#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00082 Uniform title: śivasaṃhita Description: Notes: E-text transcribed by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: Jan. 29, 2007 Publisher : Tara Press Publication year : 1928 Publication city : Varanasi Publication country : India #################################################### प्रथमः पटलः एकं ज्ञानं नित्यमाद्यन्तशून्यं नान्यत् किञ्चिद्वत्ते ते वस्तु सत्यम् | यद्भेदोस्मिन्निन्द्रियोपाधिना वै ज्ञानस्यायं भासते नान्यथैव || १-१ || अथ भक्तानुरक्तोऽहं वक्ति योगानुशासनम् | ईश्वरः सर्वभूतानामात्ममुक्तिप्रदायकः || १-२ || त्यक्त्वा विवादशीलानां मतं दुर्ज्ञानहेतुकम् | आत्मज्ञानाय भूतानामनन्यगतिचेतसाम् || १-३ || सत्यं केचित्प्रशंसन्ति तपः शौचं तथापरे | क्षमां केचित्प्रशंसंति तथैव सममार्ज्जवम् || १-४ || केचिद्दानं प्रशंसन्ति पितृकर्म तथापरे | केचित्कर्म प्रशंसन्ति केचिद्वैराग्यमुत्तमम् || १-५ || केचिद्गृहस्थकर्माणि प्रशंसन्ति विचक्षणाः | अग्निहोत्रादिकं कर्म तथा केचित् परं विदुः || १-६ || मन्त्रयोगं प्रशंसन्ति किचित्तिर्थानुसेवनम् | एवं बहूनुपायांस्तु प्रवदन्ति हि मुक्तये || १-७ || एवं व्यवसिता लोके कृत्याकृत्यविदो जनाः | व्यामोहमेव गच्छंति विमुक्ताः पापकर्मभिः || १-८ || एतन्मतावलम्बी यो लब्ध्वा दुरितपुण्यके | भ्रमतीत्यवशः सोऽत्र जन्ममृत्युपरम्पराम् || १-९ || अन्यैर्मतिमता. श्रेष्ठैर्गुप्तालोकनतत्परैः | आत्मानो बहवः प्रोक्ता नित्याः सर्वगतास्तथा || १-१० || यद्यत्प्रत्यक्षविषयं तदन्यन्नास्ति चक्षते | कुतः स्वर्गादयः सन्तीत्यन्ये निश्चितमानसाः || १-११ || ज्ञानप्रवाह इत्यन्ये शून्यं केचित्परं विदुः | द्वावेव तत्त्वं मन्यन्तेऽपरे प्रकृतिपूरुषौ || १-१२ || अत्यन्तभिन्नमतयः परमार्थपराङ्मुखाः | एवमन्ये तु संचिन्त्य यथामति यथाश्रुतम् || १-१३ || निरीश्वरमिदं प्राहुः सेश्वरञ्च तथापरे | वदन्ति विविधैर्भेदैः सुयुक्त्या स्थितिकातराः || १-१४ || एते चान्ये च मुनयः संज्ञाभेदा पृथग्विधाः | शास्त्रेषु कथिता ह्येते लोकव्यामोहकारकाः || १-१५ || एतद्विवादशीलानां मतं वक्तुं न शक्यते | भ्रमन्त्यस्मिञ्जनाः सर्वे मुक्तिमार्गबहिष्कृताः || १-१६ || आलोक्य सर्वशास्त्राणि विचार्य च पुनः पुनः | इदमेकं सुनिष्पन्नं योगशास्त्रं परं मतम् || १-१७ || यस्मिन् याते सर्वमिदं यातं भवति निश्चितम् | तस्मिन्परिश्रमः कार्यः किमन्यच्छास्त्रभाषितम् || १-१८ || योगशास्त्रमिदं गोप्यमस्माभिः परिभाषितम् | सुभक्ताय प्रदातव्यं त्रैलोक्ये च महात्मने || १-१९ || कर्मकाण्डं ज्ञानकाण्डमिति वेदो द्विधा मतः | भवति द्विविधो भेदो ज्ञानकाण्डस्य कर्मणः || १-२० || द्विविधः कर्मकाण्डः स्यान्निषेधविधिपूर्वकः || १-२१ || निषिद्धकर्मकरणे पापं भवति निश्चितम् | विधिना कर्मकरणे पुण्यं भवति निश्चितम् || १-२२ || त्रिविधो विधिकूटः स्यान्नित्यनैमित्तकाम्यतः | नित्येऽकृते किल्विषं स्यात्काम्ये नैमित्तिके फलम् || १-२३ || द्विविधन्तु फलं ज्ञेयं स्वर्गो नरक एव च | स्वर्गो नानाविधश्चैव नरकोपि तथा भवेत् || १-२४ || पुण्यकर्माणि वै स्वर्गो नरकः पापकर्माणि | कर्मबंधमयी सृष्टिर्नान्यथा भवति ध्रुवम् || १-२५ || जन्तुभिश्चानुभूयंते स्वर्गे नानासुखानि च | नानाविधानि दुःखानि नरके दुःसहानि वै || १-२५ || पापकर्मवशाद्दुखं पुण्यकर्मवशात्सुखम् | तस्मात्सुखार्थी विविधं पुण्यं प्रकुरुते ध्रुवम् || १-२७ || पापभोगावसाने तु पुनर्जन्म भवेत्खलु | पुण्यभोगावसाने तु नान्यथा भवति ध्रुवम् || १-२८ || स्वर्गेऽपि दुःखसंभोगः परश्रीदर्शनादिषु | ततो दुःखमिदं सर्वं भवेन्नास्त्यत्र संशयः || १-२९ || तत्कर्मकल्पकैः प्रोक्तं पुण्यं पापमिति द्विधा | पुण्यपापमयो बन्धो देहिनां भवति क्रमात् || १-३० || इहामुत्र फलद्वेषी सफलं कर्म संत्यजेत् | नित्यनैमित्तिकं संज्ञं त्यक्त्वा योगे प्रवर्तते || १-३१ || कर्मकाण्डस्य माहात्म्यं ज्ञात्वा योगी त्यजेत्सुधीः | पुण्यपापद्वयं त्यक्त्वा ज्ञानकाण्डे प्रवर्तते || १-३२ || आत्मा वाऽरेतु द्रष्टव्यः श्रोतव्येत्यादि यच्छ्रुतिः | सा सेव्या तत्प्रयत्नेन मुक्तिदा हेतुदायिनी || १-३३ || दुरितेषु च पुण्येषु यो धीर्वृत्तिं प्रचोदयात् | सोऽहं प्रवर्तते मत्तो जगत्सर्वं चराचरम् || सर्वं च दृश्यते मत्तः सर्वं च मयि लीयते | न तद्भिन्नोऽहमस्मीह मद्भिन्नो न तु किंचन || १-३४ || जलपूर्णेष्वसंख्येषु शरावेषु यथा भवेत् | एकस्य भात्यसंख्यत्वं तद्वेदोऽत्र न दृश्यते || उपाधिषु शरावेषु या संख्या वर्तते परा | सा संख्या भवति यथा रवौ चात्मनि तत् तथा || १-३५ || यथैकः कल्पकः स्वप्ने नानाविधितयेष्यते | जागरेपि तथाप्येकस्तथैव बहुधा जगत् || १-३६ || सर्पबुद्धिर्यथा रज्जौ शुक्तौ वा रजतभ्रमः | तद्वदेवमिदं विश्वं विवृतं परमात्मनि || १-३७ || रज्जुज्ञानाद्यथा सर्पो मिथ्यारूपो निवर्तते | आत्मज्ञानात् तथा याति मिथ्याभूतमिदं जगत् || १-३८ || रौप्यभ्रान्तिरियं याति शुक्तिज्ञानाद्यथा खलु | जगद्भ्रान्तिरियं याति चात्मज्ञानात् सदा तथा || १-३९ || यथा वंशो रगभ्रान्तिर्भवेद्भेकवसाञ्जनात् | तथा जगदिदं भ्रांतिरभ्यासकल्पनाञ्जनात् || १-४० || आत्मज्ञानाद्यथा नास्ति रज्जुज्ञानाद्भुजङ्गमः | यथा दोषवशाच्छुक्लः पीतो भवति नान्यथा | अज्ञानदोषादात्मापि जगद्भवति दुस्त्यजम् || १-४१ || दोषनाशे यथा शुक्लो गृह्यते रोगिणा स्वयम् | शुक्लज्ञानात्तथाऽज्ञाननाशादात्मा तथा कृतः || १-४२ || कालत्रयेपि न यथा रज्जुः सर्पो भवेदिति | तथात्मा न भवेद्विश्वं गुणातीतो निरञ्जनः || १-४३ || आगमाऽपायिनोऽनित्यानाश्यत्वेनेश्वरादयः | आत्मबोधेन केनापि शास्त्रादेतद्विनिश्चितम् || १-४४ || यथा वातवशात्सिन्धावुत्पन्नाः फेनबुद्बुदाः | तथात्मनि समुद्भूतं संसारं क्षणभंगुरम् || १-४५ || अभेदो भासते नित्यं वस्तुभेदो न भासते | द्विधात्रिधादिभेदोऽयं भ्रमत्वे पर्यवस्यति || १-४६ || यद्भूतं यच्च भाव्यं वै मूर्तामूर्तं तथैव च | सर्वमेव जगदिदं विवृतं परमात्मनि || १-४७ || कल्पकैः कल्पिता विद्या मिथ्या जाता मृषात्मिका | एतन्मूलं जगदिदं कथं सत्यं भविष्यति || १-४८ || चैतन्यात्सर्वमुत्पन्नं जगदेतच्चराचरम् | तस्मात्सर्वं परित्यज्य चैतेन्यं तं समाश्रयेत् || १-४९ || घटस्याभ्य तरे बाह्ये यथाकाशं प्रवर्तते | तथात्माभ्यंतरे बाह्ये कार्यवर्गेषु नित्यशः || १-५० || असंलग्नं यथाकाशं मिथ्याभूतेषु पंचसु | असंलग्नस्तथात्मा तु कार्यवर्गेषु नान्यथा || १-५१ || ईश्वरादिजगत्सर्वमात्मव्याप्यं समन्ततः | एकोऽस्ति सच्चिदानंदः पूर्णो द्वैतविवर्जितः || १-५२ || यस्मात्प्रकाशको नास्ति स्वप्रकाशो भवेत् ततः | स्वप्रकाशो यतस्तस्मादात्मा ज्योतिः स्वरूपकः || १-५३ || अवछिन्नो यतो नास्ति दशकालस्वरूपतः | आत्मनः सर्वथा तस्मादात्मा पूर्णो भवेत्खलु || १-५४ || यस्मान्न विद्यते नाशः पंचभूतैर्वृथात्मकैः | तस्मादात्मा भवेन्नित्यस्तन्नाशो न भवेत्खलु || १-५५ || यस्मात् तदन्यो नास्तीह तस्मादेकोऽस्ति सर्वदा | यस्मात् तदन्यो मिथ्या स्यादात्मा सत्यो भवेत् खलु || १-५६ || अविद्याभुतसंसारे दुःखनाशे सुखं यतः | ज्ञानादाद्यंतशून्यं स्यात् तस्मादात्मा भवेत् सुखम् || १-५७ || यस्मान्नाशितमज्ञानं ज्ञानेन विश्वकारणम् | तस्मादात्मा भवेज्ज्ञानं ज्ञानं तस्मात् सनातनम् || १-५८ || कालतो विविधं विश्वं यदा चैव भवेदिदम् | तदेकोऽस्ति स एवात्मा कल्पनापथवर्जितः || १-५९ || बाह्यानि सर्वभूतानि विनाशं यान्ति कालतः | यतो वाचो निवर्तंते आत्मा द्वैतविवर्जितः || १-६० || न खं वायुर्न चाग्निश्च न जलं पृथिवी न च | नैतत्कार्यं नेश्वरादि पूर्णैकात्मा भवेत्खलु || १-६१ || आत्मानमात्मनो योगी पश्यत्यात्मनि निश्चितम् | सर्वसंकल्पसंन्यासी त्यक्तमिथ्याभवग्रहः || १-६२ || आत्मानात्मनि चात्मान दृष्ट्वानन्त सुखात्म्कम् | विस्मृत्य विश्वं रमते समाधेस्तीव्रतस्तथा || १-६३ || मायैव विश्वजननी नान्या तत्त्वधियापरा | यदा नाशं समायाति विश्वं नास्ति तदा खलु || १-६४ || हेयं सर्वमिदं यस्य मायाविलसितं यतः | ततो न प्रीतिविषयस्तनुवित्तसुखात्मकः || १-६५ || अरिर्मित्रमुदासीनस्त्रिविधं स्यादिदं जगत् | व्यवहारेषु नियतं दृश्यते नान्यथा पुनः || प्रियाप्रियादिभेदस्तु वस्तुषु नियतः स्फुटम् || १-६६ || आत्मोपाधिवशादेवं भवेत् पुत्रादि नान्यथा | मायाविलसितं विश्वं ज्ञात्वैवं श्रुतियुक्तितः || अध्यारोपापवादाभ्यां लयं कुर्वन्ति योगिनः || १-६७ || निखिलोपाधिहीनो वै यदा भवति पुरुषः | तदा विवक्षतेऽखंडज्ञानरूपी निरंजनः || १-६८ || सो कामयतः पुरुषः सृजते च प्रजाः स्वयम् | अविद्या भासते यस्मात् तस्मान्मिथ्या स्वभावतः || १-६९ || शुद्ध ब्रह्मत्व संबद्धो विद्यया सहितो भवेत् | ब्रह्मतेनसती याति यत आभासते नभः || १-७० || तस्मात् प्रकाशते वायुर्वायोरग्निस्ततो जलम् | प्रकाशते ततः पृथ्वी कल्पनेयं स्थिता सति || १-७१ || आकाशाद्वायुराकाशपवनादग्निसंभवः | खवाताग्नेर्जलं व्योमवाताग्निवारितो मही || १-७२ || खं शब्दलक्षणं वायुश्चंचलः स्पर्शलक्षणः | स्याद्रूपलक्षणं तेजः सलिलं रसलक्षणम् || गन्धलक्षणिका पृथ्वी नान्यथा भवति ध्रुवम् || १-७३ || स्यादेकगुणमाकाशं द्विगुणो वायुरुच्यते | तथैव त्रिगुणं तेजो भवन्त्यापश्चतुर्गुणाः || शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च | एतत् पंचगुणा पृथ्वी कल्पकैः कल्प्यतेऽधुना || १-७४ || चक्षुषा गृह्यते रूपं गन्धो घ्राणेन गृह्यते | रसो रसनया स्पर्शस्त्वचा संगृह्यते परम् || १-७५ || श्रोत्रेण गृह्यते शब्दो नियतं भाति नान्यथा || १-७६ || चैतन्यात्सर्वमुत्पन्नं जगदेतच्चराचरम् | अस्ति चेत्कल्पनेय स्यान्नास्ति चेदस्ति चिन्मयम् || १-७७ || पृथ्वी शीर्णा जलं मग्ना जलं मग्नञ्च तेजसि | लीनं वायौ तथा तेजो व्योम्नि वातो लयं ययौ || अविद्यायां महाकाशो लीयते परमे पदे || १-७८ || विक्षेपावरणा शक्तिर्दुरन्तासुखरूपिणी | जडरूपा महामाया रजःसत्त्वतमोगुणा || १-७९ || सा मायावरणाशक्त्यावृताविज्ञानरूपिणी | दर्शयेज्जगदाकारं तं विक्षेपस्वभावतः || १-८० || तमो गुणाधिका विद्या या सा दूर्गा भवेत् स्वयम् | ईश्वरस्तदुपहितं चैतन्यं तदभूद् ध्रुवम् || सत्ताधिका च या विद्या लक्ष्मीः स्याद्दिव्यरूपिणी | चैतन्यं तदुपहितं विष्णुर्भवति नान्यथा || १-८१ || रजोगुणाधिका विद्या ज्ञेया सा वै सरस्वती | यश्चित्स्वरूपो भवति ब्रह्मातदुपधारकः || १-८२ || ईशाद्याः सकला देवा दृश्यन्ते परमात्मनि | शरीरादिजडं सर्वं सा विद्या तत् तथा तथा || १-८३ || एवंरूपेण कल्पन्ते कल्पका विश्वसम्भवम् | तत्त्वातत्त्वं भवंतीह कल्पनान्येन चोदिता || १-८४ || प्रमेयत्वादिरूपेण सर्वं वस्तु प्रकाश्यते | विशेषशब्दोपादाने भेदो भवति नान्यथा || १-८५ || तथैव वस्तुनास्त्येव भासको वर्तकः परः | स्वरूपत्वेन रूपेण स्वरूपं वस्तु भाष्यते || १-८६ || एकः सत्तापूरितानन्दरूपः पूर्णो व्यापी वर्तते नास्ति किञ्चित् | एतज्ज्ञानं यः करोत्येव नित्यं मुक्तः स स्यान्मृत्युसंसारदुःखात् || १-८७ || यस्यारोपापवादाभ्यां यत्र सर्वे लयं गताः | स एको वर्तते नान्यत्तच्चित्तेनावधार्यते || १-८८ || पितुरन्नमयात्कोशाज्जायते पूर्वकर्मणः | तच्छरीरंविर्दुदुःखं स्वप्राग्भोगाय सुन्दरम् || १-८९ || मांसास्थिस्नायुमज्जादिनिर्मितं भोगमन्दिरम् | केवलं दुःखभोगाय नाडी संततिगुल्फितम् || १-९० || पारमेष्ठ्यमिदं गात्रं पंचभूतविनिर्मितम् | ब्रह्माण्डसंज्ञकं दुःखसुखभोगाय कल्पितम् || १-९१ || बिन्दुः शिवो रजः शक्तिरुभयोर्मिलनात्स्वयम् | स्वप्नभूतानि जायन्ते स्वशक्त्या जडरूपया || १-९२ || तत् पञ्चीकरणात् स्थूलान्यसंख्यानि समासतः | ब्रह्मांडस्थानि वस्तूनि यत्र जीवोऽस्ति कर्मभिः || तद्भूतपञ्चकात्सर्वं भोगाय जीवसंज्ञिता || १-९३ || पूर्वकर्मानुरोधेन करोमि घटनामहम् | अजडः सर्वभूतस्था जडस्थित्या भुनक्ति तान् || १-९४ || जडात्स्वकर्मभिर्बद्धो जीवाख्यो विविधो भवेत् | भोगायोत्पद्यते कर्म ब्रह्मांडाख्ये पुनः पुनः || १-९५ || जीवश्च लीयते भोगावसाने च स्वकर्मणः || १-९६ || द्वितीयः पटलः देहेऽस्मिन्वर्तते मेरुः सप्तद्वीपसमन्वितः | सरितः सागराः शैलाः क्षेत्राणि क्षेत्रपालकाः || २-१ || ऋषयो मुनयः सर्वे नक्षत्राणि ग्रहास्तथा | पुण्यतीर्थानि पीठानि वर्तन्ते पीठदेवताः || २-२ || सृष्टिसंहारकर्तारौ भ्रमन्तौ शशिभास्करौ | नभो वायुश्च वह्निश्च जलं पृथ्वी तथैव च || २-३ || त्रैलोक्ये यानि भूतानि तानि सर्वाणि देहतः | मेरुं संवेष्ट्य सर्वत्र व्यवहारः प्रवर्तते || २-४ || जानाति यः सर्वमिदं स योगी नात्र संशयः || २-५ || ब्रह्माण्डसंज्ञके देहे यथादेशं व्यवस्थितः | मेरुशृंगे सुधारश्मिर्बहिरष्टकलायुतः || २-६ || वर्ततेऽहर्निशं सोऽपि सुधां वर्षत्यधोमुखः | ततोऽमृतं द्विधाभूतं याति सूक्ष्मं यथा च वै || २-७ || इडामार्गेण पुष्ट्यर्थं याति मन्दाकिनीजलम् | पुष्णाति सकलं देहमिडामार्गेण निश्चितम् || २-८ || एष पीयूषरश्मिर्हि वामपार्श्वे व्यवस्थितः || अपरः शुद्धदुग्धाभो हठात्कर्षति मण्डलात् | मध्यमार्गेण सृष्ट्यर्थं मेरौ संयाति चन्द्रमाः || २-९ || मेरुमूले स्थितः सूर्यः कलाद्वादशसंयुतः | दक्षिणे पथि रश्मिभिर्वहत्यूर्ध्वं प्रजापतिः || २-१० || पीयूषरश्मिनिर्यासं धातूंश्च ग्रसति ध्रुवम् | समीरमण्डले सूर्यो भ्रमते सर्वविग्रहे || २-११ || एषा सूर्यपरामूर्तिः निर्वाणं दक्षिणे पथि | वहते लग्नयोगेन सृष्टिसंहारकारकः || २-१२ || सार्धलक्षत्रयं नाड्यः सन्ति देहान्तरे नृणाम् | प्रधानभूता नाड्यस्तु तासु मुख्याश्चतुर्दशः || २-१३ || सुषुम्णेडा पिंगला च गांधारी हस्तिजिह्विका | कुहूः सरस्वती पूषा शंखिनी च पयस्वनी || २-१४ || वारुण्यलम्बुसा चैव विश्वोदरी यशस्विनी | एतासु तिस्रो मुख्याः स्युः पिङ्गलेडा सुषुम्णिका || २-१५ || तिस्रष्वेका सुषुम्णैव मुख्या सायोगिवल्लभा | अन्यास्तदाश्रयं कृत्वा नाड्यः सन्ति हि देहिनाम् || २-१६ || नाड्यस्तु ता अधोवक्त्राः पद्मतन्तुनिभाः स्थिताः | पृष्ठवंशं समाश्रित्य सोमसूर्याग्निरूपिणी || २-१७ || तासां मध्ये गता नाडी चित्रा सा मम वल्लभा | ब्रह्मरन्ध्रञ्च तत्रैव सूक्ष्मात्सूक्ष्मतरं शुभम् || २-१८ || पञ्चवर्णोज्ज्वला शुद्धा सुषुम्णा मध्यचारिणी | देहस्योपाधिरूपा सा सुषुम्णा मध्यरूपिणी || २-१९ || दिव्यमार्गमिदं प्रोक्तममृतानन्दकारकम् | ध्यानमात्रेण योगींद्रो दुरितौघं विनाशयेत् || २-२० || गुदात्तुद्व्यंगुलादूर्ध्वं मेढात्तु द्व्यंगुलादधः | चतुरंगगुलविस्तारमाधारं वर्तते समम् || २-२१ || तस्मिन्नाधारपद्मे च कर्णिकायां सुशोभना | त्रिकोणा वर्तते योनिः सर्वतंत्रेषु गोपिता || २-२२ || तत्र विद्युल्लताकारा कुण्डली परदेवता | सार्द्धत्रिकरा कुटिला सुषुम्णा मार्गसंस्थिता || २-२३ || जगत्संसृष्टिरूपा सा निर्माणे सततोद्यता | वाचामवाच्या वाग्देवी सदा देवैर्नमस्कृता || २-२४ || इडानाम्नी तु या नाडी वाममार्गे व्यवस्थिता | सुषुम्णायां समाश्लिष्य दक्षनासापुटे गता || २-२५ || पिङ्गला नाम या नाडी दक्षमार्गे व्यवस्थिता | मध्यनाडीं समाश्लिष्य वामनासापुटे गता || २-२६ || इडापिंगलयोर्मध्ये सुषुम्णा या भवेत्खलु | षट्स्थानेषु च षट्शक्तिं षट्पद्मं योगिनो विदुः || २-२७ || पंचस्थानं सुषुम्णाया नामानि स्युर्बहूनि च | प्रयोजनवशात्तानि ज्ञातव्यानीह शास्त्रतः || २-२८ || अन्या याऽस्त्यपरा नाडी मूलाधारात्समुत्थिता | रसनामेढ्रनयनं पादांगुष्ठे च श्रोत्रकम् || कुक्षिकक्षांगुष्ठकर्णं सर्वांगं पायुकुक्षिकम् | लब्ध्वा तां वै निवर्तन्ते यथा देशसमुद्भवाः || २-२९ || एताभ्य एव नाडीभ्यः शखोपशाखतः क्रमात् | सार्धलक्षत्रयं जातं यथाभागं व्यवस्थितम् || २-३० || एता भोगवहा नाड्यो वायुसञ्चारदक्षकाः | ओतप्रोत्राः सुसंव्याप्य तिष्ठन्त्यस्मिन्कलेवरे || २-३१ || सूर्यमण्डलमध्यस्थः कलाद्वादशसंयुतः | वस्तिदेशे ज्वलद्वह्निर्वर्तते चान्नपाचकः || एष वैश्वानरोग्निर्वै मम तेजोंशसम्भवः | करोति विविधं पाकं प्राणिनां देहमास्थितः || २-३२ || आयुः प्रदायको वह्निर्बलं पुष्टिं ददाति सः | शरीरपाटवञ्चापि ध्वस्तरोगसमुद्भवः || २-३३ || तस्माद्वैश्वानराग्निञ्च प्रज्वाल्य विधिवत्सुधीः | तस्मिन्नन्नं हुनेद्योगी प्रत्यहं गुरुशिक्षया || २-३४ || ब्रह्माण्डसंज्ञके देहे स्थानानि स्युर्बहूनि च | मयोक्तानि प्रधानानि ज्ञातव्यानीह शास्त्रके || २-३५ || नानाप्रकारनामानि स्थानानि विविधानि च | वर्तन्ते विग्रहे तानि कथितुं नैव शक्यते || २-३६ || इत्थं प्रकल्पिते देहे जीवो वसति सर्वगः | अनादिवासनामालाऽलंकृतः कर्मशंखलः || २-३७ || नानाविधगुणोपेतः सर्वव्यापारकारकः | पूर्वार्जितानि कर्माणि भुनक्ति विविधानि च || २-३८ || यद्यत्संदृश्यते लोके सर्वं तत्कर्मसम्भवम् | सर्वा कर्मानुसारेण जन्तुर्भोगान्भुनक्ति वै || २-३९ || ये ये कामादयो दोषाः सुखदुःखप्रदायकाः | ते ते सर्वे प्रवर्तन्ते जीवकर्मानुसारतः || २-४० || पुण्योपरक्तचैतन्ये प्राणान्प्रीणाति केवलम् | बाह्ये पुण्यमयं प्राप्य भोज्यवस्तु स्वयम्भवेत् || २-४१ || ततः कर्मबलात्पुंसः सुखं वा दुःखमेव च | पापोपरक्तचैतन्यं नैव तिष्ठति निश्चितम् || न तद्भिन्नो भवेत्सोऽपि तद्भिन्नो न तु किञ्चन | मायोपहितचैतन्यात्सर्वं वस्तु प्रजायते || २-४२ || यथाकालेपि भोगाय जन्तूनां विविधोद्भवः | यथा दोषवशाच्छुक्तौ रजतारोपणं भवेत् || तथा स्वकर्मदोषाद्वै ब्रह्मण्यारोप्यते जगत् || २-४३ || सवासनाम्रमोत्पन्नोन्मूलनातिसमर्थनम् | उत्पन्नञ्चेदीदृशं स्याज्ज्ञानं मोक्षप्रसाधनम् || २-४४ || साक्षाद्वैशेषदृष्टिस्तु साक्षात्कारिणि विभ्रमे | कारणं नान्यथा युक्त्या सत्यं सत्यं मयोदितम् || २-४५ || साक्षात्कारिभ्रमे साक्षात्साक्षात्कारिणि नाशयेत् | सो हि नास्तीति संसारे भ्रमो नैव निवर्तते || २-४६ || मिथ्याज्ञाननिवृत्तिस्तु विशेषदर्शनाद्भवेत् | अन्यथा न निवृत्तिः स्याद्दृश्यते रजतभ्रमः || २-४७ || यावन्नोत्पद्यते ज्ञानं साक्षात्कारे निरञ्जने | तावत्सर्वाणि भूतानि दृश्यन्ते विविधानि च || २-४८ || यदा कर्मार्जितं देहं निर्वाणे साधनं भवेत् | तदा शरीरवहनं सफलं स्यान्न चान्यथा || २-४९ || यादृशी वासना मूला वर्तते जीवसंगिनी | तादृशं वहते जन्तुः कृत्याकृत्यविधौ भ्रमम् || २-५० || संसारसागरं तर्तुं यदीच्छेद्योगसाधकः | कृत्वा वर्णाश्रमं कर्म फलवर्जं तदाचरेत् || २-५१ || विषयासक्तपुरुषा विषयेषु सुखेप्सवः | वाचाभिरुद्धनिर्वाणा वर्तन्ते पापकर्मणि || २-५२ || आत्मानमात्मना पश्यन्न किञ्चिदिह पश्यति | तदा कर्मपरित्यागे न दोषोऽस्ति मतं मम || २-५३ || कामादयो विलीयन्ते ज्ञानादेव न चान्यथा | अभावे सर्वतत्त्वानां स्वयं तत्त्वं प्रकाशते || २-५४ || तृतीयः पटलः हृद्यस्ति पङ्कजं दिव्यं दिव्यलिङ्गेन भूषितम् | कादिठान्ताक्षरोपेतं द्वादशार्णविभूषितम् || ३-१ || प्राणो वसति तत्रैव वासनाभिरलंकृतः | अनादिकर्मसंश्लिष्टः प्राप्याहङ्कारसंयुतः || ३-२ || प्राणस्य वृत्तिभेदेन नामानि विविधानि च | वर्तन्ते तानि सर्वाणि कथितुं नैव शक्यते || ३-३ || प्राणोऽपानः समानश्चादानो व्यानश्च पञ्चमः | नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः || ३-४ || दश नामानि मुख्यानि मयोक्तानीह शास्त्रके | कुर्वन्ति तेऽत्र कार्याणि प्रेरितानि स्वकर्मभिः || ३-५ || अत्रापि वायवः पञ्च मुख्याः स्युर्दशतः पुनः | तत्रापि श्रेष्ठकर्तारौ प्राणापानौ मयोदितौ || ३-६ || हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले | उदानः कठदेशस्थो व्यानः सर्वशरीरगः || ३-७ || नागादिवायवः पञ्च ते कुर्वन्ति च विग्रहे | उद्गारोन्मीलनं क्षुत्तृड्जृम्भा हिक्का च पञ्चमः || ३-८ || अनेन विधिना यो वै ब्रह्माण्डं वेत्ति विग्रहम् | सर्वपापविनिर्मुक्तः स याति परमां गतिम् || ३-९ || अधुना कथयिष्यामि क्षिप्रं योगस्य सिद्धये | अज्ज्ञात्वा नावसीदन्ति योगिनो योगसाधने || ३-१० || भवेद्वीर्यवती विद्या गुरुवक्त्रसमुद्भवा | अन्यथा फलहीना स्यान्निर्वीर्याप्यतिदुःखदा || ३-११ || गुरुं सन्तोष्य यत्नेन ये वै विद्यामुपासते | अवलम्बेन विद्यायास्तस्याः फलमवाप्नुयात् || ३-१२ || गुरुः पिता गुरुर्माता गुरुर्देवो न संशयः | कर्मणा मनसा वाचा तस्मात्सर्वैः प्रसेव्यते || ३-१३ || गुरुप्रसादतः सर्वं लभ्यते शुभमात्मनः | तस्मात्सेव्यो गुरुर्नित्यमन्यथा न शुभं भवेत् || ३-१४ || प्रदक्षिणत्रयं कृत्वा स्पृष्ट्वा सव्येन पाणिना | अष्टांगेन नमस्कुर्याद् गुरुपादसरोरुहम् || ३-१५ || श्रद्धयात्मवतां पुंसां सिद्धिर्भवति निश्चिता | अन्येषाञ्च न सिद्धिः स्यात्तस्माद्यत्नेन साधयेत् || ३-१६ || न भवेत्संगयुक्तानां तथाऽविश्वासिनामपि | गुरुपूजाविहीनानां तथा च बहुसंगिनाम् || ३-१७ || मिथ्यावादरतानां च तथा निष्ठुरभाषिणाम् | गुरुसन्तोषहीनानां न सिद्धिः स्यात्कदाचन || ३-१७ || फलिष्यतीति विश्वासः सिद्धेः प्रथमलक्षणम् | द्वितीयं श्रद्धया युक्तं तृतीयं गुरुपूजनम् || चतुर्थं समताभावं पञ्चमेन्द्रियनिग्रहम् | षष्ठं च प्रमिताहारं सप्तमं नैव विद्यते || ३-१८ || योगोपदेशं संप्राप्य लब्ध्वा योगविदं गुरुम् | गुरूपदिष्टविधिना धिया निश्चित्य साधयेत् || ३-१९ || सुशोभने मठे योगी पद्मासनसमन्वितः | आसनोपरि संविश्य पवनाभ्यासमाचरेत् || ३-२० || समकायः प्राञ्जलिश्च प्रणम्य च गुरून् सुधीः | दक्षे वामे च विघ्नेशं क्षत्रपालांबिकां पुनः || ३-२१ || ततश्च दक्षांगुष्ठेन निरुद्ध्य पिंगलां सुधीः | इडया पूरयेद्वायुं यथाशक्त्या तु कुम्भयेत् || ततस्त्यक्त्वा पिंगलयाशनैरेव न वेगतः || ३-२२ || पुनः पिंगलयापूर्य यथाशक्त्या तु कुम्भयेत् | इडया रेचयेद्वायुं न वेगेन शनैः शनैः || ३-२३ || इदं योगविधानेन कुर्याद्विंशतिकुम्भकान् | सर्वद्वन्द्वविनिर्मुक्तः प्रत्यहं विगतालसः || ३-२४ || प्रातःकाले च मध्याह्ने सूर्यास्ते चार्द्धरात्रके | कुर्यादेवं चतुर्वारं कालेष्वेतेषु कुम्भकान् || ३-२५ || इत्थं मासत्रयं कुर्यादनालस्यो दिने दिने | ततो नाडीविशुद्धिः स्यादविलम्बेन निश्चितम् || ३-२६ || यदा तु नाडीशुद्धिः स्याद्योगिनस्तत्त्वदर्शिनः | तदा विध्वस्तदोषश्च भवेदारम्भसम्भवः || ३-२७ || चिह्नानि योगिनो देहे दृश्यन्ते नाडिशुद्धितः | कथ्यन्ते तु समस्तान्यङ्गानि संक्षेपतो मया || ३-२८ || समकायः सुगन्धिश्च सुकान्तिः स्वरसाधकः | आरम्भघटकश्चैव यथा परिचयस्तदा || निष्पत्तिः सर्वयोगेषु योगावस्था भवन्ति ताः || ३-२९ || आरम्भः कथितोऽस्माभिरधुना वायुसिद्धये | अपरः कथ्यते पश्चात् सर्वदुःखौघनाशनः || ३-३० || प्रौढवह्निः सुभोगी च सुखीसर्वाङ्गसुन्दरः | संपूर्णहृदयो योगी सर्वोत्साहबलान्वितः || जायते योगिनोऽवश्यमेतत्सर्वं कलेवरे || ३-३१ || अथ वर्ज्यं प्रवक्ष्यामि योगविघ्नकरं परम् | येन संसारदुःखाब्धिं तीर्त्वा यास्यन्ति योगिन || ३-३२ || आम्लं कक्षं तथा तीक्ष्णं लवणं सार्षपं कटुम् | बहुलं भ्रमणं प्रातः स्नानं तैलविदाहकम् || स्तेयं हिंसां जनद्वेषञ्चाहङ्कारमनार्जवम् | उपवासमसत्यञ्च मोक्षञ्च प्राणिपीडनम् || स्त्रीसङ्गमग्निसेवां च बह्वालापं प्रियाप्रियम् | अतीव भोजनं योगी त्यजेदेतानि निश्चितम् || ३-३३ || उपायं च प्रवक्ष्यामि क्षिप्रं योगस्य सिद्धये | गोपनीयं साधकानां येन सिद्धिर्भवेत्खलु || ३-३४ || घृतं क्षीरं च मिष्टान्नं ताम्बूलं चूर्णवर्जितम् | कर्पूरं निष्तुषं मिष्टं सुमठं सूक्ष्मरन्ध्रकम् || सिद्धान्तश्रवणं नित्यं वैराग्यगृहसेवनम् | नामसङ्कीर्तनं विष्णोः सुनादश्रवणं परम् || धृतिः क्षमा तपः शौचं ह्रीर्मतिर्गुरुसेवनम् | सदैतानि परं योगी नियमानि समाचरेत् || ३-३५ || अनिलेऽर्कप्रवेशे च भोक्तव्यं योगिभिः सदा | वायौ प्रविष्टे शशिनि शयनं साधकोत्तमैः || ३-३६ || सद्यो भुक्तेऽपि क्षुधिते नाभ्यासः क्रियत बुधैः | अभ्यासकाले प्रथमं कुर्यात्क्षीराज्यभोजनम् || ३-३७ || ततोऽभ्यासे स्थिरीभूते न तादृङ्नियमग्रहः | अभ्यासिना विभोक्तव्यं स्तोकं स्तोकमनेकधा || पूर्वोक्तकाले कुर्यात्तु कुम्भकान्प्रतिवासरे || ३-३८ || ततो यथेष्टा शक्तिः स्याद्योगिनो वायुधारणे | यथेष्टं धारणाद्वायोः कुम्भकः सिध्यति ध्रुवम् || केवले कुम्भके सिद्धे किं न स्यादिह योगिनः || ३-३९ || स्वेदः संजायते देहे योगिनः प्रथमोद्यमे | यदा संजायते स्वेदो मर्दनं कारयेत्सुधीः || अन्यथा विग्रहे धातुर्नष्टो भवति योगिनः || ३-४० || द्वितीये हि भवेत्कम्पो दार्दुरी मध्यमे मता | ततोऽधिकतराभ्यासाद्गगनेचरसाधकः || ३-४१ || योगी पद्मासनस्थोऽपि भुवमुत्सृज्य वर्तते | वायुसिद्धिस्तदा ज्ञेया संसारध्वान्तनाशिनी || ३-४२ || तावत्कालं प्रकुर्वीत योगोक्तनियमग्रहम् | अल्पनिद्रा पुरीषं च स्तोकं मूत्रं च जायते || ३-४३ || अरोगित्वमदीनत्वं योगिनस्तत्त्वदर्शिनः | स्वेदो लाला कृमिश्चैव सर्वथैव न जायते || ३-४४ || कफपित्तानिलाश्चैव साधकस्य कलेवरे | तस्मिन्काले साधकस्य भोज्येष्वनियमग्रहः || ३-४५ || अत्यल्पं बहुधा भुक्त्वा योगी न व्यथते हि सः | अथाभ्यासवशाद्योगी भूचरीं सिद्धिमाप्नुयात् || यथा दर्दुरजन्तूनां गतिः स्यात्पाणिताडनात् || ३-४६ || सन्त्यत्र बहवो विघ्ना दारुणा दुर्निवारणाः | तथापि साधयेद्योगी प्राणैः कंथगतैरपि || ३-४७ || ततो रहस्युपाविष्टः साधकः संयतेन्द्रियः | प्रणवं प्रजपेद्दीर्घं विघ्नानां नाशहेतवे || ३-४८ || पूर्वार्जितानि कर्माणि प्राणायामेन निश्चितम् | नाशयेत्साधको धीमानिहलोकोद्भवानि च || ३-४९ || पूर्वाजितानि पापानि पुण्यानि विविधानि च | नाशयेत्षोडशप्राणायामेन योगि पुंगवः || ३-५० || पापतूलचयानाहोप्रदहेत्प्रलयाग्निना | ततः पापविनिर्मुक्तः पश्चात्पुण्यानि नाशयेत् || ३-५१ || प्राणायामेन योगीन्द्रो लब्ध्वैश्वर्याष्टकानि वै | पापपुण्योदधिं तीर्त्वा त्रैलोक्यचरतामियात् || ३-५२ || ततोऽभ्यासक्रमेणैव घटिकात्रितयं भवेत् | येन स्यात्सकलासिद्धिर्योगिनः स्वेप्सिता ध्रुवम् || ३-५३ || वाक्सिधिः कामचारित्वं दूरदृष्टिस्तथैव च | दूरश्रुतिः सूक्ष्मदृष्टिः परकायप्रवेशनम् || विण्मूत्रलेपने स्वर्णमदृश्यकरणं तथा | भवन्त्येतानि सर्वाणि खेचरत्वं च योगिनाम् || ३-५४ || यदा भवेद्धटावस्था पवनाभ्यासने परा | तदा संसारचक्रेऽस्मिन्नास्ति यन्न सधारयेत् || ३-५५ || प्राणापाननादबिंदुजीवात्मपरमात्मनः | मिलित्वा घटते यस्मात्तस्माद्वै घट उच्यते || ३-५६ || याममात्रं यदा धर्तुं समर्थः स्यात्तदाद्भुतः | प्रत्याहारस्तदैव स्यान्नांतरा भवति ध्रुवम् || ३-५७ || यं यं जानाति योगीन्द्रस्तं तमात्मेति भावयेत् | यैरिन्द्रियैर्यद्विधानस्तदिन्द्रियजयो भवेत् || ३-५८ || याममात्रं यदा पूर्णं भवेदभ्यासयोगतः | एकवारं प्रकुर्तीत तदा योगी च कुम्भकम् || दण्डाष्टकं यदा वायुर्निश्चलो योगिनो भवेत् | स्वसामर्थ्यात्तदांगुष्ठे तिष्ठेद्वातुलवत्सुधीः || ३-५९ || ततः परिचयावस्था योगिनोऽभ्यासतो भवेत् | यदा वायुश्चंद्रसूर्यं त्यक्त्वा तिष्ठति निश्चलम् || वायुः परिचितो वायुः सुषुम्ना व्योम्नि संचरेत् || ३-६० || क्रियाशक्तिं गृहीत्वैव चक्रान्भित्त्वा सुनिश्चितम् | यदा परिचयावस्था भवेदभ्यासयोगतः || त्रिकूटं कर्मणां योगी तदा पश्यति निश्चितम् || ३-६१ || ततश्च कर्मकूटानि प्रणवेन विनाशयेत् | स योगी कर्मभोगाय कायव्यूहं समाचरेत् || ३-६२ || अस्मिन्काले महायोगी पंचधा धारणं चरेत् | येन भूरादिसिद्धिः स्यात्ततो भूतभयापहा || ३-६३ || आधारे घटिकाः पंच लिंगस्थाने तथैव च | तदूर्ध्वं घटिकाः पञ्च नाभिहृन्मध्यके