं स्वात्मानमपह्नुवानो विविधविचित्रकर्मफलेभ्यः अभिनिवेशेन स्पृहयालुः नानाविधनरादियोनीः संसरतीत्यर्थः |] | --------------- Pअगे ७७ ------------------- अविवेकश्च मूर्छादिपर्यायैरेभिरुच्यते || शरीरादेरहंभावो यस्मिन्सति विजृम्भते | प्रतिसंहत एवात्मा व्याप्तस्तेन निरन्तरम् || कर्मात्मा तस्य च प्रोक्तः संसारी पशुरित्यसौ | तदा भेदावभासित्वमभेदाख्यातिलक्षणम् (क्: अभेदाभातिलक्षणम्; ख्: भेदाभावस्य लक्षणम्) || ३-३५ || मोहे सत्यात्मनोऽहन्तेदन्तारूपं सदा स्थितम् | तदुद्वेष्टनयोगेन कर्तृभूमिसमाश्रयात् || प्रबुद्धः शिवरूपः स्यादात्मा नित्यं निजस्थितिः || भेदाभावे भवत्यस्य किं तदाहात्र शंकरः || भेदतिरस्कारे सर्गान्तरकर्मत्वम् || ३-३६ || प् ७८) आत्मैवं सर्वं बुद्धत्वाद्भिन्नं नेहास्ति किंचन [शिवशक्तिपाताविद्धहृदयत्वात् हेतोः कर्मबन्धनोद्वेष्टनशिव- योगाश्रयणेन प्रबुद्धः सन् परमशिवस्वभावात् व्यतिरिक्तं किंचनापि अपर्यालोचयन् देहाद्यहन्तात्म-सकलप्रलयाकलादि- प्रमात्रास्पदां भेदप्रथां न्यक्करोति | एवंविधोऽयं स्वस्वरूपप्रत्यापत्त्या निश्चलस्थितिः लब्धपरशाक्तबलो मन्त्रमन्त्रेश्वरादिप्रमात्रुचितमहावैभवप्राप्तौ सत्यां स्वेच्छानतिक्रान्त्या नवनवोल्लेखसंनिवेशादिचित्रितान् अपूर्वसर्गान् कर्तुं प्रभवेदित्यर्थः |] | विश्वमातृभिरेतच्च स्वसूत्रेषु निरूपितम् || निवृत्तस्य प्रवृत्तस्य निश्चलैव यदा स्थितिः | विषयस्य हि बुद्धानां तत्साम्यमजमव्ययम् || इत्थं भेदतिरस्कारे सत्येकाकारतात्मनः | तेन सर्गान्तरं सृष्टेरपूर्वोल्लेख एव यः (क्: अपूर्वोल्लेखनेन यः) || तत्कर्मत्वं कर्तृता स्याद्यथारुचि चिदात्मनः || ३-३६ || अत्र हेतुं सुराधीशः प्राह सर्गान्तरं प्रति || करणशक्तिः स्वतोऽनुभवात् || ३-३७ || प् ७९) शक्तिः सर्गान्तरोत्पादे सामर्थ्यं (क्: सर्गान्तरोत्पादः सामर्थ्यम्; ख्: सर्गान्तरोत्पादसामर्थ्यम्) करणेषु यत् | तत्स्वतोऽनुभवात्सिद्धमकृत्रिमबलाश्रयात् || यतः करणसामर्थ्यमात्मावेशबलाद्भवेत् | तेन सत्यधरारूढो यादृशं कार्यमिच्छति || तादृशं प्रकरोत्येव संकल्पं परमेश्वरः | यद्यप्युक्तमिदं सर्वं तथापि व्यक्तये पुनः (ख्: व्यक्तये तत) || प्रकारान्तरमत्रोक्तं विचित्राः सिद्धयो यतः [यथा साधारण्येन क्रिम्यादेरपि स्वप्नस्वैरविकल्पादौ विश्ववैचित्र्यनिर्माणशक्त्या कयाचिदपि तत्तदुद्यानवनगिरिसरो-नगरादीनामसाधारणानां पदार्थानां निर्मातृत्वं स्वानुभवगम्यम् | एवं योगिना गाढतराभिनिवेशात् अकृत्रिमवीर्यमाश्रयता तद्भूमिकारूढेन यथास्वसंकल्पं यादृशं कार्यमिष्यते तत्सर्वं करणशक्त्या निर्मीयते | प्रागभिहितोऽपि विश्ववैचित्र्योत्पादनसामर्थ्योपायः सिद्धीनां बहुप्रकारान्तरज्ञापनाय इदानीं पुनरनूद्यते |] || ३७ || --------------- Pअगे ८० ------------------- एवं स्वानुभवस्तुर्यपदरूपः स्फुरत्यलम् || यदा सर्वत्र सर्गादौ तदा लब्धात्मसंस्थितिः (क्: तदा लब्धात्मसंस्थितिम्) | भवत्यात्मा तदाहात्र जगतां पतिरादरात् || त्रिपदाद्यनुप्राणनम् || ३-३८ || त्रीणि जाग्रत्पदादीनि आदिभूतानि यस्य तत् | त्रिपदादि स्मृतं तुर्यं युगपत्पूर्णताभिधम् || तेनानुप्राणनं सम्यग्भावानां स्वबलार्पणम् (क्: भावानां स्वबलार्पणात्) [प्रोक्तोपायजालसेवनेन जागरादीनां तिसृणामवस्थानामनु-प्राणकं तुरीयं चिदानन्दघनं शिवतत्त्वमेव परिपूर्णं सर्वभावव्यवस्थापकं यदा उपलभ्यते, तदा व्यवहारदशा-यां तत्तदिष्टसंगीतादिविषयाणामास्वादाद्यवसरेषु अन्तर्मुखविमर्शावस्थित्या बोद्धृतत्त्वं निरावरणं विद्युद्वत् प्रस्फुरेदित्यर्थः |] || ३-८ || कथं कुर्यात्तदाहात्र सूत्रं हार्दतमोहरः || चित्तस्थितिवच्छरीरकरणबाह्येषु || ३-३९ || --------------- Pअगे ८१ ------------------- चित्तस्योक्तस्वरूपस्य स्थितिर्निश्चलतैव या [वेद्यौन्मुख्ये संकुचद्रूपतया चित्तीभूतस्य चित्तत्त्वस्यैव उपायाद्यनुवृत्त्या स्वभावचिदानन्दघनताप्रत्यापत्तेः कल्पितस्य देहादेरपितात्त्विकस्वभावाप्रच्युतिः | प्रागवस्थायां हि सर्वं भावजातं चिद्रससमकक्ष्यं बहिर्मुखतायां काठिन्यमापन्नमिव स्वप्नमनोरथवत् प्रकाशते | वस्तुतो बाह्याभ्यन्तरं स्वरूपप्रथैव तत्तद्भावेन आश्यानीभूय अवभासमाना पुनर्विलीय चिद्रसीभवतीत्यर्थः |] | अप्रच्युतिः स्वस्वरूपादिति तद्वच्छरीरके || यथास्वं कल्पिते चात्र सबाह्याभ्यन्तरे स्थिते | करणग्राम एवालं स्थितिर्या प्राणनं हि तत् (क्: प्राणनं महत्) || एवं बाह्येषु भावेषु येषु येषु (ख्: बाह्येषु भोग्येषु) प्रकल्पनम् | कुरुते तेषु तेष्वेव प्रथनं स्यात्तथैव तत् || ३-३९ || एवमन्तः स्थितस्यैव भवेद्वाह्यविसर्पणम् (क्: बाह्यविसर्पणा इति स्त्रीलिङ्गनिर्दिष्टः पाठः) | भावव्रातस्य कस्मात्तत्प्रोवाच गिरिजाधवः || --------------- Pअगे ८२ ------------------- अभिलाषाद् बहिर्गतिः संवाह्यस्य || ३-४० || आत्मनः स्वबलोद्रेकात्क्रियावेशप्रपूरणे | यैवेच्छा सोऽभिलाषः स्यात्तस्मादस्य भवत्यलम् || करणादिसमूहस्य संवाह्यस्य बहिर्गतिः | सव्यापारप्रवृत्तिः सा प्रेर्यस्यात्मबलेरणात् || अथाभिलषितव्यं यत्संवाह्यं तदुदाथृतम् | काकाक्षिन्यायतस्तूक्तं पशोरेव पशोः पुनः || सर्गे सत्यभिलाषो यः स सर्वविषयेष्वलम् | तस्मात्कर्मात्मनः प्रोक्ता संवाह्यस्य बहिर्गतिः || स्वस्वरूपपरित्यागो बाह्यो वैषयिकव्रजः | गतिः प्रसरणं तत्र संवाह्यस्य भवत्यतः || विषयादिभिरेवासौ सदा संवाह्यते यदा | तदा दुरभिलाषाख्यो मोह एवास्य जृम्भते [यैव स्वात्मविर्याक्रमणातिशयात् अधरस्यां दशायामपि दर्शनश्रवणादिक्रियां विर्वोढुं कामयमानस्य आत्मनो धीकर्मेन्द्रियगणेषु चिद्बलाधानेच्छा स एव अभिलाषः, तेनैव संवाह्याख्यस्य करणचक्रस्य प्रेरणात् शब्दस्पर्शादिविषयेषु प्रवृत्तिलाभः | यद्वा खेचरी-गोचरी-दिक्चरी-भूचर्याख्यशक्तिवृन्दा- धिष्ठितैः कञ्चुकादिभिः सह योनेर्योन्यन्तरं संवाह्यते प्राप्यते यः स संवाह्यः कर्मात्मा पशुः | तस्यैव पाशराशिमूलभूताभिलाषाख्याणवमलसंबन्धात् स्वस्वरूपानुभवं परित्यज्य बाह्ये विषयजाते रिरंसयिषया प्रसरणं भवति | उत्तरोत्तरं स एव घनीभूततावस्थायां मोहकार्यं विदधानो भूचरीशक्तिचक्रमाश्रित्य पशून् संवाहयतीत्यर्थः |] || ३-४० || --------------- Pअगे ८३ ------------------- जीवसंज्ञश्च कर्मात्मा सति दुष्टे तदेषणे (ऽदुष्टे तदेषणेऽ इतीयान्पाठः पस्तकान्तरेषु त्रुटिसंभवाद-विद्यमानः; ग पुस्तकात्समुपलभ्य संनिवेशितोऽस्ति |) || तत्क्षयादात्मनः किं स्यादथोवाच महेश्वरः || तदारूढप्रमितेस्तत्क्षयाज्जीवसंक्षयः || ३-४१ || अभिलाषोद्गतौ पूर्वा कोटिर्द्रष्ट्टधरा स्मृता | तदा तस्मिन्नावसति प्रबुद्धः परमार्थवित् || यदा द्रष्ट्टधराक्रामी स्वबलोद्योगवीर्यतः | तदासौ रूढविज्ञानः प्रमाता बुद्ध उच्यते || प्रमातुः प्रमितिस्तस्य स्वसंविज्ज्ञानमेव यत् | तदाप्यारूढप्रमितेरभिलाषक्षयो भवेत् || --------------- Pअगे ८४ ------------------- तत्क्षयाज्जीवसंज्ञस्य क्षयः कर्मात्मनः स्मृतः [एवं दुरेषणायां मिताहन्तासंयोगेन मोहानुभवात् कदाचित् सुकृतसंचयोदितशक्तिपातः शैवशासनविवेकपरो द्रष्टभूमिकायां प्ररूढसंवित् खेचर्यादिभिः शक्तिभिः पशुकार्यवैपरीत्येन कञ्चुकादारभ्य तन्मात्रावधि बाह्याभ्यन्तरं स्वसंविन्मरीचिकचनं प्रकाश्यमानं स्वरूपानन्दमयं रसयन् यदा पाशवाभिलाषं जहाति तदैव अस्य संवाह्यात्मनः पुर्यष्टकस्य प्रशमः |] || ३-४१ || जीवसंज्ञः स्मृतो बध्यः संसारी पशुरित्यतः || पाशराशिक्षतौ सत्यां कीदृगात्मा तदाह च || भूतकञ्चुकी तदाविमुक्तो भूयः पतिसमः परः || ४२ || महाभूतानि पञ्चैव पाशरूपाणि कञ्चुकम् | कञ्चुकं चावृतिर्ज्ञेया तदासौ भूतकञ्चुकी || अविमुक्तो बद्ध एव भूयः पूर्वोक्तरीतितः | सर्वज्ञसर्वकृद्भूमिरूढ्या (क्: सर्वज्ञः सर्वकृत् इति व्यस्तपाठः) पतिसमः परः || --------------- Pअगे ८५ ------------------- स्यादसौ नात्र संदेहः सम्यक् स्वानुभवादलम् [इत्थमभिलाषात्मकमलप्रक्षये भौतिकदेहसंबन्धस्थित्या अविमुक्ततायां भासमानायामपि सर्वकर्तृज्ञातृत्वभूमि- प्ररूढ्या नैरन्तर्येण अनुत्तरचिदानन्दघनस्वात्मशिवता- मनुभवन् बध्यपशुभावनिष्क्रान्तो देहकलाया अविगलनात् शिवसदृक्षो भवति, न तु शिव एव देहपातानन्तरं तद्भावप्राप्तेः |] || ३-४२ || भूतकञ्चुकिनश्चास्य संबन्धः प्राणसंज्ञकः || स कथं प्राह भगवानत्र सूत्रं वृषाकपिः | नैसर्गिकः प्राणसंबन्धः || ३-४३ || स च भूतशरीरस्य प्राणसंबन्ध एव यः | निसर्गसिद्धोऽसौ ज्ञेयः प्राणः प्राणमयो यतः (क्: निसर्गसिद्ध्यै संज्ञेयः प्राणापानमयो यदा) [प्रोक्तार्थनीत्या तदारूढसंवित्त्वात् पुर्यष्टकाभिमानविगल-नेन तत्संबद्धस्य भूतकञ्चुकस्यापि अवश्यं भ्रंशप्राप्तौ सत्यामपि, तत्स्थैर्यनिमित्तप्राणपुर्यष्टकसंबन्धो निसर्गसिद्धोऽभ्युपगम्यते | संविदेव किल संकोचावभास- पूर्वकं विश्ववैचित्र्यावभासनात् प्राणनात्मकग्राहक-भूमिं श्रित्वा ग्राह्यरूपजगदात्मना स्फुरन्ती स्वयमेव स्वविभवविस्मरणपूर्वं जीवदवस्थायां स्वोत्थापितैः शुभाशुभविकल्पैः पुण्यापुण्यकर्मोपचयं विधाय तत्समुचिता नरतिर्यग्देवतायोनीः भ्राम्यन्ती कदाचित् निरपेक्षशक्तिपाताधिष्ठानात् शैवज्ञानसोपानपद्धतिक्रम- समारोहणेन अनुत्तरोर्द्ध्वधामाभिलाषुका ज्ञानाग्निदग्धेषु कर्मसु सत्स्वपि दण्डापगमे चक्रभ्रमिवत् यावत्प्रारब्ध- कर्मोपभोगं प्राणतत्संबद्धभूतकञ्चुकात् नैव निवर्तते इत्यर्थः |] || ३-४३ || --------------- Pअगे ८६ ------------------- बिन्दुनादात्मकस्यास्य मार्गत्रयविसर्पिणः | जयः कार्यो न वा कार्यः स्वसिद्ध्यै प्राह चात्र तत् (क्: संसिद्ध्यै प्राह चात्र ताम्; ख्: स्वसिद्धिं प्राह चात्र ताम्) || नासिकान्तर्मध्यसंयमात्किमत्र सव्यापसव्यसौषुम्नेषु || ३-४४ || नासान्तर्द्वादशान्तः स्यात्तत्र संन्यस्तचेतसाम् | नियमात्तज्जयः सिद्धस्ततः स्वात्मस्थितिः स्फुटम् || मध्यं हृदयमेवात्र तत्र प्राणनिरासतः | चेतसो लीनवृत्तित्वाद्भवत्यात्मोदयः परः | एवं प्राणजये सिद्धे स्यात्किमत्र प्रयोजनम् | वामदक्षिणसौषुम्नमार्गेषु प्राणवाहिषु || --------------- Pअगे ८७ ------------------- यस्मात्प्राणः प्राणसमः समर्थः सर्वसिद्धिदः | श्रीमत्स्वच्छन्दतन्त्रान्तर्गीतमेतच्छिवेन तु || प्राणः प्राणमयः प्राणो विसर्गापूरणं प्रति | प्राणनाडीजयश्चैव सानुषङ्गिक ईरितः (क्, ख्: सानुषङ्गिकमीरित) || यस्माच्छिवमयः