#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00617 Uniform title: śivasiddhāntacandrikā Description: Verses only without commentary Notes: Text selected by Dr. Elaine Fisher, funded by a fellowship awarded to Dr. Fisher by Stanford University. Data entered by the staff of Muktabodha under the direction of Dr. Anirban Dash. Revision 0: March 27, 2022 Publisher : Publication year : 1920 Publication city : Hooli Publication country : India #################################################### श्री पूवल्ली पंचवर्ण बृहन्मठ ग्रंथमाला पुष्प १३ श्री श्रीगुरुराज सिद्धनंजेश शिवाचार्य विरचिता चोलचिद्घनसंवादविलासिता शिवसिद्धांत चंद्रिका || श्री गणेशायनमः|| पृ० १) श्री पूवल्ली पंचवंणिगी श्री सिद्धनंजेश शिवाचार्य विरचितायां | चो?चिद्घनसंवादविलसितायां | श्री शिवसिद्धांतचंद्रिकायां उपोद्घातपरिच्छेदः || मंगलाचरणं पृ० २) नमः शिवाय सोमाय षडध्वातीतवर्तिने || षट्त्रिंशत्तत्त्वलिंगाय षट्स्थलब्रह्मणेनमः || १ || विश्वाधारां विश्वरूपां विश्वोपादान रूपिणीं || विश्वेश्वरीं सदा वंदे विश्वविद्याविधायिनीं || २ || पृ० ३) पंचवर्णमहासूत्रसांप्रदायप्रवर्तकं || पूवल्लीसिद्धचैतन्यं प्रणयामि गुरुं परं || ३ || यः कैलासपतिः शिवः स भगवान् श्री नीलकंठः पुरा | व्यासप्रार्थनयावनाववतरन् शैवागमान् स्थापयन् || तत्सूत्रांबुधिमंथनाद्विरचयन् भाष्यामृतं पावनं | सर्वं लोकमपूपुषद्वितरयन् तं सौम्यहं भूगुरुं || ४ || जीयाच्छ्रीभगवत्पाद श्रीनीलकंठो जगद्गुरुः || यः शिवाद्वैतसिद्धांतं स्थापयामास भूतले || ५ || पृ० ४) यः श्रीसद्गुरुनीलकंठयामिनो हस्तांबुजातोद्भवः | यं पूवल्लि बृहन्मठाधिकृतसत्सिंहासनेशं विदुः || येन स्वाश्रितचोलमंडलमहावंशःसमुद्घारितः | तस्मै चिद्घननामकाय गुरवे नित्यं नमस्कुर्महे || ६ || अघोराख्यशिवाचार्यमघोरतपसोज्वलं | श्रीमद्गुरुं सदा नौमि श्रीश्रेयोजयसिद्धये || ७ || सम्राट्सत्येंद्रचोलस्य प्रश्नानामुत्तरात्मकं | चोलचिद्घनसंवादम् लोकानामुपकारकम् || ८ || ग्रंथरूपेण संगृह्य शिवाचार्यो बुधाग्रणीः | तनोति सिद्धनंजेशः शिवसिद्धांतचन्द्रिकां || ९ || पृ० ५) शिवानन्दामृतोत्पादा शिवज्ञानप्रकाशिका | श्रियं शिवं शुभं कुर्यात् शिवसिद्धांतचंद्रिका || १० || आसीत् पुरा महाराजश्चोलमंडलनायकः | सार्वभौमनृपश्रेष्टः श्रीमान् सत्येन्द्रनामकः || ११ || सुरेन्द्रसमसंकाशः सोऽयं सत्येन्द्रभूमिपः | यस्यामृतवतीनाम्नी राज्ञी साक्षात् शचीव सा || १२ || पुरी धर्मवतीनाम्नी प्रत्यक्षममरावती | जयशाली जयन्तश्च यत्पुत्रो राजशेखरः || १३ || पृ० ६) तद्गुरुश्चिद्घनाचार्यः साक्षात् बृहस्पतिप्रभः | वेदवेदांततत्त्वज्ञः सर्वशास्त्रविशारदः || १४ || शिवाद्वैतमहाविद्यादेशिको धर्मशासकः | परवादिमहारण्यदावानल इति श्रुतः || १५ || योऽसौ श्रीमन्नीलकंठपट्टशिष्यत्त्वभूषितः || पूलीसिंहासनेशत्वं संप्राप्यं जगतीतले || १६ || श्रीशिवाद्वैतसिद्धांतं स्थापयित्त्वा श्रुतीरितं | मुमुक्षूणां हितार्थाय बोधयित्वा विराजते || १७ || यस्यानुग्रहमात्रेण चो?राज्यस्य संपदः | स्वर्गसंपत्समाभूत्वा आसन् सर्वसुखास्पदाः || १८ || निरीतिबाधकाः सस्यास्तत्प्रजा निरुपद्रवाः | देवक्षेत्राणि वेदोक्तपूजापाठयुतानि च || १९ || पृ० ७) सिद्धाश्रमक्रियाः सर्वा निराबाधतपःश्रिताः | सत्येन्द्रस्य राजवंशश्चासीत्पुण्यांशपूरितः || २० || एवं सहायसंपन्नः श्रीसत्येन्द्रनृपोत्तमः | एकदा सद्गुरुश्रेष्ठं चिद्घनं महिमान्वितं || २१ || तिर्यगांदोलनश्वेतछत्रचामरतोरणैः | नंदीध्वजादिभिः सर्वैर्बिरुदैर्विशदीकृतैः || २२ || महोत्सवेन सद्भक्त्या परिवारसमायुतः | राजधानीं समाहूय पूजयामास सक्रमं || २३ || तत्पूजया सुसंतुष्टः शिष्टसंकष्टनाशकः | श्रीचिद्घनशिवाचार्यो भक्तपालनतत्परः || २४ || सकुटुंबं महाराजं तं सत्येन्द्रमहीभुजं | शक्तिपातं समावीक्ष्य दीक्षायां योजयन् मुदा || २५ || पृ० ८) अष्टावरणसिद्ध्यर्थं पञ्चाचारप्रवृद्धये | वीरशैवक्रमप्रोक्तलिऽऽन्गधारणपूर्वकं || २६ || शिवपञ्चाक्षरीनाममहामंत्रं महत्तरं | बोधयित्वा मोक्षमार्गं दर्शयामास भूगुरुः || २७ || तदा दीक्षाप्रभावेण महामंत्रप्रभान्वितः | सोऽयं सत्येन्द्रभूपालः श्रीशिवज्ञानसिद्धये || २८ || श्रीचिद्घनं गुरुश्रेष्ठं दंडवत्प्रणमन् मुदा | समपृच्छत् महाभक्त्या सुविनीतः कृतांजलिः || २९ || इति श्रीपूवल्लीभाष्यसिंहासनाधीशश्रीमज्जगद्गुरुसिद्धनंजेशशिवाचार् यविरचितायां शिवसिद्धांतचंद्रिकायां उपोद्घातपरिच्छेदः || पृ० ९) प्रथमपरिच्छेदः || चो? उवाच | श्रीमद्गुरो महास्वामिन् शिष्यपालनतत्पर | शिवसिद्धांततत्वज्ञ शिष्यसंदेहनाशक || १ || चराचरमिदं सर्वं जगदाहुरनीश्वरं | तत्र मे संशयं छित्वा निश्चितं तद्वद प्रभो || २ || चिद्घन उवाच | सम्यक् पृष्ठं महाभाग सार्वभौमनृपोत्तम | सर्वलोकहितार्थं तत् निश्चितं ते निरूपये || ३ || अस्ति कश्चित् जगत्कर्ता सच्चिदानंदलक्षणः | स्वप्रकाशः स्वतंत्रश्च चेतनाचेतनात्मकः || ४ || बुद्धिमत्कर्तृपूर्वं तत् विश्वं सर्वं चराचरं | कार्यत्वाच्च प्रमेय वात् यथा लोके घटादिकं || ५ || पृ० १०) कार्यत्वं सन्निवेशात्तत् क्रियावत्वाच्च साध्यते | प्रज्ञानविषयत्वाच्च प्रमेयत्वं तथैव च || ६ || नाचैतन्यात्प्रधानस्य जगत्कर्तृत्वमिष्यते | सामानाधिकरण्याच्च कर्तृत्वचेतनत्वयोः || ७ || तदभावात् प्रधानस्य कथं कर्तृत्वमिष्यते | चेतनाधीनकत्वेन स्वतंत्र्याभावतस्तथा || ८ || कालस्यापि तथात्वेन नैव कर्तृत्वमिष्यते | कर्मणोप्यस्वतंत्रस्य कर्तृत्वं नैव सम्मतं || ९ || पृ० ११) स्वतंत्रस्याप्रयोज्यत्वं करणादिप्रयोक्तृता | कर्तुः स्वातंत्र्यमेतद्धि न करणाद्यपेक्षते || १० || अपूर्वस्य च तत्सिद्धौ तत्फलस्य प्रदानतः | स्वतंत्रश्चेतनश्चान्यः कर्ता सिद्ध्यत्यसौ शिवः || ११ || सर्वकार्यस्वतंत्रत्वात् अनवस्थाभयात्तथा | अन्यः कर्ता महेशस्य नैव सिद्ध्यति तत्त्वतः || १२ || शिव एव विश्वकर्ता तस्य कर्ता न विद्यते | शिव एव विश्वभर्ता तस्य भर्ता न विद्यते || १३ || शिव एव विश्वहर्ता तस्य हर्ता न विद्यते | शिव एव निश्वनाथस्तस्य नाथो न विद्यते || १४ || पृ० १२) चो? उवाच भवदुक्तमिदं सर्वं मया ज्ञातं जगद्गुरो | किंतु शंकामिमां स्वामिन् सप्रमाणं निवारय || १५ || विश्वोत्पत्तावुपादानं निमित्तं कारणं किमु | एतत्सर्वं समासेन वदस्व करुणाकर || १६ || चिद्घन उवाच भो सत्येन्द्र महाभाग शंका योग्या कृता त्वया | वक्षे तस्याः समाधानं सावधानमनाः श्रुणु || १७ || पृ० १३) शक्त्या विशिष्टः सर्वात्मा चिदचिद्रूपया तया | उपादानं निमित्तं च शिवो भवति कारणं || १८ || उपादानं पराशक्तिरुपादेयमिदं जगत् | तस्य कर्ता निमित्तं च प्रोच्यते परमः शिवः || १९ || यथोर्णनाभिरुर्णायाः कारणत्वद्वयं व्रजेत् | तथा शक्तिविशिष्टोऽयं तद्व्रजेत् परमः शिवः || २० || शक्तिं विना जगत्कार्यं न किंचित्कर्तुमीशते | तत्तादात्म्ययुतः सांबः सर्वकर्तेति कथ्यते || २१ || कार्यं शक्तिप्रधानत्वात् स्वप्राधान्याच्च कारणं | शिवशक्तिसमायोगात् न कर्तृ करणं च तत् || २२ || पृ० १४) शक्तेःस्वातंत्र्यहानित्वात् कर्तृत्वं नैव सिद्ध्यति | उपादानस्वरूपेण कारणत्वं सुसम्मतं || २३ || शक्त्यादिकं पृथिव्यंतं परतत्वसमाश्रितं | कस्मात् ? अनाश्रितांतत्वात् दृष्टं लोके घटादिकं || २४ || पृ० १५) विवादाद्ध्यासिता शक्तिः धर्मत्वात् क्वचिदाश्रिता | यथा घटाश्रितं दृष्टं घटत्वं शक्तिरीदृशी || २५ || धर्मत्वं तत् वृत्तिमत्वात् शक्तेः सिद्धं प्रमाणतः | विश्वोपादानयुक्तो हि विश्वकर्तृतः शिवः || २६ || व्यतिरेकाद्यधा दृष्टं लोके यत्तत् घटादिकं || किंवोपादानयुक्तो हि कर्तृत्वात् परमः शिवः || २७ || मृद्विशिष्टो यथा दृष्टः कुंभकारो घटादिकम् | पृ० १६) एवं सामान्यतो व्याप्त्या विश्वोपादानसंयुतः || २८ || स्वयं शिवः सिद्ध्यतीति तदुपादानसिद्धये | प्रधानकर्मकालानामतथात्वात् सयुक्तितः || २९ || उपादानं शक्तिरेव ब्रह्मनिष्ठा सनातनी | उपादेयं जगत्कर्तुं शिवस्य सहकारिणी || ३० || शिवानन्यस्वरूपेण चिदाकाशस्वरूपिणी | स्वाभाविकी धर्मरूपा साध्यते शास्त्रपारगैः || ३१ || चो? उवाच अनुमानप्रमाणेन सर्वमेतत्सुसम्मतं | तत्र वेदप्रमाणं मे निरूपय जगद्गुरो || ३२ || पृ० १७) चिद्घन उवाच अपौरुषेयवाक्यं यत् तत् वेद इति कथ्यते | तस्मात् स्वतःप्रमाणं तत् परमाप्तोपदेशतः || ३३ || सर्वे वेदाश्चामनंति ईश्वरास्तित्वमेव तत् | ईशावास्यमुखस्तत्र जागर्त्यौपानषद्गणः || ३४ || स्वतःप्रमाणसिद्धस्य वेदस्याप्तो महामतिः | स्वप्रमाणः स्वप्रकाशः स्वयंसिद्धोऽस्ति शंकरः || ३५ || वेदा निस्वासरूपेण स्पष्टोचारास्तथागमाः | पुरा शिवेन संप्तोक्तास्तस्मात्ते स्वप्रमाणकाः || ३६ || पृ० १८) तस्योक्त्या तस्यचास्तित्वसाधनं स्याज्जिहासितं | उपक्रमादिभिर्लिंगैस्तस्यार्थः प्रतिपाद्यते || ३७ || सोऽयमर्थः शिवाद्वैतसिद्धांते हि विशिष्यते | द्वैताद्वैतात्मके तस्मिन् सर्वश्रुतिसमन्वयः || ३८ || तस्मात्सर्वैर्वेदवाक्यैःशिवाद्वैतोक्त रीतितः | सर्वप्रमाणसिद्धं तत् शिवास्तित्वं सुसाध्यते || ३९ || यो बहुस्यां प्रजायेयमिति वाक्यात्समीरितः | अहंताश्रयरूपत्वात् कर्ता कर्मान्य उच्यते || ४० || अहंतांशस्य प्राधान्यात् शिव इत्यभिधीयते | इदंत्वांशस्य प्राधान्यात् शक्तिरित्युच्यते बुधैः || ४१ || पृ० १९) अहंतेदंतयोरैक्यात् शिवशक्त्योरभिन्नता | शक्तिशक्तिमतोरैक्यं चंद्रचंद्रिकयोरिव || ४२ || यद्भासा भासते विश्वं यस्मिन्नेवानुमोदते | तदेव हि परब्रह्म शिवशक्तिसमन्वितं || ४३ || परास्य शक्तिरित्यादिवाक्यैस्तत्सारगर्भितैः | प्रोच्यते स्वप्रमाणेन परब्रह्म शिवाभिदं || ४४ || चो? उवाच सर्वशक्तिविशिष्टो यः परब्रह्माभिधः शिवः | कथं लिंगस्थलाभिख्यः प्रोच्यते तद्वदस्व मे || ४५ || पृ० २०) चिद्घन उवाच बृहत्वाद्बृंहणत्वाच्च स्थलं ब्रह्मेति गीयते | स्थीयते लीयते यत्र तत्स्थलं ब्रह्मसंज्ञितं || ४६ || आगमेषु तदेवोक्तं वेदेषु प्रतिपादितं | स्थानादिव्यवदेशाच्च इति सूत्रेप्युदाहृतं || ४७ || जन्माद्यस्य यतश्चेति ब्रह्मसूत्रे यदीरितं | जगजन्मादिलिंगं तत् लिंगशब्देन कीर्त्यते || ४८ || लीयते गम्यते यत्र विश्वमेतच्चराचरं | तदेव लिंगं तद्ब्रह्म शिवतत्वं तदुच्यते || ४९ || पृ० २१) तस्माल्लिंगं परब्रह्म जिज्ञास्यं श्रुतिबोधतः | धर्तव्यं विधिवद्देहे ह्युपास्यं क्रमसाधितं || ५० || श्रोतव्यं श्रुतिवाक्यभ्यो मंतव्यं चोपपत्तिभिः | ध्यातव्यमनुसंधानात् प्राणलिंगानुसारतः || ५१ || भावितव्यं भावलिंगं सोऽहंभावानुभावतः | द्रष्टव्यं स्वात्मना शक्तिविशिष्टं परमास्पदं || ५२ || भिद्यते हृदयग्रंथिश्छिद्यंते सर्वसंशयाः | क्षीयंते चास्य कर्माणि तस्मिन् दृष्टे परावरे || ५३ || पृ० २२) इतिश्रीपूवल्ली- भाष्यसिंहासनाधीश-श्रीपंचवर्णसूत्रसांप्रदायप्रवर्तक श्रीजगद्गुरु-सिद्धनंजेश-शिवाचार्य-विरचितायां शिवसिद्धांतचंद्रिकायां चो?चिद्घनसंवादविलसितायां प्रथमपरिच्छेदः || अथ द्वितीयपरिच्छेदः चो? उवाच विश्वोपादानरूपा या शक्तिरुक्ता जगद्गुरो | तस्याः स्वरूपं श्रोतुं तत् मेऽस्ति कौतूहलः प्रभो || १ || सप्रमाणं महास्वामिन् कार्यकारणबोधतः | सर्वशंकासमाधानं यथा स्यान्मे तथा वद || २ || चिद्घन उवाच सुष्टु पृष्टं महाभाग सार्वभौम नृपोतम | वेदागमानां यत्सारं तत्सर्वं ते निरूपये || ३ || पृ० २३) चिदचिद्रूपमापन्ना ब्रह्मशक्तिः सनातनी | चिदचिद्रूपविश्वस्य ह्युपादानमितीर्यते || ४ || शक्तेर्विकासभावेन विश्वसृष्टिर्भवेत्तथा | तस्याः संकोचभावेन विश्वस्य प्रलयो भवेत् || ५ || स्थितिर्विकाससंकोचसमानावस्थया भवेत् | कूर्मावयवन्यायेन तत्क्रमः समुदीरितः || ६ || शक्तिः परिणता भूत्वा शिवसान्निध्यमात्रतः | कार्यरूपसमापन्ना विश्वरूपेण भासते || ७ || यद्भासा भासते विश्वं यस्मिन्नेवानुमोदते | परास्य शक्तिरित्यादिश्रुतिभिः सा समीरिता || ८ || पृ० २४) स्वस्वरूपपरित्यागात् स्वरूपांतरसंस्थितिः | तत्कार्यमितिसंप्रोक्तं बुधैः सत्कार्यवादिभिः || ९ || मृत्स्वरूपपरित्यागात् घटाद्यंतररूपतः | दृष्टं कार्यं यथा लोके