तथा || भ्रूमध्योर्ध्वं तथा पंच घटिका धारयेत्सुधीः | तथा भूरादिना नष्टो योगीन्द्रो न भवेत्खलु || ३-६४ || मेधावी सर्वभूतानां धारणां यः समभ्यसेत् | शतब्रह्ममृतेनापि मृत्युस्तस्य न विद्यते || ३-६५ || ततोऽभ्यासक्रमेणैव निष्पत्तिर्योगिनो भवेत् | अनादिकर्मबीजानि येन तीर्त्वाऽमृतं पिबेत् || ३-६६ || यदा निष्पत्तिर्भवति समाधेः स्वेनकर्मणा | जीवन्मुक्तस्य शांतस्य भवेद्धीरस्य योगिनः || यदा निष्पत्तिसंपन्नः समाधिः स्वेच्छया भवेत् | गृहीत्वा चेतनां वायुः क्रियाशक्तिं च वेगवान् || सर्वांश्चक्रान्विजित्वा च ज्ञानशक्तौ विलीयते || ३-६७ || इदानीं क्लेशहान्यर्थं वक्तव्यं वायुसाधनम् | येन संसारचक्रेस्मिन् भोगहानिर्भवेद्ध्रुवम् || ३-६८ || रसनां तालुमूले यः स्थापयित्वा विचक्षणः | पिबेत्प्राणानिलं तस्य योगानां संक्षयो भवेत् || ३-६९ || काकचंच्वा पिबेद्वायुं शीतलं यो विचक्षणः | प्राणापानविधानज्ञः स भवेन्मुक्तिभाजनः || ३-७० || सरसं यः पिबेद्वायुं प्रत्यहं विधिना सुधीः | नश्यंति योगिनस्तस्य श्रमदाहजरामयाः || ३-७१ || रसनामूर्ध्वगां कृत्वा यश्चन्द्रे सलिलं पिबेत् | मासमात्रेण योगीन्द्रो मृत्युंजयति निश्चितम् || ३-७२ || राजदंतबिलं गाढं संपीड्य विधिना पिबेत् | ध्यात्वा कुण्डलिनीं देवीं षण्मासेन कविर्भवेत् || ३-७३ || काकचंच्वा पिबेद्वायुं सन्ध्ययोरुभयोरपि | कुण्डलिन्या मुखे ध्यात्वा क्षयरोगस्य शान्तये || ३-७४ || अहर्निशं पिबेद्योगी काकचंच्वा विचक्षणः | पिबेत्प्राणानिलं तस्य रोगाणां संक्षयो भवेत् || दूरश्रुतिर्दूरदृष्टिस्तथा स्याद्दर्शनं खलु || ३-७५ || दन्तैर्दन्तान्समापीड्य पिबेद्वायुं शनैः शनैः | ऊर्ध्वजिह्वः सुमेधावी मृत्युं जयति सोचिरात् || ३-७६ || षण्मासमात्रमभ्यासं यः करोति दिने दिने | सर्वपापविनिर्मुक्तो रोगान्नाशयते हि सः || ३-७७ || संवत्सरकृताऽभ्यासाद्भैरवो भवति ध्रुवम् | अणिमादिगुणा/ल्लब्ध्वा जितभूतगणः स्वयम् || ३-७८ || रसनामूर्ध्वगां कृत्वा क्षणार्धं यदि तिष्ठति | क्षणेन मुच्यते योगी व्याधिमृत्युजरादिभिः || ३-७९ || रसनां प्राणसंयुक्तां पीड्यमानां विचिंतयेत् | न तस्य जायते मृत्युः सत्यं सत्यं मयोदितम् || ३-८० || एवमभ्यासयोगेन कामदेवो द्वितीयकः | न क्षुधा न तृषा निद्रा नैव मूर्च्छा प्रजायते || ३-८१ || अनेनैव विधानेन योगीन्द्रोऽवनिमण्डले | भवेत्स्वच्छन्दचारी च सर्वापत्परिवर्जितः || ३-८२ || न तस्य पुनरावृत्तिर्मोदते ससुरैरपि | पुण्यपापैर्न लिप्येत एतदाक्षरणेन सः || ३-८३ || चतुरशीत्यासनानि सन्ति नानाविधानि च | तेभ्यश्चतुष्कमादाय मयोक्तानि ब्रवीम्यहम् || सिद्धासनं ततः पद्मासनञ्चोग्रं च स्वस्तिकम् || ३-८४ || योनिं संपीड्य यत्नेन पादमूलेन साधकः | मेढोपरि पादमूलं विन्यसेद्योगवित्सदा || ऊर्ध्वं निरीक्ष्य भ्रूमध्यं निश्चलः संयतेन्द्रियः | विशेषोऽवक्रकायश्च रहस्युद्वेगवर्जितः || एतत् सिद्धासनं ज्ञेयं सिद्धानां सिद्धिदायकम् || ३-८५ || येनाभ्यासवशाच्छीघ्रं योगनिष्पत्तिमाप्नुयात् | सिद्धासनं सदा सेव्यं पवनाभ्यासिना परम् || ३-८६ || येन संसारमुत्सृज्य लभते परमां गतिम् | नातः परतरं गुह्यमासनं विद्यते भुवि || येनानुध्यानमात्रेण योगी पापाद्विमुच्यते || ३-८७ || उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः | ऊरुमध्ये तथोत्तानौ पाणी कृत्वा तु तादृशौ || नासाग्रे विन्यसेद्दृष्टिं दन्तमूलञ्च जिह्वया | उत्तोल्य चिबुकं वक्ष उत्थाप्य पवनं शनैः || यथाशक्त्या समाकृष्य पूरयेदुदरं शनैः | यथा शक्त्यैव पश्चात्तु रेचयेदविरोधतः || इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् || ३-८८ || दुर्लभं येन केनापि धीमता लभ्यते परम् || ३-८९ || अनुष्ठाने कृते प्राणः समश्चलति तत्क्षणात् | भवेदभ्यासने सम्यक्साधकस्य न संशयः || ३-९० || पद्मासने स्थितो योगी प्राणापानविधानतः | पूरयेत्स विमुक्तः स्यात्सत्यं सत्यं वदाम्यहम् || ३-९१ || प्रसार्य चरणद्वन्द्वं परस्परमसंयुतम् | स्वपाणिभ्यां दृढं धृत्वा जानूपरि शिरो न्यसेत् || आसनोग्रमिदं प्रोक्तं भवेदनिलदीपनम् | देहावसानहरणं पश्चिमोत्तानसंज्ञकम् || य एतदासनं श्रेष्ठं प्रत्यहं साधयेत्सुधीः | वायुः पश्चिममार्गेण तस्य सञ्चरति ध्रुवम् || ३-९२ || एतदभ्यासशीलानां सर्वसिद्धिः प्रजायते | तस्माद्योगी प्रयत्नेन साधयेत्सिद्धमात्मनः || ३-९३ || गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् | येन शीघ्रं मरुत्सिद्धिर्भवेद् दुःखौघनाशिनी || ३-९४ || जानूर्वोरन्तरे सम्यग्धृत्वा पादतले उभे | समकायः सुखासीनः स्वस्तिकं तत्प्रचक्षते || ३-९५ || अनेन विधिना योगी मारुतं साधयेत्सुधीः | देहे न क्रमते व्याधिस्तस्य वायुश्च सिद्ध्यति || ३-९६ || सुखासनमिदं प्रोक्तं सर्वदुःखप्रणाशनम् | स्वस्तिकं योगिभिर्गोप्यं स्वस्तीकरणमुत्तमम् || ३-९७ || चतुर्थः पटलः आदौ पूरक योगेन स्वाधारे पूरयेन्मनः | गुदमेढ्रन्तरे योनिस्तामाकुंच्य प्रवर्तते || ४-१ || ब्रह्मयोनिगतं ध्यात्वा कामं कन्दुकसन्निभम् | सूर्यकोटि प्रतीकाशं चन्द्रकोटिसुशीतलम् || तस्योर्ध्वं तु शिखासूक्ष्मा चिद्रूपा परमाकला | तया सहितमात्मानमेकीभूतं विचिन्तयेत् || ४-२ || गच्छति ब्रह्ममार्गेण लिंगत्रयक्रमेण वै | अमृतं तद्धि स्वर्गस्थं परमानन्दलक्षणम् || श्वेतरक्तं तेजसाढ्यं सुधाधाराप्रवर्षिणम् | पीत्वा कुलामृतं दिव्यं पुनरेव विशेत्कुलम् || ४-३ || पुनरेव कुलं गच्छेन्मात्रायोगेन नान्यथा | सा च प्राणसमाख्याता ह्यस्मिंस्तन्त्रे मयोदिता || ४-४ || पुनः प्रलीयते तस्यां कालाग्न्यादिशिवात्मकम् | योनिमुद्रा परा ह्येषा बन्धस्तस्याः प्रकीर्तितः | तस्यास्तु बन्धामत्रेण तन्नास्ति यन्न साधयेत् || ४-५ || छिन्नरूपास्तु ये मन्त्राः कीलिताः स्तंभिताश्च ये | दग्धामन्त्राः शिखाहीना मलिनास्तु तिरस्कृताः || मन्दा बालास्तथा वृद्धाः प्रौढा यौवनगर्विताः | अरिपक्षे स्थिता ये च निर्वीर्याः सत्त्ववर्जिताः | तथा सत्त्वेन हीनाश्च खण्डिताः शतधाकृताः || विधानेन च संयुक्ताः प्रभवन्त्यचिरेण तु | सिद्धिमोक्षप्रदाः सर्वे गुरुणा विनियोजिताः || दीक्षयित्वा विधानेन अभिषिच्य सहस्रधा | ततो मंत्राधिकारार्थमेषा मुद्रा प्रकीर्तिता || ४-६ || ब्रह्महत्यासहस्राणि त्रैलोक्यमपि घातयेत् | नासौ लिप्यति पापेन योनिमुद्रानिबन्धनात् || ४-७ || गुरुहा च सुरापी च स्तेयी च गुरुतल्पगः | एतैः पापैर्न बध्येत योनिमुद्रानिबन्धनात् || ४-८ || तस्मादभ्यासनं नित्यं कर्तव्यं मोक्षकांक्षिभिः | अभ्यासाज्जाय ते सिद्धिरभ्यासान्मोक्षमाप्नुयात् || ४-९ || संविदं लभतेऽभ्यासाद्योगोभ्यासात्प्रवर्तते | मुद्राणां सिद्धिरभ्यासादभ्यासाद्वायुसाधनम् || कालवञ्चनमभ्यासात्तथा मृत्युञ्जयो भवेत् || ४-१० || वाक्सिद्धिः कामचारित्वं भवेद्भ्यासयोगतः || योनिमुद्रा परं गोप्या न देया यस्य कस्यचित् | सर्वथा नैव दातव्या प्राणैः कण्ठगतैरपि || ४-११ || अधुना कथयिष्यामि योगसिद्धिकरं परम् | गोपनीयं सुसिद्धानां योगं परमदुर्लभम् || ४-१२ || सुप्ता गुरुप्रसादेन यदा जागर्ति कुण्डली | तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोपि च || ४-१३ || तस्मात्सर्वप्रयत्नेन प्रबोधयितुमीश्वरीम् | ब्रह्मरन्ध्रमुखे सुप्तां मुद्राभ्यासं समाचरेत् || ४-१४ || महामुद्रा महाबन्धो महावेधश्च खेचरी | जालंधरो मूलबंधो विपरीतकृतिस्तथा || उड्डानं चैव वज्रोणी दशमे शक्तिचालनम् | इदं हि मुद्रादशकं मुद्राणामुत्तमोत्तमम् || ४-१५ || अथ महामुद्राकथनम् | महामुद्रां प्रवक्ष्यामि तन्त्रेऽस्मिन्मम वल्लभे | यां प्राप्य सिद्धाः सिद्धिं च कपिलाद्याः पुरागताः || ४-१६ || अपसव्येन संपीड्य पादमूलेन सादरम् | गुरूपदेशतो योनिं गुदमेड्रान्तरालगाम् || सव्यं प्रसारितं पादं धृत्वा पाणियुगेन वै | नवद्वाराणि संयम्य चिबुकं हृदयोपरि || चित्तं चित्तपथे दत्त्वा प्रभवेद्वायुसाधनम् | महामुद्राभवेदेषा सर्वतन्त्रेषु गोपिता || वामाङ्गेन समभ्यस्य दक्षाङ्गेनाभ्यसेत् पुनः | प्राणायामं समं कृत्वा योगी नियतमानसः || ४-१७ || अनेन विधिना योगी मन्दभाग्योपि सिध्यति | सर्वासामेव नाडीनां चालनं बिन्दुमारणम् || जीवनन्तु कषायस्य पातकानां विनाशनम् | सवरोगोपशमनं जठराग्निविवर्धनम् || वपुषा कान्तिममलां जरामृत्युविनाशनम् | वांछितार्थफलं सौख्यमिन्द्रियाणाञ्च मारणम् || एतदुक्तानि सर्वाणि योगारूढस्य योगिनः | भवेदभ्यासतोऽवश्यं नात्र कार्या विचारणा || ४-१८ || गोपनीया प्रयत्नेन मुद्रेयं सुरपूजिते | यां तु प्राप्य भवाम्भोधेः पारं गच्छन्ति योगिनः || ४-१९ || मुद्रा कामदुघा ह्येषा साधकानां मयोदिता | गुप्ताचारेण कर्तव्या न देया यस्य कस्यचित् || ४-२० || अथ महाबन्धकथनम् | ततः प्रसारितः पादो विन्यस्य तमुरूपरि | गुदयोनिं समाकुंच्य कृत्वा चापानमूर्ध्वगम् | योजयित्वा समानेन कृत्वा प्राणमधोमुखम् || बन्धयेदूर्ध्वगत्यर्थं प्राणापानेन यः सुधीः | कथितोऽयं महाबन्धः सिद्धिमार्गप्रदायकः | नाडीजालाद्रसव्यूहो मूर्धानं याति योगिनः || उभाभ्यां साधयेत् पद्भ्यामेकै सुप्रयत्नतः || ४-२१ || भवेदभ्यासतो वायुः सुषुम्नां मध्यसङ्गतः | अनेन वपुषः पुष्टिर्दृढबन्धोऽस्थिपंजरे || संपूर्णहृदयो योगी भवत्न्येतानि योगिनः | बन्धेनानेन योगीन्द्रः साधयेत्सर्वमीप्सितम् || ४-२२ || अथ महावेधकथनम् | अपानप्राणयोरैक्यं कृत्वा त्रिभुवनेश्वरि | महावेधस्थितो योगी कुक्षिमापूर्य वायुना | स्फिचौ संताडयेद्धीमान्वेधोऽयं कीर्तितो मया || ४-२३ || वेधेनानेन संविध्य वायुना योगिपुंगवः | ग्रंथिं सुषुम्णामार्गेण ब्रह्मग्रंथिं भिनत्त्यसौ || ४-२४ || यः करोति सदाभ्यासं महावेधं सुगोपितम् | वायुसिद्धिर्भवेत्तस्य जरामरणनाशिनी || ४-२५ || चक्रमधे स्थिता देवाः कम्पन्ति वायुताडनात् | कुण्डल्यपि महामाया कैलासे सा विलीयते || ४-२६ || महामुद्रामहाबन्धौ निष्फलौ वेधवर्जितौ | तस्माद्योगी प्रयत्नेन करोति त्रितयं क्रमात् || ४-२७ || एतत् त्रयं प्रयत्नेन चतुर्वारं करोति यः | षण्मासाभ्यन्तरं मृत्युं जयत्येव न संशयः || ४-२८ || एतत् त्रयस्य माहात्म्यं सिद्धो जानाति नेतरः | यज्ज्ञात्वा साधकाः सर्वे सिद्धिं सम्यग्लभन्ति वै || ४-२९ || गोपनीया प्रयत्नेन साधकैः सिद्धिमीप्सुभिः | अन्यथा च न सिद्धिः स्यान्मुद्राणामेष निश्चयः || ४-३० || अथ खेचरीमुद्राकथनम् | भ्रुवोरन्तर्गतां दृष्टिं विधाय सुदृढां सुधीः | उपविश्यासने वज्रे नानोपद्रववर्जितः || लम्बिकोर्ध्वं स्थिते गर्ते रसनां विपरीतगाम् | संयोजयेत्प्रयत्नेन सुधाकूपे विचक्षणः | मुद्रैषा खेचरी प्रोक्ता भक्तानामनुरोधतः || ४-३१ || सिद्धीनां जननी ह्येषा मम प्राणाधिकप्रिया | निरन्तरकृताभ्यासात्पीयूषं प्रत्यहं पिबेत् || तेन विग्रहसिद्धिः स्यान्मृत्युमातङ्गकेसरी || ४-३२ || अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपिवा | खेचरी यस्य शुद्धा तु स शुद्धो नात्र संशयः || ४-३३ || क्षणार्धं कुरुते यस्तु तीर्त्वा पापमहार्णवम् | दिव्यभोगान्प्रभुक्त्वा च सत्कुले स प्रजायते || ४-३४ || मुद्रैषा खेचरी यस्तु स्वस्थचित्तो ह्यतन्द्रितः | शतब्रह्मगतेनापि क्षणार्धं मन्यते हि सः || ४-३५ || गुरूपदेशतो मुद्रां यो वेत्ति खेचरीमिमाम् | नानापापरतो धीमान् स याति परमां गतिम् || ४-३६ || सा प्राणसदृशी मुद्रा यस्मिन्कस्मिन्न दीयते | प्रच्छाद्यते प्रयत्नेन मुद्रेयं सुरपूजिते || ४-३७ || अथ जालन्धरबन्ध | बद्धागलशिराजालं हृदये चिबुकं न्यसेत् | बन्धोजालन्धरः प्रोक्तो देवानामपि दुर्लभः || नाभिस्थवह्निर्जन्तूनां सहस्रकमलच्युतम् | पिबेत्पीयूषविस्तारं तदर्थं बन्धयेदिमम् || ४-३८ || बन्धेनानेन पीयूषं स्वयं पिबति बुद्धिमान् | अमरत्वञ्च सम्प्राप्य मोदते भुवनत्रये || ४-३९ || जालन्धरो बन्ध एष सिद्धानां सिद्धिदायकः | अभ्यासः क्रियते नित्यं योगिना सिद्धिमिच्छता || ४-४० || अथ मूलबन्धः | पादमूलेन संपीड्य गुदमार्गं सुयन्त्रितम् | बलादपानमाकृष्य क्रमादूर्ध्वं सुचारयेत् | कल्पितोऽयं मूलबन्धो जरामरणनाशनः || ४-४१ || अपानप्राणयोरैक्यं प्रकरोत्यधिकल्पितम् | बन्धेनानेन सुतरा योनिमुद्रा प्रसिद्ध्यति || ४-४२ || सिद्धायां योनिमुद्रायां किं न सिद्ध्यति भूतले | बन्धस्यास्य प्रसादेन गगने विजितालसः || पद्मासने स्थितो योगी भुवमुत्सृज्य वर्तते || ४-४३ || सुगुप्ते निर्जने देशे बन्धमेनं समभ्यसेत् | संसारसागरं तर्तुं यदीच्छेद्योगि पुंगवः || ४-४४ || अथ विपरीतकरणी मुद्रा | भूतले स्वशिरोदत्त्वा खे नयेच्चरणद्वयम् | विपरीतकृतिश्चैषा सर्वतन्त्रेषु गोपिता || ४-४५ || एतद्यः कुरुते नित्यमभ्यासं याममात्रतः | मृत्युं जयति स योगी प्रलये नापि सीदति || ४-४६ || कुरुतेऽमृतपानं यः सिद्धानां समतामियात् | स सेव्यः सर्वलोकानां बन्धमेनं करोति यः || ४-४७ || नाभेरूर्ध्वमधश्चापि तानं पश्चिममाचरेत् | उड्ड्यानबंध एष स्यात्सर्वदुःखौघनाशनः || उदरे पश्चिमं तानं नाभेरूर्ध्वं तु कारयेत् | उड्यानाख्योऽत्र बन्धोयं मृत्युमातङ्गकेसरी || ४-४८ || नित्यं यः कुरुते योगी चतुर्वारं दिने दिने | तस्य नाभेस्तु शुद्धिः स्याद्येन सिद्धो भवेन्मरुत् || ४-४९ || षण्मासमभ्यसन्योगी मृत्युं जयति निश्चितम् | तस्योदराग्निर्ज्वलति रसवृद्धिः प्रजायते || ४-५० || अनेन सुतरां सिद्धिर्विग्रहस्य प्रजायते | रोगाणां संक्षयश्चापि योगिनो भवति ध्रुवम् || ४-५१ || गुरोर्लब्ध्वा प्रयत्नेन साधयेत् तु विचक्षणः | निर्जने सुस्थिते देशे बन्धं परम दुर्लभम् || ४-५२ || अथ शक्तिचालनमुद्रा | आधारकमले सुप्तां चालयेत्कुण्डलीं दृढाम् | अपानवायुमारुह्य बलादाकृष्य बुद्धिमान् | शक्तिचालनमुद्रेयं सर्वशक्तिप्रदायिनी || ४-५३ || शक्तिचालनमेवं हि प्रत्यहं यः समाचरेत् | आयुर्वृद्धिर्भवेत्तस्य रोगाणां च विनाशनम् || ४-५४ || विहाय निद्रा भुजगी स्वयमूर्ध्वे भवेत्खलु | तस्मादभ्यासनं कार्यं योगिना सिद्धमिच्छता || ४-५५ || यः करोति सदाभ्यासं शक्तिचालनमुत्तमम् | येन विग्रहसिद्धिः स्यादणिमादिगुणप्रदा | गुरूपदेशविधिना तस्य मृत्युभयं कुतः || ४-५६ || मुहूर्तद्वयपर्यन्तं विधिना शक्तिचालनम् | यः करोति प्रयत्नेन तस्य सिद्धिरदूरतः | युक्तासनेन कर्तव्यं योगिभिः शक्तिचालनम् || ४-५७ || एतत्तुमुद्रादशकं न भूतं न भविष्यति | एकैकाभ्यासने सिद्धिः सिद्धो भवति नान्यथा || ४-५८ || इति श्रीशिवसंहितायां हरगौरीसंवादे मुद्राकथनं नाम चतुर्थपटलः समाप्तः || ४ || अथ पञ्चमः पटलः श्रीदेव्युवाच || ब्रूहि मे वाक्यमीशान परमार्थधियं प्रति | ये विघ्नाः सन्ति लोकानां वद मे प्रिय शङ्कर || ५-१ || ईश्वर उवाच || शृणु देवि प्रवक्ष्यामि यथा विघ्नाः स्थिताः सदा | मुक्तिं प्रति नराणाञ्च भोगः परमबन्धनः || ५-२ || अथ भोगरूपयोगविघ्नकथनम् | नारी शययासनं वस्त्रं धनमस्य विडम्बनम् | ताम्बूलंभक्ष्ययानानि राज्यैश्वर्यविभूतयः | हैमं रौप्यं तथा ताम्रं रत्नञ्चागुरुधेनवः | पाण्डित्यं वेदशास्त्राणि नृत्यं गीतं विभूषणम् | वंशी वीणा मृदङ्गाश्च गजेंद्रश्चाश्ववाहनम् | दारापत्यानि विषया विघ्ना एते प्रकीर्तिताः | भोगरूपा इमे विघ्ना धर्मरूपानिमाञ्छृणु || ५-३ || अथ धर्मरूपयोगविघ्नकथनम् | स्नानं पूजाविधिर्होमं तथा मोक्षमयी स्थितिः | व्रतोपवासनियममौनमिन्द्रियनिग्रहः | ध्येयो ध्यानं तथा मन्त्रो दानं ख्यातिर्दिशासु च | वापीकूपतडागादिप्रासादारामकल्पना | यज्ञं चान्द्रायणं कृच्छ्रं तीर्थानि विविधानि च | दृश्यन्ते च इमे विघ्ना धर्मरूपेण संस्थिताः || ५-४ || अथ ज्ञानरूपविघ्नकथनम् | यत्तु विघ्नं भवेज्ज्ञानं कथयामि वरानने | गोमुखं स्वासनं कृत्वा धौतिप्रक्षालनं च तत् | नाडीसञ्चारविज्ञानं प्रत्याहारनिरोधनम् | कुक्षिसंचालनं क्षिप्रं प्रवेश इन्द्रियाध्वना | नाडीकर्माणि कल्याणि भोजनं श्रयतां मम || ५-५ || नवधातुरसं छिन्धि शुण्ठिकास्ताडयेत्पुनः | एककालं समाधिः स्याल्लिंगभूतमिदं शृणु || ५-६ || सङ्गमं गच्छ साधूनां संकोचं भज दुर्जनात् | प्रवेशनिर्गमे वायोर्गुरुलक्षं विलोकयेत् || ५-७ || पिण्डस्थं रूपसंस्थञ्च रूपस्थं रूपवर्जितम् | ब्रह्मैतस्मिन्मतावस्था हृदयञ्च प्रशाम्यति | इत्येते कथिता विघ्ना ज्ञानरूपे व्यवस्थिताः || ५-८ || अथ चतुर्विधयोगकथनम् | मन्त्रयोगो हठश्चैव लययोगस्तृतीयकः | चतुर्थो राजयोगः स्यात्स द्विधाभाववर्जितः || ५-९ || चतुर्धा साधको ज्ञेयो मृदुमध्याधिमात्रकाः | अधिमात्रतमः श्रेष्ठो भवाब्धौ लंघनक्षमः || ५-१० || अथ मृदुसाधकलक्षणम् | मन्दोत्साही सुसंमुढो व्याधिस्थो गुरुदूषकः | लोभी पापमतिश्चैव बह्वाशी वनिताश्रयः || चपलः कातरो रोगी पराधीनोऽतिनिष्ठुरः | मन्दाचारो मन्दवीर्यो ज्ञातव्यो मृदुमानवः || द्वादशाब्दे भवेत्सिद्धिरेतस्य यत्नतः परम् | मन्त्रयोगाधिकारी स ज्ञातव्यो गुरुणा ध्रुवम् || ५-११ || समबुद्धिः क्षमायुक्तः पुण्याकांक्षी प्रियंवदः | मध्यस्थः सर्वकार्येषु सामान्यः स्यान्नसंशयः || एतज्ज्ञात्वैव गुरुभिर्दीयते मुक्तितो लयः || ५-१२ || अथ अधिमात्रसाधकलक्षणम् स्थिरबुद्धिर्लये युक्तः स्वाधीनो वीर्यवानपि | महाशयो दयायुक्तः क्षमावान् सत्यवानपि || शूरो वयःस्थः श्रद्धावान् गुरुपादाब्जपूजकः | योगाभ्यासरतश्चैव ज्ञातव्यश्चाधिमात्रकः || एतस्य सिद्धिः षड्वर्षे भवेदभ्यासयोगतः | एतस्मै दीयते धीरो हठयोगश्च साङ्गतः || ५-१३ || अथ अधिमात्रतमसाधकलक्षणम् | महावीर्यान्वितोत्साही मनोज्ञः शौर्यवानपि | शास्त्रज्ञोऽभ्यासशीलश्च निर्मोहश्च निराकुलः || नवयौवनसम्पन्नो मिताहारी जितेंद्रियः | निर्भयश्च शुचिर्दक्षो दाता सर्वजनाश्रयः || अधिकारी स्थिरो धीमान् यथेच्छावस्थितः क्षमी | सुशीलो धर्मचारी च गुप्तचेष्टः प्रियंवदः || शास्त्रविश्वाससम्पन्नो देवता गुरुपूजकः | जनसंगविरक्तश्च महाव्याधि विवर्जितः || अधिमात्रव्रतशश्च सर्वयोगस्य साधकः | त्रिभिः संवत्सरैः सिद्धिरेतस्य नात्र संशयः || सर्वयोगाधिकारी स नात्र कार्या विचारणा || ५-१४ || अथ प्रतीकोपासनम् | प्रतीकोपासना कार्या दृष्टादृष्टफलप्रदा | पुनाती दर्शनादत्र नात्र कार्या विचारणा || ५-१५ || गाढातपे स्वप्रतिबिम्बितेश्वरं निरीक्ष्य विस्फारितलोचनद्वयम् | यदा नभः पश्यति स्वप्रतीकं नभोङ्गणे तत्क्षणमेव पश्यति || ५-१६ || प्रत्यहं पश्यते यो वै स्वप्रतीकं नभोङ्गणे | आयुर्वृद्धिर्भवेत्तस्य न मृत्युः स्यात्कदाचन || ५-१७ || यदा पश्यति सम्पूर्णं स्वप्रतीकं नभोङ्गणे | तदा जयमवाप्नोति वायुं