शुद्ध आत्मा स्वच्छन्द इत्यतः [पतिभावप्राप्तौ स्वात्मसिद्धिघनाभ्यसनार्थं प्राणात्मा- नाहतशब्दब्रह्मोपासनां निर्दिशति नासिकान्तरिति, द्वादशान्ता- दिषु प्राणार्कास्तमनस्थानेषु युक्तचेतसां योगिनामभ्यासाअति- शयपरिचयात् इडादिमार्गत्रयसृप्तस्य क्रोडीकृत बिन्दुनादस्य प्राणस्य विलयात् नाडीजयः संपद्यते | प्राणवृत्त्युपरतौ अनाहतब्रह्मणि चेतोवृत्तिविश्रान्तेः स्पष्टतत्प्रत्ययैकताप्रवाह- वशात् तन्मयीभूतत्वात् ध्यात्रादिभेदविगलनतः परमस्वात्म- शिवोदयः | एवं साध्यसिद्धौ आणवोपायनिर्दिष्टोच्चारादिषु अधरपदोपासाविश्रान्त्या अलंप्राप्तोर्ध्वपदस्य अर्वाचीनपदान्तरानपेक्षणात् इति कारिकासमुदायाशयः |] || ३-४४ || एवमस्मिन्प्रकरणत्रयेऽथ विभुनोदितः (क्: प्रकरणे योऽत्राप्यविभुना; ख्: विभुबोधित) || उपायघटनाबन्धस्तत्र सिद्धान्तमाह च | --------------- Pअगे ८८ ------------------- भूयः स्यात्प्रतिमीलनम् || ३-४५ || इत्थमुक्तदृशैवेदं जगदिच्छाविजृम्भितम् (क्, ख्: जगदिच्छा विजृम्भते) | सर्वं विभोरतो मायाशक्तिवीर्यादणुः पृथक् || आत्मानं बुबुधे भूयः प्रोक्तरीत्युपदेशतः | कालुष्यप्रक्षयेण स्यात्प्रतिमीलनमीश्वरे (क्: प्रतिमीलनमीश्वरैः) || अपृथग्भावमापन्नो यदसौ परमेश्वरे | तदसौ परिपूर्णैकघनानन्दः शिवो भवेत् [इत्थमुक्तशैवप्रक्रियायाः सारसंक्षेपोऽत्र निर्दिश्यते भूय इति, संविन्मयानुत्तररूपः परमशिव एव स्वेच्छावीर्याक्रमणात् शिवशक्त्यादिपल्लवोद्गमान् विस्फार्य शुद्धाध्वानमधिष्ठितः | एतावति अध्वनि निजचिद्घनस्वभावादप्रच्युतः, अधराअध्वनि तु स्वरूपविस्मरणात्मक्रिडाप्रदर्शनाशयेन मायाप्रमातृता- मधिश्रितो विश्वनाट्यमभिनयति | स एव तीव्रतमशक्तिपाता- विर्भतज्ञानक्रियात्मालुप्तशक्तिविभवः शैवज्ञानपद्धत्या क्षेत्रज्ञभावं निमज्ज्य कालुष्यप्रक्षये परिपूर्णचिदानन्द- घनानुत्तरपरमशिवीभावमुन्मज्ज्य स्वस्थितिं प्रत्यापद्यते इति शम् |] || ३-४५ || इति संक्षेपतः सम्यक् सूत्रवार्तिकमुत्तमम् | शतत्रयेण श्लोकानां नवत्या चोपवर्णितम् || --------------- Pअगे ८९ ------------------- इति प्रकरणत्रयं सुघटमीषदुन्मीलितं मया शिवमुखोद्गतं सुमतिसिद्धये सांप्रतम् | विचार्य गतमत्सर्बुधैर्जनैर्गुणग्राहिभिः सुसेव्यमिह तेष्वलं भवतु सिद्धिमोक्षप्रदम् || इति काश्मीरिक-श्रीमदाचार्यभट्टदिवाकरात्मज- भट्टश्रीभास्कर-विरचिते शिवसूत्रवार्तिके विभृतिस्पन्दाख्यस्तृतीयः प्रकाशः || ३ || समाप्तश्चायं शिवसूत्रवार्तिकाख्यो ग्रन्थः || श्रीशिवार्पणं भूयात् || अथ अकारादिक्रमेण शिवसूत्रवार्तिकग्रन्थसूत्राणां सूची | प्र. सू. सं. पृ. --------------- Pअगे ९१ ------------------- अभिलाषाद्वहिर्गतिः संवाह्यस्य (३-४०) ८२ अविवेको मायासौषुप्तम् (१-१०) १३ आत्मा चित्तम् (३-१) ४१ आसनस्थः सुखं ह्रदे निमज्जति (३-१६) ५८ इच्छा शक्तितमा कुमारी (१-१३) १५ उद्यमो भैरवः (१-५) ८ कथा जपः (३-२७) ६८ करणशक्तिः स्वतोऽनुभवात् (३-३७) ७८ कलादीनां तत्त्वानामविवेको माया (३-३) ४३ कवर्गादिषु माहेश्वर्याद्याः पशुमातरः (३-१९) ६० गर्भे चित्तविकासो विशिष्टोऽविद्या- स्वप्नः (२-४) ३२ --------------- Pअगे ९२ ------------------- गुरुरुपायः (२-६) ३४ चित्तं मन्त्रः (२-१) २९ चित्तस्थितिवच्छरीरकरणबाह्येषु (३-३९) ८० चैतन्यमात्मा (१-१) ५ जाग्रत्स्वप्न-सुषुप्तभेदे तुर्याभोग- संवित् (१-७) १० जाग्रद्द्वितीयकरः (३-८) ५० ज्ञानं