तथैतत्कार्यमिष्यते || १० || कार्यावस्थाश्रयत्वेन यत्कार्योत्पादकं भवेत् | तत्कारणं समाख्यातमुपादानसमाह्वयं || ११ || यथाहिकुंडलावस्थाश्रयत्वेन च कारणं | स्वर्णं भवेत्तथा शक्तिर्विश्वोपादानमिष्यते || १२ || पृ० २५) उपादानाश्रयत्वेन यत्कार्योत्पादकं भवेत् | तत्कारणं निमित्ताख्यं कर्ता स्यात्तद्विशेषतः || १३ || कारणेषु च सर्वेषु यः स्वतंत्रश्च चेतनः | स एव कर्ता कार्यस्य घटादेश्च कुलालवत् || १४ || उपादानं निमित्तं च विश्वस्य परमः शिवः | शक्तिवैशिष्ट्यतः प्रोक्तस्तंतोर्लूता यथा श्रुतः || १५ || शक्त्यंशे स्यादुपादानं शिवांशेच निमित्तकं | उभयोरैक्यतः प्रोक्तं कारणं चोभयात्मकं || १६ || पृ० २६) स्थूलशक्तिरिदं कार्यं सूक्ष्मशक्तिस्तु कारणं | स्थूलत्वात्तदुपादेयमुपादानं तु सौक्ष्म्यतः || १७ || कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः | कार्यकारणवैषम्यात् वैषम्यं शिवजीवयोः || १८ || कार्यं तु कारणाभिन्नं जगदेतच्छिवाभिधात् | कारणात्यंतभिन्नं तत् सिद्धांतेऽस्मिन्न चोच्यते || १९ || तत्तथा सति सत्कार्यमसत् सदसदेव वा | सत्कार्यं चेत्कारणस्य कार्यस्य सत्तयाऽथवा || २० || कारणस्य यदि स्यात्तत् सत्ताभेदःकथं भवेत् | भवेत् कारणसत्ताया भिन्नं तत् कार्यसंज्ञितं || २१ || पृ० २७) इति चेत्कार्यसंज्ञं तदसदेव भवेत्तदा | सत्ताहीनस्य कार्यस्य युज्यतेऽसत्वमेव तत् || २२ || प्राप्तेऽसत्वे तु कार्यस्य सत्कार्योक्तिर्वृथा भवेत् | कार्यस्य सत्तया चेत्सा भिन्ना कारणसत्तया || २३ || सद्रूपेणाथवा स्यात्सा असद्रूपेण वा भवेत् | सद्रूपेण यदि स्यात्तु एका सत्ताभिदा कथं || २४ || असद्रूपेण चेद्भिन्ना सा न सत्तेति कथ्यते | यद्यसत्कार्यमिष्येत तर्हि कार्यं न तद्भवेत् || २५ || वंध्यापुत्रो न कस्यापि वस्तुतः कार्यमिष्यते | प्रागभावो न कार्यं स्यात् तस्योत्पत्तेरसंभवात् || २६ || पृ० २८) वंध्यापुत्रस्य नास्त्यैव सम्बंधः कारकैस्तथा | शून्यवन्निरुपाख्यत्वात् ततो नास्ति जनिक्रिया || २७ || विशेषोऽस्तीत्यसत्वेऽपि कार्यस्य यदि गम्यते | विशेषः कोऽस्य संबंधः कारकैर्यदि तन्न हि || २८ || संबंधोऽस्ति विशेषो यः संबंधोऽस्य स उच्यते | अस्य जनिक्रियावत्वं विशेषश्चेत्तदा तथा || २९ || उक्तदोषस्तु संप्राप्तस्तस्य नास्ति निवारणं | सत्तासंबंधवत्वं चेत् विशेषोऽस्य न तत्पटु || ३० || पृ० २९) दोषस्तदापि संप्रोक्तः पूर्वोक्तोऽस्य न संशयः | अतोऽसतो न कार्यत्वं सदसत्वं न संगतं || ३१ || दोषद्वयस्य संप्राप्तिः पूर्वोक्तस्य समापतेत् | तस्मान्मात्सर्यमुत्सार्य कार्यकारणयोस्तदा || ३२ || अभेद एवं भेदस्यासंभवादेव मन्यतां | अतो नात्यंतभिन्नत्वं भेदाभेदो हि सम्मतः || ३३ || न कारणात्कार्यजातं भिद्यते तद्धि वस्तुतः | कार्यकारणभेदश्च कारकव्यावृतिस्तथा || ३४ || उत्पत्तिश्च विनाशश्च तथैवार्थक्रियाऽपि च | नामरूपविशेषश्च सर्वं वाचैव केवलं || ३५ || पृ० ३०) तस्मात्सर्वविकारोऽयं वाचारंभणमात्रतः | नामरूपादिसंयुक्तः कारणाकार एव सः || ३६ || कारणाभिन्नरूपेण कार्यं कारणमेव हि | सिद्धांतेऽस्मिन् शिवाद्वैते प्रोच्यते पंडितोत्तमैः || ३७ || अतः कारणविज्ञानात् सर्वविज्ञानबोधकं | प्रतिज्ञावचनं युक्तं संदेहो नास्ति कश्चन || ३८ || एवं कारणमेकं तत् न भिन्नं नोभयात्मकं | भेदो न सर्वथा युक्तो धर्म्यादेरनिरूपणात् || ३९ || पृ० ३१) ज्ञाते भेदे हि धर्म्यादिविभागज्ञानमापतेत् | विभेदेनैव धर्म्यादौ विज्ञाते भेदवेदनं || ४० || कार्यकारणरूपेण भेदाभेदो हि सम्मतः | तस्माच्च कारणं नित्यमेकमेवाऽद्वितीयकं || ४१ || मृदादेश्च कुलालादेः भेदे दृष्टेऽपि भूतले | चैतन्याभावतस्तस्य कुलालादिरपेक्ष्यते || ४२ || तथात्र चिदचिच्छक्तिविशिष्टस्य परात्मनः | अन्यन्नापेक्ष्यते किंचित्कारणं चेतनात्मकं || ४३ || पृ० ३२) चेतनोऽपि स्वयं सांबः कुलाल इव कारणं | नापेक्षते मृदा तुल्यं अन्याचेतनकारणं || ४४ || तस्माच्छक्तेरचिंत्यायाश्चेतनाचेतनत्वतः | चेतनाचेतनं विश्वं कार्यं सर्वं प्रसूयते || ४५ || चिद्रूपस्य च सत्यत्वं युक्तं सर्वप्रमाणतः | सदेव सौम्येदमग्र आसीदिति श्रुतीरितं || ४६ || सद्रूपं कारणं प्रोक्तं नासद्रूपं तु तत्वतः | वंध्यापुत्रो न कस्यापि कारणं प्रोच्यते बुधैः || ४७ || असत् स्वशक्त्या सर्वेषां कारणं भवतीति चेत् | असतो नास्ति सा शक्तिः सद्बीजस्य हि दर्शनात् || ४८ || पृ० ३३) शक्त्या सद्रूपबीजस्य अंकुरोत्पत्तिरिष्यते | तथा सद्ब्रह्मणः शक्त्या प्रपंचोत्पत्तिरिष्यते || ४९ || शक्तिप्रभावतो विश्वमसत्कार्यं प्रजायते | इति चेत्सा सती शक्तिरसती वा थोभयात्मिका || ५० || सती चेत्सा सती शक्तिः कथंवंध्यासुताश्रया | सतो दृष्टं चाश्रयत्वं नासतो दृश्यते भुवि || ५१ || असती चेत् कथं शक्तिः कार्यनिर्वाहिका भवेत् | कार्यनिर्वाहकस्तत्र वंध्यापुत्रः कथं भवेत् || ५२ || खपुष्पेणाऽसता पक्वफलोत्पत्तिः कथं भवेत् | निर्वाहत्वादिधर्माणां सद्रूपस्य न चासतः || ५३ || पृ० ३४) एवं सदसती सा चेत् दोषद्वयसमागमः | तस्मादसत् स्वशक्त्या तत् नैव कार्यं च कारणं || ५४ || नासतो विद्यते भावो नाभावो विद्यते सतः | अतोऽयुक्तमसद्वादो जल्पमात्रं न युक्तिमान् || ५५ || असद्वेत्यादिवाक्यैस्तु कार्यसूक्ष्मदशा श्रुता | ग्रीष्मकाले तृणादीनां धरित्रीलीन बीजवत् || ५६ || कारणे लीनकार्यस्य सूक्ष्मावस्थाऽसदीरिता | अतः सर्वैः श्रुतेर्वाक्यै सद्रूपत्वं व्यवस्थितं || ५७ || पृ० ३५) सत्प्रतीतियुतं सर्वं ब्रह्मसत्तानुबोधितं | सत्ताशक्तिस्वरूपेण शिवाद्वैते प्रतिष्ठितं || ५८ || एवं सच्चित्परब्रह्म परप्रेमास्पदत्वतः | आनंदघनमित्युक्तं जीवमोक्षप्रदत्वतः || ५९ || यद्यानंदमयं नास्ति ब्रह्म चेत्सच्चिदात्मकं | बंधमोक्षव्यवस्था हि कथं संगच्छते तदा || ६० || कालकर्मविपाकेन बद्धजीवात्मसंततेः | परप्रेमास्पदाभावात् कथं मोक्षप्रदो भवेत् || ६१ || पृ० ३६) तस्मात्सच्चित्सुखाकारैरस्तिभातिप्रियात्मभिः | धर्मैः संकीर्त्यते सांबः सच्चिदानंदलक्षणः || ६२ || बहुस्यामितिवाक्येन सोऽयं शक्तिप्रभावतः | षट्त्रिंशत्तत्वरूपं तत् विश्वं सर्वमसीसृजत् || ६३ || शक्तिः सदाशिवश्चेशो विद्या मायादिहेतवः | विद्या रागस्तथा कालो नियतिश्च कला तथा || ६४ || पूरुषश्च प्रधानं च बुद्धिश्चाहंत्वमानसे | ज्ञानेंद्रियानि पंचैव पंचकर्मेंद्रियाणि च || ६५ || पंचतन्मात्रभूतानि महाभूतानि पंच च | एवं सृष्टः शिवात्साक्षात् षट्त्रिंशत्तत्वसंचयः || ६६ || तत्सृष्ट्वायं तदेवानुप्राविशच्चांतरात्मना | प्रविश्य विश्वरूपेण नामरूपक्रियान्वितः || ६७ || पृ० ३७) विश्वाधारपराशक्त्या भाति विश्वमयः शिवः | देवात्मशक्तिं स्वगुणैर्निगूढां तां स्वभक्तितः || ६८ || पश्यंति ध्यानयोगेन लिंगांगैक्यानुभावतः | तस्मात्सर्वप्रयत्नेन ध्यानयोगरतो भव || ६९ || इति श्रीपूवल्लीभाष्यसिंहासनाधीश श्रीमज्जगद्गुरुसिद्धनंजेश शिवाचार्यविरचितायां शिवसिद्धांतचंद्रिकायां द्वितीयपरिच्छेदः || चो? उवाच श्रीगुरो करुणासिंधो दीनबंधो महाप्रभो | कथं ब्रह्मात्मिकां शक्तिं पश्यंति ध्यानयोगिनः || १ || तदुच्यतां महास्वामिन् वेदागमसुसम्मतं | यसिध्यर्थं? सदा भक्त्या प्रयतंते मुमुक्षवः || २ || पृ० ३८) चिद्घन उवाच भो सत्येन्द्र महाभाग त्वया पृष्ठमिदं वचः | मुमुक्षूणामिहामुत्र भोगमोक्षफलप्रदं || ३ || तत्सर्वं ते प्रवक्ष्यामि सर्वशास्त्रार्थनिश्चितं | गौप्याद्गौप्यतरं लोके शिवाद्वैतं शिवं पदं || ४ || योगा बहुविधाः प्रोक्ताः कर्मज्ञानादिभेदतः | तेष सर्वेषु शास्त्रोक्तध्यानयोगो विशिष्यते || ५ || ध्यानं हि साधनं साक्षात् देवात्मशक्तिदर्शने | ध्यानानुकारिणं? शैवीं शक्तिरव्यभिचारिणी || ६ || पृ० ३९) कोटिजन्मार्जितैः पुण्यैः शिवे भक्तिः प्रजायते | भक्त्या संजायते ज्ञानं ज्ञानान्मुक्तिर्न संशयः || ७ || कर्मावलंबिनः केचित् केचित् ज्ञानावलंबिनः | वयं तु भक्तिसंपत्या ध्यानयोगावलंबिनः || ८ || भक्तिगम्ये ध्यानयोगे कर्मज्ञानसमुच्चयः | तस्मादस्मिन् आगमोक्ते सर्वश्रुतिसमन्वयः || ९ || निरीश्वरः सांख्ययोगो परिहासपथं व्रजेत् | वियोगे योगयोगार्थः