निर्जित्य सञ्चरेत् || ५-१८ || यः करोति सदाभ्यासं चात्मानं वन्दते परम् | पूर्णानन्दैकपुरुषं स्वप्रतीकप्रसादतः || ५-१९ || यात्राकाले विवाहे च शुभे कर्मणि सङ्कटे | पापक्षये पुण्यवृद्धौ प्रतीकोपासनञ्चरेत् || ५-२० || निरन्तरकृताभ्यासादन्तरे पश्यति ध्रुवम् | तदा मुक्तिमवाप्नोति योगी नियतमानसः || ५-२१ || अंगुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां द्विलोचने | नासारन्ध्रे च मध्याभ्यामनामाभ्यां मुखं दृढम् || निरुध्य मारुतं योगी यदैव कुरुते भृशम् | तदा लक्षणमात्मानं ज्योतीरूपं स पश्यति || ५-२२ || तत्तेजो दृश्यते येन क्षणमात्रं निराकुलम् | सर्वपापविनिर्मुक्तः स याति परमां गतिम् || ५-२३ || निरन्तरकृताभ्यासाद्योगी विगतकल्मषः | सर्वदेहादि विस्मृत्य तदभिन्नः स्वयं गतः || ५-२४ || यः करोति सदाभ्यासं गुप्ताचारेण मानवः | स वै ब्रह्मविलीनः स्यात्पापकर्मरतो यदि || ५-२५ || गोपनीयः प्रयत्नेन सद्यः प्रत्ययकारकः | निर्वाणदायको लोके योगोयं मम वल्लभः || नादः संजायते तस्य क्रमेणाभ्यासतश्च वै || ५-२६ || मतभृङ्गवेणुवीणासदृशः प्रथमो ध्वनिः | एवमभ्यासतः पश्चात् संसारध्वान्तनाशनम् || घण्टानादसमः पश्चात् ध्वनिर्मेघरवोपमः | ध्वनौ तस्मिन्मनो दत्त्वा यदा तिष्ठति निर्भयः || तदा संजायते तस्य लयस्य मम वल्लभे || ५-२७ || तत्र नादे यदा चित्तं रमते योगिनो भृशम् | विस्मृत्य सकलं बाह्यं नादेन सह शाम्यति || ५-२८ || एतदभ्यासयोगेन जित्वा सम्यग्गुणान्वहून् | सर्वारम्भपरित्यागी चिदाकाशे विलीयते || ५-२९ || नासनं सिद्धसदृशं न कुम्भसदृशं बलम् | न खेचरीसमा मुद्रा न नादसदृशो लयः || ५-३० || इदानीं कथयिष्यामि मुक्तस्यानुभवं प्रिये | यज्ज्ञात्वा लभते मुक्तिं पापयुक्तोपि साधकः || ५-३१ || समभ्यर्च्येश्वरं सम्यक्कृत्वा च योगमुत्तमम् | गृह्णीयात्सुस्थितो भूत्वा गुरुं सन्तोष्य बुद्धिमान् || ५-३२ || जीवादि सकलं वस्तुं दत्त्वा योगविदं गुरुम् | सन्तोष्यातिप्रयत्नेन योगोयं गृह्यते बुधैः || ५-३३ || विप्रान्संतोष्य मेधावी नानामंगलसंयुतः | ममालये शुचिर्भूत्वा प्रगृह्णीयाच्छुभात्मकम् || ५-३४ || संन्यस्यानेन विधिना प्राक्तनं विग्रहादिकम् | भूत्वा दिव्यवपुर्योगी गृह्णीयाद्वक्ष्यमाणकम् || ५-३५ || पद्मासनस्थितो योगी जनसंगविवर्जितः | विज्ञाननाडीद्वितयमङ्गुलीभ्यां निरोधयेत् || ५-३६ || सिद्धेस्तदाविर्भवति सुखरूपी निरञ्जनः | तस्मिन्परिश्रमः कार्यो येन सिद्धो भवेत्खलु || ५-३७ || यः करोति सदाभ्यासं तस्य सिद्धिर्न दूरतः | वायुसिद्धिर्भवेत्तस्य क्रमादेव न संशयः || ५-३८ || सकृद्यः कुरुते योगी पापौघं नाशयेद्ध्रुवम् | तस्य स्यान्मध्यमे वायोः प्रवेशो नात्र संशयः || ५-३९ || एतदभ्यासशीलो यः स योगी देवपूजितः | अणिमादिगुणा/ल्लब्ध्वा विचरेद्भुवनत्रये || ५-४० || यो यथास्यानिलाभ्यासात्तद्भवेत्तस्य विग्रहः | तिष्ठेदात्मनि मेधावी संयुतः क्रीडते भृशम् || ५-४१ || एतद्योगं परं गोप्यं न देयं यस्य कस्यचित् | यः प्रमाणैः समायुक्तस्तमेव कथ्यते ध्रुवम् || ५-४२ || योगी पद्मासने तिष्ठेत्कण्ठकूपे यदा स्मरन् | जिह्वां कृत्वा तालुमूले क्षुत्पिपासा निवर्तते || ५-४३ || कण्ठकूपादधः स्याने कूर्मनाड्यस्ति शोभना | तस्मिन् योगी मनो दत्त्वा चित्तस्थैर्यं लभेद्भृशम् || ५-४४ || शिरः कपाले रुद्राक्षं विवरं चिन्तयेद्यदा | तदा ज्योतिः प्रकाशः स्याद्विद्युत्पुञ्जसमप्रभः | एतच्चिन्तनमात्रेण पापानां संक्षयो भवेत् | दुराचारोऽपि पुरुषो लभते परमं पदम् || ५-४५ || अहर्निशं यदा चिन्तां तत्करोति विचक्षणः | सिद्धानां दर्शनं तस्य भाषणञ्च भवेद्ध्रुवम् || ५-४६ || तिष्ठन् गछन् स्वपन् भुञ्जन् ध्यायेच्छून्यमहर्निशम् | तदाकाशमयो योगी चिदाकाशे विलीयते || ५-४७ || एतज्ज्ञानं सदा कार्यं योगिना सिद्धिमिच्छता | निरन्तरकृताभ्यासान्मम तुल्यो भवेद्ध्रुवम् || एतज्ज्ञानबलाद्योगी सर्वेषां वल्लभो भवेत् || ५-४८ || सर्वान् भूतान् जयं कृत्वा निराशीरपरिग्रहः | नासाग्रे दृश्यते येन पद्मासनगतेन वै || मनसो मरणं तस्य खेचरत्वं प्रसिद्ध्यति || ५-४९ || ज्योतिः पश्यति योगीन्द्रः शुद्धं शुद्धाचलोपमम् | तत्राभ्यासबलेनैव स्वयं तद्रक्षको भवेत् || ५-५० || उत्तानशयने भूमौ सुप्त्वा ध्यायन्निरन्तरम् | सद्यः श्रमविनाशाय स्वयं योगी विचक्षणः | शिरः पश्चात्तु भागस्य ध्याने मृत्युञ्जयो भवेत् || भ्रूमध्ये दृष्टिमात्रेण ह्यपरः परिकीर्तितः || ५-५१ || चतुर्विधस्य चान्नस्य रसस्त्रेधा विभज्यते | तत्र सारतमो लिंगदेहस्य परिपोषकः || सप्तधातुमयं पिण्डमेती पुष्णाति मध्यगः || ५-५२ || याति विण्मूत्ररूपेण तृतीयः सप्ततो बहिः || आद्यभागद्वयं नाड्यः प्रोक्तास्ताः सकला अपि | पोषयन्ति वपुर्वायुमापादतलमस्तकम् || ५-५३ || नाडीभिराभिः सर्वाभिर्वायुः सञ्चरते यदा | तदैवान्नरसो देहे साम्येनेह प्रवर्तते || ५-५४ || चतुर्दशानां तत्रेह व्यापारे मुख्यभागतः | ता अनुग्रत्वहीनाश्च प्राणसञ्चारनाडिकाः || ५-५५ || गुदाद्वयंगुलतश्चोर्ध्वं मेढैकांगुलतस्त्वधः | एवञ्चास्ति समं कन्दं समताच्चतुरंगुलम् || ५-५६ || पश्चिमाभिमुखीः योनिर्गुदमेढ्रान्तरालगा | तत्र कन्दं समाख्यातं तत्रास्ति कुण्डली सदा || संवेष्ट्य सकला नाडीः सार्द्धत्रिकुटलाकृतीः | मुखे निवेश्य सा पुच्छं सुषुम्णाविवरे स्तिता || ५-५७ || सुप्ता नागोपमा ह्येषा स्फुरन्ती प्रभया स्वया | अहिवत्सन्धिसंस्थाना वाग्देवी बीजसंज्ञिका || ५-५८ || ज्ञेया शक्तिरियं विष्णोर्निर्झरा स्वर्णभास्वरा | सत्त्वं रजस्तमश्चेति गुणत्रयप्रसूतिका || ५-५९ || तत्र बन्धूकपुष्पाभं कामबीजं प्रकीर्तितम् | कलहेमसमं योगे प्रयुक्ताक्षररूपिणम् || ५-६० || सुषुम्णापि च संश्लिष्टा बीजं तत्र वरं स्थितम् | शरच्चंद्रनिभं तेजस्स्वयमेतत्स्फुरत्स्थितम् || सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् | एतत्त्रयं मिलित्वैव देवी त्रिपुरभैरवी || बीजसंज्ञं परंतेजस्तदेव परिकीर्तितम् || ५-६१ || क्रियाविज्ञानशक्तिभ्यां युतं यत्परितो भ्रमत् | उत्तिष्ठद्विशतस्त्वम्भः सूक्ष्मं शोणशिखायुतम् || योनिस्थं तत्परं तेजः स्वयंभूलिंगसंज्ञितम् || ५-६२ || आधारपद्ममेतद्धि योनिर्यस्यास्ति कन्दतः | परिस्फुरद्वादिसान्तचतुर्वर्णं चतुर्दलम् || ५-६३ || कुलाभिधं सुवर्णाभं स्वयम्भूलिङ्गसंगतम् | द्विरण्डो यत्र सिद्धोस्ति डाकिनी यत्र देवता || तत्पद्ममध्यगा योनिस्तत्र कुण्डलिनी स्थिता | तस्या ऊर्ध्वे स्फुरत्तेजः कामबीजं भ्रमन्मतम् || यः करोति सदा ध्यानं मूलाधारे विचक्षणः | तस्य स्याद्दार्दुरी सिद्धिर्भूमित्यागक्रमेण वै || ५-६४ || वपुषः कान्तिरुत्कृष्टा जठराग्निविवर्धनम् | आरोग्यञ्च पटुत्वञ्च सर्वज्ञत्वञ्च जायते || ५-६५ || भूतं भव्यं भविष्यञ्च वेत्ति सर्वं सकारणम् | अश्रुतान्यपि शास्त्राणि सरहस्यं भवेद्ध्रुवम् || ५-६६ || वक्त्रे सरस्वती देवी सदा नृत्यति निर्भरम् | मन्त्रसिद्धिर्भवेत्तस्य जपादेव न संशयः || ५-६७ || जरामरणदुःखौघान्नाशयति गुरोर्वचः | इदं ध्यानं सदा कार्यं पवनाभ्यासिना परम् | ध्यानमात्रेण योगीन्द्रो मुच्यते सर्वकिल्विषात् || ५-६८ || मूलपद्मं यदा ध्यायेद्योगी स्वयम्भुलिङ्गकम् | तदा तत्क्षणमात्रेण पापौघं नाशयेद्ध्रुवम् || ५-६९ || यं यं कामयते चित्ते तं तं फलमवाप्नुयात् | निरन्तरकृताभ्यासात्तं पश्यति विमुक्तिदम् || बहिरभ्यन्तरे श्रेष्ठं पूजनीयं प्रयत्नतः | ततः श्रेष्ठतमं ह्येतन्नान्यदस्ति मतं मम || ५-७० || आत्मसंस्थं शिवं त्यक्त्वा बहिःस्थं यः समर्चयेत् | हस्तस्थं पिण्डमुत्सृज्य भ्रमते जीविताशया || ५-७१ || आत्मलिंगार्चनं कुर्यादनालस्यं दिने दिने | तस्य स्यात्सकला सिद्धिर्नात्र कार्या विचारणा || ५-७२ || निरन्तरकृताभ्यासात्षण्मासैः सिद्धिमाप्नुयात् | तस्य वायुप्रवेशोपि सुषुम्णायाम्भवेद्ध्रुवम् || ५-७३ || मनोजयञ्च लभते वायुबिन्दुविधारणात् | ऐहिकामुष्मिकीसिद्धिर्भवेन्नैवात्र संशयः || ५-७४ || अथ स्वाधिष्ठानचक्रविवरणम् | द्वितीयन्तु सरोजञ्च लिंगमूले व्यवस्थितम् | बादिलान्तं च षड्वर्णं परिभास्वरषड्दलम् || स्वाधिष्ठानाभिधं तत्तु पंकजं शोणरूपकम् | बालाख्यो यत्र सिद्धोऽस्ति देवी यत्रास्ति राकिणी || ५-७५ || वो ध्यायति सदा दिव्यं स्वाधिष्ठानारविन्दकम् | तस्य कामाङ्गनाः सर्वा भजन्ते काममोहिताः || ५-७६ || विविधञ्चाश्रुतं शास्त्रं निःशङ्को वै भवेद्ध्रुवम् | सर्वरोगविनिर्मुक्तो लोके चरति निर्भयः || ५-७७ || मरणं खाद्यते तेन स केनापि न खाद्यते | तस्य स्यात्परमा सिद्धिरणिमादिगुणप्रदा || वायुः सञ्चरते देहे रसवृद्धिर्भवेद्ध्रुवम् | आकाशपङ्कजगलत्पीयूषमपि वर्द्धते || ५-७८ || अथ मणिपूरचक्रविवरणम् | तृतीयं पङ्कजं नाभौ मणिपूरकसंज्ञकम् | दशारंडादिफान्तार्णं शोभितं हेमवर्णकम् || ५-७९ || रुद्राख्यो यत्र सिद्धोऽस्ति सर्वमङ्गलदायकः | तत्रस्था लाकिनी नाम्नी देवी परमधार्मिका || ५-८० || तस्मिन् ध्यानं सदा योगी करोति मणिपूरके | तस्य पातालसिद्धिः स्नान्निरन्तरसुखावहा || ईप्सितञ्च भवेल्लोके दुःखरोगविनाशनम् | कालस्य वञ्चनञ्चापि परदेहप्रवेशनम् || ५-८१ || जाम्बूनदादिकरणं सिद्धानां दर्शनं भवेत् | ओषधीदर्शनञ्चापि