जाग्रत् (१-८) ११ ज्ञामन्नम् (२-९) ३८ ज्ञानं बन्धः (१-२) ५ ज्ञानं बन्धः (३-२) ४२ ज्ञानाधिष्ठानं मातृका (१-९) ७ तत्प्रवृत्तावपि अनिरासः संवेतृभावात् (३-३२) ७३ तदारूढप्रमितेस्तत्क्षयाज्जीव- संक्षयः (३-४१) ८३ तद्विमुक्तस्तु केवली (३-३४) ७६ त्रितयभोक्ता वीरेशः (१-११) १४ त्रिपदाद्यनुप्राणनम् (३-३८) ८० --------------- Pअगे ९३ ------------------- त्रिषु चतुर्थं तैलवदासेच्यम् (३-२०) ६२ दानमात्मज्ञानम् (३-२८) ६९ दृश्यं शरीरम् (१-१४) १६ धीवशात् सत्त्वसिद्धिः (३-१२) ५४ नर्तक आत्मा (३-९) ५१ नाडीसंहार-भूतजय-भूत- कैवल्य-भूतपृथक्त्वानि (३-५) ४७ नासिकान्तर्मध्यसंयमात् किमत्र सव्यापसव्यसौषुम्नेषु (३-४४) ८६ नैसर्गिकः प्राणसंबन्धः (३-४३) ८५ प्रयत्नः साधकः (२-२) ३० प्राणसमाचारे समदर्शनम् (३-२३) ६५ प्रेक्षकाणीन्द्रियाणि (३-११) ५३ बीजावधानम् (३-१५) ५७ भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः (३-४२) ८४ भूतसंधान-भूतपृथक्त्व- विश्वसंघट्टाः (१-२१) २३ भूयः स्यात्प्रतिमीलनम् (३-४५) ८८ --------------- Pअगे ९४ ------------------- भेदतिरस्कारे सर्गान्तरकर्म- त्वम् (३-३६) ७७ मग्नः स्वचित्ते प्रविशेत् (३-२१) ६३ मध्येऽवरप्रसवः (३-२२) ६४ महाह्रदानुसंधानान्मन्रवीर्या- नुभवः (१-२३) २६ मातृकाचक्रसंबोधः (२-७) ३५ मात्राप्रत्ययसंधाने नष्टस्य पुनरुत्थानम् (३-२४) ६५ मोहजयादनन्ताभोगात् सहजविद्या- जयः (३-७) ४९ मोहप्रतिसंहतस्तु कर्मात्मा (३-३५) ७६ मोहावरणात् सिद्धिः (३-६) ४८ यथा तत्र तथान्यत्र (३-१४) ५५ योनिवर्गः कलाशरीरम् (१-३) ६ योऽविपस्थो ज्ञाहेतुश्च (३-२९) ७० रङ्गोऽन्तरात्मा (३-१०) ५२ लोकानन्दः समाधिसुखम् (१-१९) २१ वितर्क आत्मज्ञानम् (१-१८) २० विद्याविनाशे जन्मविनाशः (३-१८) ५९ विद्याशरीरसत्ता मन्त्ररहस्यम् (२-३) ३१ --------------- Pअगे ९५ ------------------- विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था (२-५) ३३ विद्यासंहारे तदुत्थस्वप्नदर्शनम् (२-१०) ३९ विसर्गस्वाभाव्यादबहिःस्थितेस्तत्- स्थितिः (३-१४२) ३९ विस्मयो योगभूमिकाः (१-१२) १५ शक्तिचक्रसंधाने विश्वसंहारः (१-६) ९ शक्तिसंधाने शरीरोत्पत्तिः (१-२०) २२ शरीरं हविः (२-८) ३७ शरीरवृत्तिर्व्रतम् (३-२६) ६७ शरीरे संहारः कलानाम् (३-४) ४६ शिवतुल्यो जायते (३-२५) ६६ शुद्धतत्त्वसंधानाद्वा (१-१६) १९ शुद्धविद्योदयाच्चक्रेशत्वसिद्धिः (१-२२) २५ सिद्ध स्वतन्त्रभावः (३-१३) ५५ सुखासुखयोर्बहिर्मननम् (३-३३) ७४ स्थितिलयौ (३-३१) ७२ स्वपदशक्तिः (१-१७) २० --------------- Pअगे ९६ ------------------- स्वप्नो विकल्पाः (१-९) १२ स्वमात्रानिर्माणमापदयति (३-१७) ५९ स्वशक्तिप्रचयोऽस्य विश्वम् (३-३०) ७१ हृदये चित्तसंघट्टाद् दृश्यस्वाप- पदर्शनम् (१-१५) १७ इति शिवसूत्रवार्तिकसूत्राणामकारादिक्रमसूचि समाप्ता || अथ शिवसूत्रवार्तिकान्तर्वर्तिनां पारिभाषिकपदानां विवरणम् | पृ. सं. ८८ अणुः संकुचितप्रमाता | परिमितत्वात् अणुः | २४ अनुभवभूः प्रकाशभूमिः | चिच्छक्तिः ७५ अन्धतामिस्रः मरणत्रासः | ७ अम्बा पराभट्टारिका | शशाङ्कशकलाकारा शक्तिः | २४ अर्कः ज्ञानशक्तिः | ज्ञानशक्तिः प्रभोरेषा तपत्यादित्यविग्रहा | इति (त.)