कथंचिन्नैव युज्यते || १० || पृ० ४०) नैयायिकादिद्वैतानां योगिकार्थो न युज्यते | द्वैतज्ञानं तु ब्रह्मैक्ये योगशब्दार्थबोधिते || ११ || साधनं तत्कथं भूयात् द्वित्वस्यैक्ये विरोधतः | द्वैतभावनिवृत्त्यर्थं तत्रोपासा विधीयते || १२ || बाह्योपासनया साक्षात् अंतरोपासना स्थिरा | तया च शिवजीवैक्यं साक्षात्कारसमाह्वयं || १३ || तस्मादुपासनायुक्तो भक्तो मुक्तो भविष्यति | मुक्तिकामेन सद्भक्त्या ध्यानयोगं समाश्रयेत् || १४ || केचिदद्दैतमार्गेण सन्यासं समुपाश्रिताः | मननादव संतृप्ता मुक्तिज्ञानं वदंति च || १५ || पृ० ४१) तेषां तज्ञानतृप्तानां मिथ्याज्ञानाभिमानिनां | कथं तच्छिवजीवैक्ये साक्षादनुभवो भवेत् || १६ || भक्त्यानंदरसैक्यं यत् जीवब्रह्मैक्यशब्दितं | तत्कथं संभवेद्भक्तिहीनस्याद्वैतवादिनः || १७ || ज्ञानमात्रेण संतृप्ता ध्यानाभ्यासाद्विना ततः | शुद्धाद्वैतं प्रजल्पंति वयं ब्रह्मात्मका इति || १८ || वेदैकदेशवर्तित्वं तस्मादद्वैतवादिनां | अस्मान्मात्सर्यमुत्सार्य शिवाद्वैतं समाश्रयेत् || १९ || शिवाद्द्वैतैकसिद्धांते सर्वश्रुतिसमन्वयात् | साक्षादनुभवेनैव जीवन्मुक्तिसुखं व्रजेत् || २० || पृ० ४२) चो? उवाच सद्गुरो योगशब्दार्थो ज्ञातः सुस्पष्टतो मया | किंतु पातंजले योगे स्पष्टमष्टांगगर्भिते || २१ || ध्यानं समुचितं प्रोक्तं तेनैवैक्ये समुद्भवे | कुतस्तध्यानयोगेन साधयेत्तां शिवैकतां || २२ || एतद्विस्तरतो योगिन् प्रोच्यतां भक्तवत्सल | त्वमेव मम संदेहं छेत्तुं शक्नोषि मत्प्रभो || २३ || चिद्घन उवाच यदुक्तं नृपशार्दूल पातंजलमतं त्वया | तदतीव प्रयासेन लब्धुं शक्यं मुमुक्षुभिः || २४ || तथापि तादृशे योगे नैक्यार्थो योग उच्यते | सांख्यक्रमोक्त एव स्याद्वियोगार्थो यथा स्थितः || २५ || पृ० ४३) शिवजीवसामरस्ये भक्त्यानंदैकतायुते | युज्यते न हि योगार्थो ध्यानयोगे यथोदितः || २६ || अष्टांगयोगे ध्यानस्य साधनत्वेऽपि तत्वतः प्रत्यक्षे साधनं किंतु शिवजीवैक्यै न संभवेत् || २७ || पुरुषश्च प्रकृत्याश्च वियोगो योग उच्यते | तध्यानं शिवजीवैक्ये कथं साधनतां व्रजेत् ? || २८ || सजातिध्यानसंतत्या ज्ञानं यत् शिवजीवयोः | सामरस्ये साधनं स्यात् कीटभ्रमरयोगवत् || २९ || पृ० ४४) समाधौ सामरस्याख्ये द्वारं यल्लिंगधारणं | तत्साधनं ध्यानमाहुर्ध्यानयोगपरायणाः || ३० || ध्यानात्तद्धारणं तस्मात् समाधिस्तु शिवैकता | अतोंऽतर्धारणं कुर्यात् लिंगस्य परमात्मनः || ३१ || अंतर्धारणशक्तो वाप्यसक्तोवा शिवव्रती | बाह्ये लक्ष्यादिसिध्यर्थं कुर्यात्तल्लिंगधारणं || ३२ || पृ० ४५) देवधारणो भूयासं अमृतस्येति वाक्यतः | बाह्ये चाभ्यंतरे मुक्त्यै लिंगधारणमीरितं || ३३ || पाणिमंत्रोदितं तत्त्वं नवलिंगसकीलकं | नवचक्रस्थितत्वेन बाह्याभ्यंतरभेदतः || ३४ || लिंगधारणमाख्यातं लिंगांगैक्यप्रबोधकं | तस्मात् शास्त्रोक्तविधिना धारयेल्लिंगमुत्तमं || ३५ || ऽऽओं निधनपतये नमः निधनपतांतिकाय नमः | ओं ऊर्ध्वाय नमः ऊर्ध्वलिंगाय नमः | ओं हिरण्याय नमः हिरण्यलिंगाय नमः | ओं सुवर्णाय नमः सुवर्णलिंगाय नमः | ओं दिव्याय नमः दिव्यलिंगाय नमः | ओं भवाय नमः भवलिंगाय नमः | ओं शर्वाय नमः शर्वलिंगाय नमः | ओं शिवाय नमः शिवलिंगाय नमः | ओं ज्वलाय नमः ज्वललिंगाय नमः | ओं आत्माय नमः आत्मलिंगाय नमः ओं परमाय नमः परमलिंगाय नमः एतत्सोमस्य सूर्यस्य सर्वलिंगं स्थापयति पाणिमंत्रं पवित्रं ||ऽऽ पृ० ४६) धृत्वाष्टावरणाचारैः पतिधर्मसमाश्रितैः | शिवभक्त्या शिवध्यानात् शिवयोगं समाश्रयेत् || ३६ || लिंगांगसंगमो योगी ध्यानयोगी स उच्यते | तस्मात् भक्तिप्रभावेन लिंगांगैक्यसुखं व्रजेत् || ३७ || अविज्ञाते परे तत्वे योगाभ्यासो हि निष्फलः | विज्ञाते च परे तत्वे योगाभ्यासो हि निष्फलः || ३८ || तस्मात् षट्स्थलमार्गेण ध्यानयोगक्रमेण च | इष्टलिंगप्राणलिंगभावलिंगानुभावतः || ३९ || सद्गुरूक्तमहामंत्रजपानुष्ठानसंयुतः | सदा योगी शिवासक्तो जीवन्मुक्तो भविष्यति || ४० || पृ० ४७) चो? उवाच सुविज्ञातो मया सर्वयोगमार्गक्रमः प्रभो | तत्र मे नास्ति संदेहस्तव बोधप्रभावतः || ४१ || तस्मात् षट्स्थलमार्गोक्तध्यानयोगक्रमो मम | यथा साध्यो भवेत् शीघ्रं तथा सर्वं निरूपय || ४२ || चिद्धन उवाच परब्रह्माभिदं लिंग स्थलमित्यभिधीयते | तदंशा जीवनामानो विस्फुलिंगा इवानलात् || ४३ || अंगशब्देन कथ्यंते अंशांशित्वव्यवस्थया | यस्य चात्मा शरीरं चेत्यंगशब्दस्य वाच्यता || १४ || जीवानां वेदतः सिद्धाश्चांगांगित्वव्यवस्थया | तस्मादंगाभिधा जीवाः परतत्वे विवेचिताः || ४५ || पृ० ४८) अतः स्थलं द्विधाप्रोक्तं आगमेषु यथाक्रमं | उपास्योपासकत्वेन लिंगांगत्वेन बोधितं || ४६ || उपास्यं लिंगमाख्यातमंगं चोपासकं स्मृतं | तत्रोपास्यप्रभेदेन प्रोक्तोपासकभिन्नता || ४७ || घनलिंगं परब्रह्म सच्चिदानंदलक्षणं | तद्धर्मैस्त्रिविधं प्रोक्तं भावप्राणेष्टभेदतः || ४८ || आनंदकलया युक्तं भावलिंगमितिश्रुतं | चित्कलासंयुतं तत्र प्राणलिंगमितीरितं || ४९ || सत्कलासहितं बाह्यमिष्टलिंगमुदाहृतं | एवं कलाविशिष्टत्वादुपास्यत्वं व्रजेत्परं || ५० || पृ० ४९) सुषुप्तौ भावलिंगं स्यात् स्वप्ने तत्प्राणलिंगकं | साक्षी जाग्रदवस्थायामिष्टलिंगमिति श्रुतं || ५१ || एवमंगस्थलाभिख्यो जीवोऽवस्थादिभेदतः | त्रिधा प्रोक्तः फलं भोक्ता स्वस्वकर्मानुसारतः || ५२ || अंतर्यामी शिवः साक्षी लिंगशब्देन गीयते | फलभोक्ता तत्र जीवो ह्यंगशब्देन वर्ण्यते || ५३ || द्वासुपर्णेति मंत्रेण श्रुतमेतत् श्रुतावपि | संसारीत्युच्यते जीवः साक्षी चेता परः शिवः || ५४ || पृ० ५०) चैतन्यं साक्षिरूपं तत् लिंगं धृत्वा च भक्तितः | त्रिधोपासनभेदेन पूजयेद्भक्तसत्तमः || ५५ || प्राणलिंगानुसंधानादुपासीत निरंतरं | एतत्क्रमः सप्रमाणं दहरोपासनोदितः || ५६ || लक्ष्यत्रयप्रभेदेन त्रिविधोपासनाश्रितः | नीलकंठशिवाचार्यैः सूत्रभाष्ये निरूपितः || ५७ || चो? उवाच भो सद्गुरो महास्वामिन् शिवतत्वविशारद | या त्वयोपासना प्रोक्ता जीवन्मुक्तिफलप्रदा || ५८ || सा कथं साध्यते श्रीमन् मया शास्त्रविधानतः | तस्या उपायं मे ब्रूहि सर्वशास्त्रविचक्षण || ५९ || पृ० ५१) चिद्घन उवाच सम्यक् पृष्ठं नृपश्रेष्ठ त्वयोपायविचिन्वता | गुरुरत्र महोपायो येन साध्यं स्वभीप्सितं || ६० || यस्य कृपाविशेषेण मुक्तिर्भक्तकरस्थिता | तस्मात् सद्गुरुपादाब्जं सेवेत भक्तसत्तमः || ६१ || महापाशुपतोद्दिष्टां महामंत्रप्रबोधिका | वीरशैवीं महादीक्षां प्राप्नुयात् गुरुबोधतः || ६२ || त्रिकालं वा द्विकालं वा चैककालं यथाश्रितं | लिंगं संपूज्य तन्मंत्रं जपन् तध्यानतत्परः || ६३ || बंधमुद्रासमेतः सन् षट्स्थलक्रममाश्रितः | प्राणलिंगमुपासीत भावलिंगानुभावतः || ६४ || पृ० ५२) तत्त्वमस्यादिवाक्यानां तत्वार्थं गुरुबोधतः | श्रुत्वा तन्मननाद्भक्तः सद्गुरोः करुणादरात् || ६५ || अंगत्रयगतानादिमलत्रयविनाशनात् | गिंलत्रयानुसंधानात् अवस्थात्रयवर्जितः || ६६ || परब्रह्माभिदं सांबं साक्षात्कृत्य शिवं परं | शिवभक्तिरसोद्दिष्टं शिवशक्तिसमन्वितं || ६७ || ब्रह्मानंदरसैक्येन स्वानुभावविजृंभितं | सामरस्यं समावाप्य शिवेन सह मोदते || ६८ || पृ० ५३) इति श्रीपूवल्लीभाष्यसिंहासनाधीश श्रीमज्जगद्गुरुसिद्धनंजेशशिवाचार्य विरचितायां शिवसिद्धांतचंद्रिकायां तृतीयपरिच्छेदः || चो? उवाच धन्योऽहं कृतकृत्योऽहं पीतं बोधामृतं तव | त्वमेव शरणं स्वामिन् संसारार्णवतारणे || १ || भवादृशं गुरुं हित्वा नान्योऽज्ञाननिवर्तकः | यथा सूर्यं विना नान्योऽस्त्यंधकारनिवर्तकः || २ || यस्मात्सद्गुरुराजेंद्र शिवदीक्षापुरःसरं | महामंत्रोपदेशेन त्वया मे कुलमुद्धृतं || ३ || ततो यातो विनीतत्वं त्वत्प्रभावाज्जगद्गुरो | तत्त्वमस्यादिवाक्यानां तत्वार्थं में निरूपय || ४ || पृ० ५४) चिद्घन उवाच भो सत्येंद्रमहाराज तव बुद्धिर्विचक्षणा | त्वया दृष्टं महावाक्यतत्त्वार्थं ते निरूपये || ५ || महावाक्यानि चत्वारि संति लिंगैक्यबोधने | तत्र तत्त्वमसीत्येतत् परोक्षेणावधारितं || ६ || सौम्यमुद्द्विश्य छांदोग्ये षष्ठाध्याये सुविस्तरं | नवकृत्वः सदृष्टांतं गुरुणां