निधीनां दर्शनं भवेत् || ५-८२ || हृदयेऽनाहतं नाम चतुर्थं पङ्कजं भवेत् | कादिठान्तार्णसंस्थानं द्वादशारसमन्वितम् || अतिशोणं वायुबीजं प्रसादस्थानमीरितम् || ५-८३ || पद्मस्थं तत्परं तेजो बाणलिंगं प्रकीर्तितम् | यस्य स्मरणमात्रेण दृष्टादृष्टफलं लभेत् || ५-८४ || सिद्धः पिनाकी यत्रास्ते काकिनी यत्र देवता | एतस्मिन्सततं ध्यानं हृत्पाथोजे करोति यः || क्षुभ्यन्ते तस्य कान्ता वै कामार्ता दिव्ययोषितः || ५-८५ || ज्ञानञ्चाप्रतिमं तस्य त्रिकालविषयम्भवेत् | दूरश्रुतिर्दूरदृष्टिः स्वेच्छया खगतां व्रजेत् || ५-८६ || सिद्धानां दर्शनञ्चापि योगिनी दर्शनं तथा | भवेत्खेचरसिद्धिश्च खेचराणां जयन्तथा || ५-८७ || यो ध्यायति परं नित्यं बाणलिंगं द्वितीयकम् | खेचरी भूचरी सिद्धिर्भवेत्तस्य न संशयः || ५-८८ || एतद्ध्यानस्य माहात्म्यं कथितुं नैव शक्यते | ब्रह्माद्याः सकला देवा गोपयन्ति परन्त्विदम् || ५-८९ || अथ विशुद्धचक्रविवरणम् | कण्ठस्थानस्थितं पद्मं विशुद्धं नामपञ्चमम् | सुहेमाभं स्वरोपेतं षोडशस्वरसंयुतम् || छगलाण्डोऽस्ति सिद्धोत्र शाकिनी चाधिदेवता || ५-९० || ध्यानं करोति यो नित्यं स योगीश्वरपण्डितः | किन्त्वस्य योगिनोऽन्यत्र विशुद्धाख्ये सरोरुहे || चतुर्वेदा विभासन्ते सरहस्या निधेरिव || ५-९१ || रहःस्थाने स्थितो योगी यदा क्रोधवशो भवेत् | तदा समस्तं त्रैलोक्यं कम्पते नात्र संशयः || ५-९२ || इह स्थाने मनो यस्य दैवाद्यातिलयं यदा | तदा बाह्यं परित्यज्य स्वान्तरे रमते ध्रुवम् || ५-९३ || तस्य न क्षतिमायाति स्वशरीरस्य शक्तितः | संवत्सरसहस्रेऽपि वज्रातिकठिनस्य वै || ५-९४ || यदा त्यजति तद्ध्यानं योगींद्रोऽवनिमण्डले | तदा वर्षसहस्राणि मन्यते तत्क्षणं कृती || ५-९५ || अथ आज्ञाचक्रविवरणम् | आज्ञापद्मं भ्रुवोर्मध्ये हक्षोपेतं द्विपत्रकम् | शुक्लाभं तन्महाकालः सिद्धो देव्यत्र हाकिनी || ५-९६ || शरच्चंद्रनिभं तत्राक्षरबीजं विजृंभितम् | पुमान् परमहंसोऽयं यज्ज्ञात्वा नावसीदति || ५-९७ || एतदेव परन्तेजः सर्वतन्त्रेषु मन्त्रिणः | चिन्तयित्वा परां सिद्धिं लभते नात्र संशयः || ५-९८ || तुरीयं त्रितयं लिंगं तदाहं मुक्तिदायकः | ध्यानमात्रेण योगीन्द्रो मत्समो भवति ध्रुवम् || ५-९९ || इडा हि पिंगला ख्याता वरणासीति होच्यते | वाराणसी तयोर्मध्ये विश्वनाथोत्र भाषितः || ५-१०० || एतत्क्षेत्रस्य माहात्म्यमृषिभिस्तत्त्वदर्शिभिः | शास्त्रेषु बहुधा प्रोक्तं परं तत्त्वं सुभाषितम् || ५-१०१ || सुषुम्णा मेरुणा याता ब्रह्मरन्ध्रं यतोऽस्ति वै | ततश्चैषा परावृत्य तदाज्ञापद्मदक्षिणे || वामनासापुटं याति गंगेति परिगीयते || ५-१०२ || ब्रह्मरन्ध्रे हि यत्पद्मं सहस्रारं व्यवस्थितम् | तत्र कन्देहि या योनिस्तस्यां चन्द्रो व्यवस्थितः | त्रिकोणाकारतस्तस्याः सुधा क्षरति सन्ततम् || इडायाममृतं तत्र समं स्रवति चन्द्रमाः | अमृतं वहति धारा धारारूपं निरन्तरम् || वामनासापुटं याति गंगेत्युक्ता हि योगिभिः || ५-१०३ || आज्ञापङ्कजदक्षांसाद्वामनासापुटंगता | उदग्वहेति तत्रेडा वरणा समुदाहृता || ५-१०४ || ततो द्वयोर्हि मध्ये तु वाराणसीति चिन्तयेत् | तदाकारा पिंगलापि तदाज्ञाकमलान्तरे || दक्षनासापुटे याति प्रोक्तास्माभिरसीति वै || ५-१०५ || मूलाधारे हि यत्पद्मं चतुष्पत्र व्यवस्थितम् | तत्र मध्येहि या योनिस्तस्यां सूर्यो व्यवस्थितः || ५-१०६ || तत्सूर्यमण्डलद्वराद्विषं क्षरति सन्ततम् | पिंगलायां विषं तत्र समर्पयति तापनः || ५-१०७ || विषं तत्र वहन्ती या धारारूपं निरन्तरम् | दक्षनासापुटे याति कल्पितेयन्तु पूर्ववत् || ५-१०८ || आज्ञापङ्कजवामास्याद्दक्षनासापुटं गता | उदग्वहा पिंगलापि पुरासीति प्रकीर्तिता || ५-१०९ || आज्ञापद्ममिदं प्रोक्तं यत्र देवो महेश्वरः | पीठत्रयं ततश्चोर्ध्वं निरुक्तं योगचिन्तकैः || तद्बिन्दुनादशक्त्याख्यं भालपद्मे व्यवस्थितम् || ५-११० || यः करोति सदाध्यानमाज्ञापद्मस्य गोपितम् | पूर्वजन्मकृतं कर्म विनश्येदविरोधतः || ५-१११ || इह स्थिते यदा योगी ध्यानं कुर्यान्निरन्तरम् | तदा करोति प्रतिमां पूजाजपमनर्थवत् || ५-११२ || यक्षराक्षसगन्धर्वा अपसरोगणकिन्नराः | सेवन्ते चरणौ तस्य सर्वे तस्य वशानुगाः || ५-११३ || करोति रसनां योगी प्रविष्टां विपरीतगाम् | लम्बिकोर्ध्वेषु गर्तेषु धृत्वा ध्यानं भयापहम् || अस्मिन् स्थाने मनो यस्य क्षणार्धं वर्ततेऽचलम् | तस्य सर्वाणि पापानि संक्षयं यान्ति तत्क्षणात् || ५-११४ || यानि यानि हि प्रोक्तानि पंचपद्मे फलानि वै | तानि सर्वाणि सुतरामेतज्ज्ञानाद्भवन्ति हि || ५-११५ || यः करोति सदाभ्यासमाज्ञा पद्मे विचक्षणः | वासनाया महाबन्धं तिरस्कृत्य प्रमोदते || ५-११६ || प्राणप्रयाणसमये तत्पद्मं यः स्मरन्सुधीः | त्यजेत्प्राणं स धर्मात्मा परमात्मनि लीयते || ५-११७ || तिष्ठन् गच्छन् स्वपन् जाग्रत् यो ध्यानं कुरुते नरः | पापकर्मविकुर्वाणो नहि मज्जति किल्विषे || ५-११८ || योगी बन्धाद्विनिर्मुक्तः स्वीयया प्रभया स्वयम् | द्विदलध्यानमाहात्म्यं कथितुं नैव शक्यते || ब्रह्मादिदेवताश्चैव किञ्चिन्मत्तो विदन्ति ते || ५-११९ || अत ऊर्ध्वं तालुमूले सहस्रारंसरोरुहम् | अस्ति यत्र सुषुम्णाया मूलं सविवरं स्थितम् || ५-१२० || तालुमूले सुषुम्णा सा अधोवक्त्रा प्रवर्तते | मूला धारेणयोन्यस्ताः सर्वनाड्यः समाश्रिताः || ता बीजभूतास्तत्त्वस्य ब्रह्ममार्गप्रदायिकाः || ५-१२१ || तालुस्थाने च यत्पद्मं सहस्रारं पुराहितम् | तत्कन्दे योनिरेकास्ति पश्चिमाभिमुखी मता || ५-१२२ || तस्या मध्ये सुषुम्णाया मूलं सविवरं स्थितम् | ब्रह्मरन्ध्रं तदेवोक्तमामूलाधारपङ्कजम् || ५-१२३ || ततस्तद्रन्ध्रे तच्छक्तिः सुषुम्णा कुण्डली सदा | सुषुम्णायां सदा शक्तिश्चित्रा स्यान्मम वल्लभे || तस्यां मम मते कार्या ब्रह्मरन्ध्रादिकल्पना || ५-१२४ || यस्याः स्मरणमात्रेण ब्रह्मज्ञत्वं प्रजायते | पापक्षयश्च भवति न भूयः पुरुषो भवेत् || ५-१२५ || प्रवेशितं चलाङ्गुष्ठं मुखे स्वस्य निवेशयेत् | तेनात्र न बहत्येव देहचारी समीरणः || ५-१२६ || तेन संसारचक्रेस्मिन् भ्रमतीत्येव सर्वदा | तदर्थं ये प्रवर्तन्ते योगी न प्राणधारणे | तत एवाखिला नाडी विरुद्धा चाष्टवेष्टनम् | इयं कुण्डलिनी शक्ती रन्ध्रं त्यजति नान्यथा || ५-१२७ || यदा पूर्णासु नाडीषु सन्निरुद्धानिलास्तदा | बन्धत्यागेन कुण्डल्या मुखं रन्ध्राद् बहिर्भवेत् || ५-१२८ || सुषुम्णायां सदैवायं वहेत्प्राणसमीरणः | मूलपद्मस्थिता योनिर्वामदक्षिणकोणतः || इडापिंगलयोर्मध्ये सुषुम्णा योनिमध्यगा || ५-१२९ || ब्रह्मरन्ध्रं तु तत्रैव सुषुम्णाधारमण्डले | यो जानाति स मुक्तः स्यात्कर्मबन्धाद्विचक्षणः || ५-१३० || ब्रह्मरन्ध्रमुखे तासां संगमः स्यादसंशयः | तस्मिन्स्नाने स्नातकानां मुक्तिः स्यादविरोधतः || ५-१३१ || गंगायमुनयोर्मध्ये वहत्येषा सरस्वती | तासां तु संगमे स्नात्वा धन्यो याति परां गतिम् || ५-१३२ || इडा गंगा पुरा प्रोक्ता पिंगला चार्कपुत्रिका | मध्या सरस्वती प्रोक्ता तासां संगोऽतिदुर्लभः || ५-१३३ || सितासिते संगमे यो मनसा स्नानमाचरेत् | सर्वपापविनिर्मुक्तो याति ब्रह्म सनातनम् || ५-३४ || त्रिवेण्यां संगमे यो वै पितृकर्म समाचरेत् | तारयित्वा पितॄन्सर्वान्स याति परमां गतिम् || ५-१३५ || नित्यं नैमित्तिकं काम्यं प्रत्यहं यः समाचरेत् | मनसा चिन्तयित्वा तु सोऽक्षयं फलमाप्नुयात् || ५-१३६ || सकृद्यः कुरुते स्नानं स्वर्गे सौख्यं भुनक्ति सः | दग्ध्वा पापानशेषान्वै योगी शुद्धमतिः स्वयम् || ५-१३७ || अपवित्रः पवित्री वा सर्वावस्थां गतोपि वा | स्नानाचरणमात्रेण पूतो भवति नान्यथा || ५-१३८ || मृत्युकाले प्लुतं देहं त्रिवेण्याः सलिले यदा | विचिन्त्य यस्त्यजेत्प्राणान्स तदा मोक्षमाप्नुयात् || ५-१३९ || नातःपरतरं गुह्यं त्रिषु लोकेषु विद्यते | गोप्तव्यं तत्प्रयत्नेन न व्याख्येयं कदाचन || ५-१४० || ब्रह्मरन्ध्र मनो दत्त्वा क्षणार्धं यदि तिष्ठति | सर्वपापविनिर्मुक्तः स याति परमां गतिम् || ५-१४१ || अस्मि/ल्लीनं मनो यस्य स योगी मयि लीयते | अणिमादिगुणान्भुक्त्वा स्वेच्छया पुरुषोत्तमः || ५-१४२ || एतद्रन्ध्रध्यानमात्रेण मर्त्यः संसारे स्मिन्वल्लभो मे भवेत्सः | पापाञ्जित्वा मुक्तिमार्गाधिकारी, ज्ञानं दत्त्वा तारयत्यद्भुतं वै || ५-१४३ || चतुर्मुखादित्रिदशैरगम्यं योगिवल्लभम् | प्रयत्नेन सुगोप्यं तद्ब्रह्मरन्ध्रं मयोदितम् || ५-१४४ || पुरा मयोक्ता या योनिः सहस्रारे सरारुहे | तस्याऽधो वर्तते चन्द्रस्तद्ध्यानं क्रियते बुधैः || ५-१४५ || यस्य स्मरणमात्रेण योगीन्द्रोऽवनिमण्डले | पूज्यो भवति देवानां सिद्धानां सम्मतो भवेत् || ५-१४६ || शिरःकपालविवरे ध्यायेद्दग्धमहोदधिम् | तत्र स्थित्वा सहस्रारे पद्मे चन्द्रं विचिन्तयेत् || ५-१४७ || शिरःकपालविवरे द्विरष्टकलया युतः | पीयूषभानुहंसाख्यं भावयेत्तं निरंजनम् | निरन्तरकृताभ्यासात्त्रिदिने पश्यति ध्रुवम् | दृष्टिमात्रेण पापौघं दहत्येव स साधकः || ५-१४८ || अनागतञ्च स्फुरति चित्तशुद्धिर्भवेत्खलु | सद्यः कृत्वापि दहति महापातकपञ्चकम् || ५-१४९ || आनुकूल्यं ग्रहा यान्ति सर्वे नश्यन्त्युपद्रवाः | उपसर्गाः शमं