| प्रमाणम् प्राणः ३३ अलंग्रासयुक्तिः प्रशमविशेषः | यत्र अलमत्यर्थं सार्वात्म्येन सृष्टयादीनां ग्रासः स्वात्मसात्कारः (त. ३ आ. | --------------- Pअगे ९८ ------------------- ६ अविद्या भेदप्रथात्मा बन्धः | मोहः (७६ पृ.) ७६ अविवेकः मोहः | ४४ अहंकारः संरम्भः | २७ आनन्दः अपानशक्तिः | आह्लादशक्तिः | २३ आपूरणी विसर्गसंघट्टिता कौलिकी शक्तिः | ऐन्द्री शक्तिः | योगिनीवक्त्रम् | ६ आवृतिः अविद्या | विकल्पानामुदयः (१३ पृ.) | मोहः (७६ पृ.) | ५८ आसनम् उदानाभिधः प्राणः | २६ इच्छाशक्तिः सर्वातिशायी शक्तिविशेषः | यद्वा परस्य प्रमातुः सिसृक्षात्मा परामर्शः | (त. ३ आ. ) --------------- Pअगे ९९ ------------------- २४ इन्दुः क्रियाशक्तिः | प्रमेयः | अपानः | २३ ईशानी इष्यमाण स्फुटसमापत्तिमती अक्षुब्धेच्छाशक्तिः | यद्वा वैष्णव्यपरपर्याया शक्तिः | ४५ ईश्वरतत्त्वम् प्रेर्यत्वम्, तस्यैव भेदप्रथा- प्ररोहणायां प्रेषणाहेतुत्वात् | ६४ उद्बुभूषा आद्यकोटिः | ८ उद्यमः प्रसरद्रूपाया विमर्शमययाः संविदो झगिति उच्छलनात्मक- परप्रतिभोन्मज्जनम् | ८ उद्योगः उन्मेषः | उद्यमः | सृष्टिः | इच्छाशक्तिः | ८ उन्मेषः उद्योगः | --------------- Pअगे १०० ------------------- ४७ उल्लङ्घनवृत्तिः शक्तिसंकोचः | ३५ औन्मनसं धाम शांभवपदम् | ८४ कञ्चुकम् पाशः | अवृतिः | मायादिनियत्यन्तं तत्त्व- जालम् | ४६ कलाः तत्त्वानि | तत्त्वानां स्वसामर्थ्यं | आदिच्छान्त वर्णसमूहः (६ पृ.)| निवृत्त्यादयः | ५ कलाचक्रम् मातृचक्रम् | शक्तिचक्रम् देवीचक्रम् | रश्मिचक्रम् | आदिच्छान्तवर्णसमूहः | ४४ कलातत्त्वम् किंचित्कर्तृत्वसामर्थ्यम् | ४४ कर्मेन्द्रिय- गणः अक्षैर्भिन्नं कर्तृत्वम् | ४४ कालतत्त्वम् इदानीन्तनभावे | आकलनम् | २३ क्रियाशक्तिः विश्वाकारवैचित्र्यधारित्वयोग्यता | --------------- Pअगे १०१ ------------------- ३४ खेचरी मुद्राविशेषः, येन चिद्गगनाभोगे गतिर्- भवति | शिवावस्था | २४ गुणस्पन्दाः सत्त्वादिवृत्तयः | ४४ गुणाः सुखदुःखविमोहित्वानि | ३५ गुरुः शाम्भवी अनुग्रहशक्तिः | ३५ चक्रम् कलासमूहः | ७२ चक्रेश्वरः मातृगणेश्वरः | ५८ चण्डः मध्यप्राणः | ११ जाग्रत् ग्राह्यग्रहणग्रहीतृरूपा ऐन्द्रियज्ञान- शक्तिः | ७६ जाड्यम् मोहः | २३ ज्ञानशक्तिः आमर्शात्मता (तं-सा. २ आ.) ७ ज्येष्ठा संहारात्मशक्तिविशेषः, यया सुप्रबु- द्धानां शिवीभावापत्तिः | तदुक्तम् ज्येष्ठा स्वातन्त्र्यलेशं तु तनुते ज्ञान कर्मणोः | इति. (तं. ६ आ.) ज्येष्ठा शिवमयी यतः | इति च (मू. तं. ६ आ.) --------------- Pअगे १०२ ------------------- ४३ तत्त्वम् विशेषरूपाणां वर्गाणामेकीकरण- कारणम्, सामान्यसंवित् | ४४ तन्मात्रक- गणः शब्दमात्राद्यवभासित्वम् | ७५ तमः आत्माभिमानः | ७५ तामिस्रः कुटुम्बादिबाधाकर्तरि अमर्षणम् | २२ तुर्यभूः स्वस्वरूपैकघनताविमर्शः | ८६ दक्षिणमार्गः सूर्यमार्गः | ३७ दिव्यदेहः परदेहः | १८ दिव्यमुद्रा खेचरीमुद्रा | ७० दीक्षा संस्कारविशेषः | स्वरूपज्ञप्तिदान- पाशक्षपणात्मा | २७ दृक् प्राणशक्तिः | प्रकाशशक्तिः | --------------- Pअगे १०३ ------------------- ७ देव्यः शक्तयः | ८३ द्रष्ट्टधरा अभिलाषोद्गतेः पूर्वा कोटिः | ८६ द्वादशान्तः प्राणापानयोः विश्रन्तिस्थानम् | ४४ धीतत्त्वम् मन्तृता | ८६ नादः अपानः | ८६ नासा अन्तर्द्वादशान्तः | ९ निमेषः शक्तिचक्रस्य स्वात्मनि विलीनतापादनम् | ४४ नियतितत्त्वम् ममेदं कर्तव्यं पुण्यहेतुत्वात्, नेदं कर्तव्यमपुण्यकारणत्वात् इति नियत्यात्मकता | २१ निरानन्दः प्रमातृसंमतादानन्दात् निष्क्रान्तो दशाविशेषः (त. ५ आ.) | ६४ निष्कलजपः प्रणवाङ्गपरामर्शः | --------------- Pअगे १०४ ------------------- १३ पतिः शुद्धाध्वप्रमाता मन्त्रादिरूपः | मुक्ताणुः शक्तिभिरनावृतस्वस्वभावः | ८० पदम् जाग्रदादि | ३८ परदेहः परप्रमातृभावः | २१ परानन्दः परेण प्रमेयेन कृत आनन्दविशेषः (त. ५ आ.) ८ परिस्पन्दः असांकेतिकः पराहंपरामर्शः ५८ पवमानः मध्यमप्राणशक्तिः | १६-७७ पशुः अणुः | जीवः | कर्मात्मा | आणवादि- पाबद्धः (८४ वृ.) | ६० पशुमातरः घोराभिधाः शक्तयः | ४४ पाञ्चभौतिक- गणः भिन्नशब्दादितोद्वृत्तत्वम् | ५२ पुर्यष्टकम् सूक्ष्मदेहः | ६८ पौद्गलजपः अजपापरामर्शः | २३ प्रक्रियादेहः अधिकारशरीरम् | --------------- Pअगे १०५ ------------------- २० प्रतिभालोकः दृक्क्रियारूपिणी शिवस्य शक्तिः | ४४ प्रधानतत्त्वम् सुखदुःखादिज्ञानस्य साम्यावस्था | ८३ प्रबुद्धः दृष्ट्टधरानिवासी | ४८ प्रभुशक्तिः स्वातन्त्र्यशक्तिः | ६५ प्राणः परनादः | २१ प्रोल्लासभूमिः महानन्दः | आत्मचैतन्यावस्था | १५ बिन्दुः अविभक्तः शिवप्रकाशः | यद्वा भ्रूम- ध्यादौ प्रदेशे ध्यानाभ्यासप्रकर्षेण प्रवर्धमानोत्तरोत्तरः तेजोविशेषः | ८६ बिन्दुः प्राणः | ५७ बीजम् चिदात्मा | ८३ बुद्धः द्रष्ट्टधराक्रमणशीलः प्रमाता | ४४ बुद्धीन्द्रिय- गणः अक्षैर्विशेषितं ज्ञत्वम् | --------------- Pअगे १०६ ------------------- ८ भैरवः परमशिवः, भरणरवणवमनस्व- भावत्वात् | ६३ भैरववृत्तिः शक्तिविकासः ५८ मत्स्यवलनम् अधः शक्तिः | ४४ मनः अक्षप्रयोक्तृता | ३० मन्त्रः परप्रमाता | चिच्छक्तेः स्वस्वभावः (३१ पृ.) | २७ मन्त्रवीर्यम् परावाक्परामर्शः | ३७ मन्त्रेन्द्रता मन्त्रेश्वराख्यप्रमातृभावः | १४ मरीचिः शक्तिः | गुणस्पन्दः | २१ महानन्दः महान् प्रमाणादिदशाधिशायिनिरानन्दा- दिवैलक्षण्यात् उत्कृष्टः प्रमातृसंमत आनन्दविशेषः (त. ५ आ.) ७५ महामोहः पुत्रादिषु आत्माभिमानः | २६ महाह्रदः शुद्धचिदात्मा, विश्वलहरीप्रसरणाश्रय- त्वात् | ७ मातरः योगिनीगणः | शक्तयः | रश्मयः | कलाः | देव्यः | ७ मातृका ज्ञानाधारभूता शक्तिः | विश्वजननी परावाक्शक्तिः | १३ माया स्वाङ्गकल्पेषु भावेषु विभेदबुद्धिः | मीनाति हिनस्ति इति मायाशक्तिरुच्यते (त. ९ आ.) | स्वरूपगोपनशीला शक्तिः (त. ५ आ.) कलादितत्त्वानामविवेकः (४५ पृ.) ६ मायीयमलः अहं ममेदमिति भेदप्रथात्मकं ज्ञानम् | भिन्नवेद्यप्रथा (ई. प्र. ३|१आ.) ६० माहेश्वर्या- द्याः परादिभेदभिन्नाः शक्तयः | ३३ मुद्रावीर्यम् खेचर्यवस्था | ७७ मूर्छा मोहः | देहात्मता | --------------- Pअगे १०८ ------------------- २३ मूर्तिः स्फुटतमक्रियाशक्तिः | शूलशक्तिः | योगेशीशक्तिः | २४ मूर्तिक्रिया- योगः भुवनादिरूपो मन्त्रादिरूपो वा अध्वा | अमूर्तायाः सर्वगत्वान्निष्क्रियायाश्च संविदः | मूर्तिक्रियाभासनं यत् स एवाध्वा महेशितुः इति (त. ५ आ.) | ७५ मोहः देहात्मभावः | ७६ मौर्ख्यम् मोहः | देहात्मभावः | ६ योनिः शक्तिः, सा चतुर्धा-अम्बा-ज्येष्ठा- रौद्री-वामाभिधैः भेदैः| मायाशक्तिः (६१ पृ.) ७ रश्मयः शक्तयः | चिद्भैरवस्य वृत्तयः (७१ पृ.) | ४४ रागतत्त्वम् इदमेव इष्टमस्ति इत्याकलनम् | पाशः | बन्धनम् | --------------- Pअगे १०९ ------------------- ७ रौद्री स्थित्यात्मिका शक्तिः, यया बुभुक्षूणां शिवीभावौन्मुख्येन संसार एवावस्थानम् | तदुक्तं रौद्री सांसारिकानन्दं कदाचिद्वितरेदपि | इति (त. ६ आ.) द्रावयित्री रुजां रौद्री रोद्ध्री चाखिलकर्मणाम् | इति (मू. त. ६ आ.) २१ लाभभूमिः परानन्दः | पराशक्त्यवस्था | २१ लोकः वस्तुग्रामः | ग्राहकवर्गः | शुद्धचित्प्रकाशः | ३१ वाचकम् मन्त्रादि | ३१ वाच्यम् कलादि | ८६ वाममार्गः सोममार्गः | ७ वामा सृष्ट्यात्मिका शक्तिः, यया संसारिणामधोधः पातो भवेत् | वामा संसारवमना इति (मू. त. ६ आ.) तदुक्तम् अणुस्वरूपादृश्वानं वामाधो विनिपातयेत् | इति (त. ६ आ.) | --------------- Pअगे ११० ------------------- ३२ वामा विजिज्ञास्योन्मेषाच्छुरिता यामलशक्तिः | स्फुटतरशृङ्गाटशक्तिः | शूलशक्तिः | योगेशीशक्तिः | २३ विज्ञान- देहाख्याः (विज्ञानदेहो विशुद्धसंविन्मात्रमूर्तिः महेश्वरः आख्यायते प्रत्यभिज्ञायते याभिः इति विज्ञानदेहाख्याः) सौम्यशक्तयः | २० वितर्कः (विश्वात्मा शिव एवास्मि इति) विचारः | ३१ विद्या शुद्धचिन्मात्रतावेशात् सहसोन्मेषः | स्वप्रकाशविकासः | --------------- Pअगे १११ ------------------- ४४ विद्यातत्त्वम् किंचिञ्ज्ञानसामर्थ्यम् | ६४ विश्रामः अन्नकोटिः | २१ विश्राम- भूमिः निरानन्दः | शिवावस्था | ७८ विश्वमातरः माहेश्यादिशक्तयः | १४ वीरेशः मरीचिनिचयस्य ग्रासकर्ता | (यद्वा गुण- स्पन्दानां भोक्तृत्वेन चमत्करणात्) पतिप्रमाता | ३६ वीर्यम् परा विमर्शशक्तिः | ज्ञत्वकर्तृत्व- शक्तिः (५९ पृ.) १२ वृत्तिः जाग्रत् | ७ शक्तयः मातरः | माहेश्वर्याद्याः | कलाः | रश्मयः | अघोराद्याः शक्तयः | परापराद्याः | चिदादयः (७१ पृ.) | ५ शक्तिः स्वातन्त्र्यम् | पराशक्तिः | --------------- Pअगे ११२ ------------------- ९ शक्तिचक्रम् खेचर्यादिचक्रम् | सृष्ट्यादिदेवीचक्रम् | विश्वम् | इन्द्रियवर्गः | मन्त्रगणः | मुद्रागणः | चिदादिशक्तयः | ४५ शक्तितत्त्वम् दृक्क्रियासंघट्टात्मा दशाविशेषः | ६९ शक्तिपातः शिवरश्मिस्पर्शः (यस्य आपतने यथार्करश्मिस्पृष्टः सूर्यकान्तः स्वकामाभिज्वलनलक्षणां क्रियां समाविशेत् तथा अणुरपि शिवशक्तिपात-पूतः स्वके पूर्णे ज्ञानक्रिये, समभिव्यक्तस्व सांविद्विभवो भवेदित्यर्थः) | ६८ शाक्तजपः पराहंभावपरामर्शः | ४५ शिवतत्त्वम् स्वज्योतिष्ट्वम् | ५८ शुचिः उदानः | १८ शुद्धतत्त्वम् परमशिवः | --------------- Pअगे ११३ ------------------- ४५ शुद्धविद्या कलादितत्त्वानां विवेकः | शिवशास्त्रादि- बोद्धृत्वम् | स्वातन्त्र्यशक्तिः (२५ पृ.) | भेदाभेदमयी तत्त्वदशा | ८२ संवाह्यः कर्मात्मा | पशुः | ३६ संवेदनम् आद्योऽनुभवः | ४५ सदाशिवतत्त्वम् सर्वज्ञानक्रियावत्त्वयोग्यता | १५ समाधि - व्यक्तयः योगभूमिकाः | २२ समाधिसुखम् पदद्वये स्वात्मविकासप्रमोदः | १३ सुषुप्तता क्षानज्ञेयशक्तेरनुदये चिद्रुपस्य अविवेकः | २७ सोमांशः प्रमेयभागः | अपानः | १८ सौषुप्तव्योम हृदयम् | ८६ सौषुम्न- मार्गः मध्यवाहः | ३६ स्पर्शः परसंवित्साक्षात्कारः | (त. ५ आ.) | २४ स्पर्शभूः आह्लादः | आनन्दशक्तिः | सुखादिसं- बन्धिन्या आद्यायाः संविदो यत् आद्यं संवेदनं स नाम अनुत्तरसंविदः स्पर्शभूः, परसंवित्साक्षात्कारः (त. ५ आ.) | --------------- Pअगे ११४ ------------------- ८७ स्वच्छन्दः स्वतन्त्रः | शिवः | १२ स्वप्नः बाह्यार्थविषयाभावे अन्तर्विकल्पानां नवनवोदयः | ५५ स्वातन्त्र्यम् प्रभुशक्तिः | ६८ हंसजपः नादकलापरामर्शः | २३ हार्दी सिद्धयोगिनीमेलापशक्तिः | याम्या शक्तिः | ५८ ह्रदः चिदात्मा | इति शिवसूत्रवार्तिकान्तर्वर्तीनि पारिभाषिकपदानि सविवरणानि समाप्तानि || ########### END OF FILE #######