यान्ति युद्धे जयमवाप्नुयात् | खेचरीभूचरीसिद्धिर्भवेत्क्षीरेन्दुदर्शनात् | ध्यानादेवभवेत्सर्वं नात्र कार्या विचारणा | सतताभ्यासयोगेन सिद्धो भवति नान्यथा | सत्यं सत्यं पुनः सत्यं मम तुल्यो भवेद्ध्रुवम् | योगशास्त्रेऽप्यभिरतं योगिनां सिद्धिदायकम् || ५-१५० || अथ राजयोगकथनम् | अत ऊर्ध्वं दिव्यरूपं सहस्रारं सरोरुहम् | ब्रह्माण्डाख्यस्य देहस्य बाह्ये तिष्ठति मुक्तिदम् || ५-१५१ || कैलासो नाम तस्यैव महेशो यत्र तिष्ठति | नकुलाख्योऽविनाशी च क्षयवृद्धिविवर्जितः || ५-१५२ || स्थानस्यास्य ज्ञानमात्रेण नॄणां, संसारेऽस्मिन्सम्भवो नैव भूयः | भूतग्रामं सन्तताभ्यासयोगात्कर्तुं हर्तुं स्याच्च शक्तिः समग्रा || ५-१५३ || स्थाने परे हंसनिवासभूते, कैलासनाम्नीह निविष्टचेताः | योगी हृतव्याधिरधः कृताधिवरायुश्चिरं जीवति मृत्युमुक्तः || ५-१५४ || चित्तवृत्तिर्यदा लीना कुलाख्ये परमेश्वरे | तदा समाधिसाम्येन योगी निश्चलतां व्रजेत् || ५-१५५ || निरन्तरकृते ध्याने जगद्विस्मरणं भवेत् | तदा विचित्रसामर्थ्यं योगिनो भवति ध्रुवम् || ५-१५६ || तस्माद्गलितपीयूषं पिबेद्योगी निरन्तरम् | मृत्योर्मृत्युं विधायाशु कुलं जित्वा सरोरुहे | अत्र कुण्डलिनी शक्तिर्लयं याति कुलाभिधा | तदा चतुर्विधा सृष्टिर्लीयते परमात्मनि || ५-१५७ || यज्ज्ञात्वा प्राप्य विषयं चित्तवृत्तिर्विलीयते | तस्मिन् परिश्रमं योगी करोति निरपेक्षकः || ५-१५८ || चित्तवृत्तियदालीना तस्मिन् योगी भवेद् ध्रुवम् | तदा विज्ञायतेऽखण्डज्ञानरूपो निरञ्जनः || ५-१५९ || ब्रह्माण्डबाह्ये संचिंत्य स्वप्रतीकं यथोदितम् | तमावेश्य महच्छून्यं चिन्तयेदविरोधतः || ५-१६० || आद्यन्तमध्यशून्यं तत्कोटिसूर्यसमप्रभम् | चन्द्रकोटिप्रतीकाशमभ्यस्य सिद्धिमाप्नुयात् || ५-१६१ || एतद्ध्यानं सदा कुर्यादनालस्यं दिने दिने | तस्य स्यात्सकला सिद्धिर्वत्सरान्नात्र संशयः || ५-१६२ | क्षणार्धं निश्चलं तत्र मनो यस्य भवेद् ध्रुवम् | स एव योगी सद्भक्तः सर्वलोकेषु पूजितः || ५-१६३ || तस्य कल्मषसंघातस्तत्क्षणादेव नश्यति || ५-१६४ || यं दृष्ट्वा न प्रवर्तंते मृत्युसंसारवर्त्मनि | अभ्यसेत्तं प्रयत्नेन स्वाधिष्ठानेन वर्त्मना || ५-१६५ || एतद्ध्यानस्य माहात्म्यं मया वक्तुं न शक्यते | यः साधयति जानाति सोस्माकमपि सम्मतः || ५-१६६ || ध्यानादेव विजानाति विचित्रेक्षणसम्भवम् | अणिमादिगुणोपेतो भवत्येव न संशयः || ५-१६७ || राजयोगो मयाख्यातः सर्वतन्त्रेषु गोपितः | राजाधिराजयोगोऽयं कथयामि समासतः || ५-१६८ || स्वस्तिकञ्चासनं कृत्वा सुमठे जन्तुवर्जिते | गुरुं संपूज्य यत्नेन ध्यानमेतत्समाचरेत् || ५-१६९ || निरालम्बं भवेज्जीवं ज्ञात्वा वेदान्तयुक्तितः | निरालम्बं मनः कृत्वा न किञ्चिच्चिन्तयेत्सुधीः || ५-१७० || एतद्ध्यानान्महासिद्धिर्भवत्येव न संशयः | वृत्तिहीनं मनः कृत्वा पूर्णरूपं स्वयं भवेत् || ५-१७१ || साधयेत्सततं यो वै स योगी विगतस्पृहः | अहंनाम न कोप्यस्ति सर्वदात्मैव विद्यते || ५-१७२ || को बन्धः कस्य वा मोक्ष एकं पश्येत्सदा हि सः | एतत्करोति यो नित्यं स मुक्तो नात्र संशयः || ५-१७३ || स एव योगी सद्भक्तः सर्वलोकेषु पूजितः | अहमस्मीति यन्मत्वा जीवात्मपरमात्मनोः | अहं त्वमेतदुभयं त्यक्त्वाखण्डं विचिन्तयेत् | अध्यारोपापवादाभ्यां यत्र सर्वं विलीयते | तद्बीजमाश्रयेद्योगी सर्वसंगविवर्जितः || ५-१७४ || अपरोक्षं चिदानन्दं पूर्णं त्यक्त्वा भ्रमाकुलाः | परोक्षं चापरोक्षं च कृत्वा मूढा भ्रमन्ति वै || ५-१७५ || चराचरमिदं विश्वं परोक्षं यः करोति च | अपरोक्षं परं ब्रह्म त्यक्तं तस्मिन् प्रलीयते || ५-१७६ || ज्ञानकारणमज्ञानं यथा नोत्पद्यते भृशम् | अभ्यासं कुरुते योगी सदा सङ्गविवर्जितम् || ५-१७७ || सर्वेन्द्रियाणि संयम्य विषयेभ्यो विचक्षणः | विषयेभ्यः सुषुप्त्यैव तिष्ठेत्संगविवर्जितः || ५-१७८ || एवमभ्यसतो नित्यं स्वप्रकाशं प्रकाशते | श्रोतुं बुद्धिसमर्थार्थं निवर्तन्ते गुरोर्गिरः | तदभ्यासवशादेकं स्वतो ज्ञानं प्रवर्तते || ५-१७९ || यतो वाचो निवर्तन्ते अप्राप्य मनसा सह | साधनादमलं ज्ञानं स्वयं स्फुरति तद्ध्रुवम् || ५-१८० || हठं विना राजयोगो राजयोगं विना हठः | तस्मात्प्रवर्तते योगी हठे सद्गुरुमार्गतः || ५-१८१ || स्थिते देहे जीवति च योगं न श्रियते भृशम् | इन्द्रियार्थोपभोगेषु स जीवति न संशयः || ५-१८२ || अभ्यासपाकपर्यन्तं मितान्नंस्मरणं भवेत् | अनाथा साधनं धीमान् कर्तुं पारयतीहन || ५-१८३ || अतीवसाधुसंलापोवदेत् संसदिबुद्धिमान् | करोति पिण्डरक्षार्थं बह्वालापविवर्जितः | त्यज्यते त्यज्यते सङ्गं सर्वथा त्यज्यते भृशम् | अन्यथा न लभेन्मुक्तिं सत्यं सत्यं मयोदितम् || ५-१८४ || गुप्त्यैव क्रियतेऽभ्यासः संगं त्यक्त्वा तदन्तरे | व्यवहाराय कर्तव्यो बाह्येसंगानुरागतः | स्वे स्वे कर्मणि वर्तंते सर्वे ते कर्मसम्भवाः | निमित्तमात्रं करणे न दोषोष्ति कदाचन || ५-१८५ || एवं निश्चित्य सुधिया गृहस्थोपि यदाचरेत् | तदा सिद्धिमवाप्नोति नात्र कार्या विचारणा || ५-१८६ || पापपुण्यविनिर्मुक्तः परित्यक्ताङ्गसाधकः | यो भवेत्स विमुक्तः स्याद् गृहे तिष्ठन्सदा गृही | न पापपुण्यैर्लिप्येत योगयुक्तो सदा गृही | कुर्वन्नपि तदा पापान्स्वकार्ये लोकसंग्रहे || ५-१८७ || ओं ऐ/ क्लि/ स्त्रि/ अधुना संप्रवक्ष्यामि मन्त्रसाधनमुत्तमम् | ऐहिकामुष्मिकसुखं येन स्यादविरौधतः || ५-१८८ || यस्मिन्मन्त्रे वरे ज्ञाते योगसिद्धिर्भवेत्खलु | योगेन साधकेन्द्रस्य सर्वैश्वयेसुखप्रदा || ५-१८९ || मूलाधारेऽस्ति यत्पद्मं चतुर्दलसमन्वितम् | तन्मध्ये वाग्भवं बीजं विस्फुरन्तं तडित्प्रभम् || ५-१९० || हृदये कामबीजं तु बन्धूककुसुमप्रभम् | आज्ञारविन्दे शक्त्याख्यं चन्द्रकोटिसमप्रभम् || बीजत्रयमिदं गोप्यं भुक्तिमुक्तिफलप्रदम् | एतन्मन्त्रत्रयं योगी साधयेत्सिद्धिसाधकः || ५-१९१ || एतन्मन्त्रं गुरोर्लब्ध्वा न द्रुतं न विलम्बितम् | अक्षराक्षरसन्धानं निःसन्दिग्धमना जपेत् || ५-१९२ || तद्गतश्चैकचित्तश्च शास्त्रोक्तविधिना सुधीः | देव्यास्तु पुरतो लक्षं हुत्वा लक्षत्रयं जपेत् || ५-१९३ || करवीरप्रसूनन्तु गुडक्षीराज्यसंयुतम् | कुण्डे योन्याकृते धीमाञ्जपान्ते जुहुयात्सुधीः || ५-१९४ || अनुष्ठाने कृते धीमान्पूर्वसेवा कृता भवेत् | ततो ददाति कामान्वै देवी त्रिपुरभैरवी || ५-१९५ || गुरुं सन्तोष्य विधिवल्लब्ध्वा मन्त्रवरोत्तमम् | अनेन विधिना युक्तो मन्दभाग्योऽपि सिद्ध्यति || ५-१९६ || लक्षमेकं जपेद्यस्तु साधको विजितेन्द्रियः | दर्शनात्तस्य क्षुभ्यन्ते योषितो मदनातुराः || पतन्ति साधकस्याग्रे निर्लजा भयवर्जिताः || ५-१९७ || जप्तेन चेद्द्विलक्षेण ये यस्मिन्विषये स्थिताः | आगच्छन्ति यथातीर्थं विमुक्तकुलविग्रहाः || ददति तस्य सर्वस्वं तस्यैव च वशे स्थिताः || ५-१९८ || त्रिभिर्लक्षैस्तथाजप्तैर्मण्डलीकाः समण्डलाः | वशमायान्ति ते सर्वे नात्र कार्या विचारणा || ५-१९९ || षडभिर्लक्षैर्महीपालं सभृत्यबलवाहनम् || ५-२०० || लक्षैर्द्वादशभिर्जप्तैर्यक्षरक्षोरगेश्वराः | वशमायान्ति ते सर्वे आज्ञां कुर्वन्ति नित्यशः || ५-२०१ || त्रिपञ्चलक्षजप्तैस्तु साधकेन्द्रस्य धीमतः | सिद्धविद्याधराश्चैव गन्धर्वाप्सरसांगणाः || वशमायान्ति ते सर्वे नात्र कार्या विचारणा | हठाच्छ्रवणविज्ञानं सर्वज्ञत्वं प्रजायते || ५-२०२ || तथाष्टादशभिर्लक्षैर्देहेनानेन साधकः | उत्तिष्ठेन्मेदिनीं त्यक्त्वा दिव्यदेहस्तु जायते || भ्रमते स्वेच्छया लोके छिद्रां पश्यति मेदिनीम् || ५-२०३ || अष्टाविंशतिभिर्लक्षैर्विद्याधरपतिर्भवेत् | साधकस्तु भवेद्धीमान्कामरूपो महाबलः || त्रिंशल्लक्षैस्तथाजप्तैर्ब्रह्मविष्णुसमो भवेत् | रुद्रत्वं षष्टिभिर्लक्षैरमरत्वमशीतिभिः || कोट्यैकया महायोगी लीयते परमे पदे | साधकस्तु भवेद्योगी त्रिअलोक्ये सोऽतिदुर्लभः || ५-२०४ || त्रिपुरे त्रिपुरन्त्वेकं शिवं परमकारणम् | अक्षयं तत्पदं शन्तमप्रमेयमनामयम् || लभतेऽसौ न सन्देहो धीमान्सर्वमभीप्सितम् || ५-२०५ || शिवविद्या महाविद्या गुप्ता चाग्रे महेश्वरी | मद्भाषितमिदं शास्त्रंगोपनीयमतो बुधैः || ५-२०६ || हठविद्या परंगोप्या योगिना सिद्धिमिच्छता | भवेद्वीर्यवती गुप्ता निर्वीर्या च प्रकाशिता || ५-२०७ || य इदं पठते नित्यमाद्योपान्तं विचक्षणः | योगसिद्धिर्भवेत्तस्य क्रमेणैव न संशयः || समोक्ष लभते धीमान्य इदं नित्यमर्चयेत् || ५-२०८ || मोक्षार्थिभ्यश्च सर्वेभ्यः साधुभ्यः श्रावयेदपि | क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथम्भवेत् || ५-२०९ || तस्मात्क्रियाविधानेन कर्तव्या योगिपुंगवैः | यदृच्छालाभसन्तुष्टः सन्त्यक्त्वान्तरसंज्ञकः || गृहस्थश्चाप्यनासक्तः स मुक्तो योगसाधनात् || ५-२१० || गृहस्थानां भवेत्सिद्धिरीश्वराणां जपेन वै | योगक्रियाभियुक्तानां तस्मात्संयतते गृही || ५-२११ || गेहे स्थित्वा पुत्रदारादिपूर्णः सङ्गं त्यक्त्वा चान्तरे योगमार्गे | सिद्धेश्चिह्नं वीक्ष्य पश्चाद् गृहस्थः क्रीडेत्सो वै मम्मतं साधयित्वा || ५-२१२ || इति श्रीशिवसंहितायां हरगौरीसंवादे योगशास्त्रे पंचमः पटलः समाप्तः || ५ || शुभम् || ########### END OF FILE #######