तत्प्रबोधितं || ७ || यो लिंगांगसामरस्यरहस्यार्थो निगद्यते | स एव तत्वमस्यादिमहावाक्यैर्निरूप्यते || ८ || तत्पदेनोच्यते लिंगं परब्रह्म शिवाभिधं | त्वं पदेनोच्यते चांगं बद्धं जीवात्मनामकं || ९ || तत्रासीतिपदेनैव सामरस्यं च वर्ण्यते | शिवजीवैक्यमित्यत्र समानार्थ उदाहृतः || १० || पृ० ५५) सूक्ष्मशक्तिविशिष्टं यत् लिंगं तत्पदबोधितं | स्थूलशक्तिविशिष्टं यच्चांगं त्वंपदबोधितं || ११ || सौक्ष्म्यस्थौल्यपरित्यागात् शक्तिमात्रयुतत्वतः | उभयोः सामरस्यं तच्चासिशब्देन कथ्यते || १२ || अतो लक्ष्यार्थतः शब्दसामानाधिकरण्यतः | विशेषणविशेष्यत्वात् लक्ष्यलक्षणभावतः || १३ || लिंगांगयोः सामरस्यं तत्वमस्यादिबोधितं | ज्ञातव्यं गुरुणा प्रोक्तं वाक्यार्थं श्रुतिसंगतं || १४ || पृ० ५६) आदौ तयोर्द्वैतसिद्धावद्वैतं प्रोच्यते बुधैः | उपासनाबलाज्जीवो द्वैतभावं निवारयन् || १५ || अद्वैतपदमारूढः शिवशक्तिं प्रपश्यति | विनोपासनया साक्षाद्द्वैतभावो न नश्यति || १६ || द्वैतापत्या कथं तस्य ह्यद्वैतस्फुरणं भवेत् | वाचाडंबरमात्रेण ज्ञानतृप्त्यैकलालसाः || १७ || उपाध्योः संपरित्यागात् जीवात्मपरमात्मनोः | शुद्धाद्वैतं प्रचक्षंते स्वानुभावविवर्जिताः || १८ || पृ० ५७) कीटो भ्रमरयोगेन भ्रमरत्वं यथा व्रजेत् | जीवस्तु शिवयोगेन शिवत्वं हि व्रजेत्तथा || १९ || चैतन्यमात्मनो रूपमिच्छाज्ञानक्रियात्मकं | तस्यानावृतरूपत्वात् शिवत्वं केन वार्यते || २० || अन्वयानुपपत्तेश्च तात्पर्यानुपपत्तितः | यत्र वाक्यार्थसंबंधस्तत्रैव लक्षणोच्यते || २१ || सा च त्रिधा जहत्स्वार्था ह्यजहल्लक्षणा तथा | जहत्यजहती चेति तृतीया कथ्यते बुधैः || २२ || वाच्यार्थं संपरित्यज्य तत्संबंधान्यवृत्तितः | गंगाया घोष इत्यत्र तीरे प्रोक्ताद्यलक्षणा || २३ || पृ० ५८) वाच्यार्थमपरित्यज्य तत्संबंधान्यवृत्तितः | शोणो धावति चेत्यत्र ह्यजयत्स्वार्थयोच्यते || २४ || एकदेशपरित्यागादेकदेशप्रवृत्तितः | सोऽयं देवदत्त इति जहत्यजहतीरिता || २५ || पृ० ५९) एवं तत्त्वमसीत्यत्र तृतीया लक्षणोच्यते | सौक्ष्म्यस्थौल्यपरित्यागेनैकशक्तिविशिष्टतां || २६ || लिंगांगयोः समाहृत्य सामरस्यं विदुर्बुधाः || एतत्समन्वयः शक्तिविशिष्टाद्वैतनामके || २७ || अस्ति सिद्धांतवाक्येऽस्मिन् द्वैताद्वैतव्यवस्थिते | अद्वैते च तथाद्वैते भ्रांतिमूलः समन्वयः || २८ || पृ० ६०) अथवाऽन्यः प्रकारार्थो वाच्यार्थत्वेन कथ्यते | अहमादिपदानां तदंतर्याम्यर्थबोधनात् || २९ || यस्य चात्मा शरीरं चेत्यंगशब्दस्य वाच्यता | जीवात्मनो हि विश्वस्य शरीरत्वान्महेशितुः || ३० || शरीरवाचकाःशब्दा वाचकास्तच्छरीरिणः | तस्माच्छरीरिपर्यंतवाच्यार्थत्वप्रबोधकाः || ३१ || स्थूलोऽहं वा कृशोहं चेत्यस्य स्थूलादिवाच्यता | साक्षात्परंपरात्वेन जीवांतर्यामिणोर्मता || ३२ || अहमादिपदानां च तत्प्रपन्नप्रयोगतः | शिवस्यांतर्यामिणो हि शक्तिसत्वे न बाधकं || ३३ || पृ० ६१) तस्मात्त्वंपदवाच्यत्वं शिवस्यास्तीति तत्वतः | तत्त्वमसीति वाक्येन वाचत्वाभेदतस्तयोः || ३४ || लिंगांगयोः सामरस्यं निराबाधं निगद्यते | अहंब्रह्मास्मीतिवाक्यात् अपरोक्षेण कथ्यते || ३५ || लिंगरूपो महादेवः सच्चिदानंदलक्षणः | अंगरूपो हि जीवत्मा भवभावनियंत्रितः || ३६ || तत्पदेनोच्यते सद्भिर्लिंगरूपः सदाशिवः | त्वंपदेनांगरूपो हि जीवः संसारलक्षणः || ३७ || पृ० ६२) त्वमर्थोंऽगस्वरूपो यः सोऽहं शब्दर्थ एवहि | त्वमहंपदलक्ष्यार्थश्चिद्रूपः परमेश्वरः || ३८ || त्वमहंपदवाच्यार्थस्यैवदेहादिवस्तुनः | न तच्छब्दार्थतश्चैव विरुद्धात्वान्न बोधनं || ३९ || त्वमहंपदलक्ष्यार्थो जीवात्माचांगरूपकः | अशिवश्चैत्सदानंदं ततो नैव विलोकयेत् || ४० || एवं वाच्यार्थमादाय त्वहमादिपदस्य हि | अस्त्यहं ब्रह्मणोरैक्यं साक्षात्परंपराश्रुतं || ४१ || प्रज्ञानं ब्रह्म चेत्यत्र प्रज्ञाशक्तिसमायुतं | प्रज्ञानं भावलिंगं तत् परब्रह्मेति कथ्यते || ४२ || येन वा पश्यतीत्यत्र स्वेंद्रियादिमुखैरिदं | षड्विधात्मकलिंगं यत् भावलिंगं तदीरितं || ४३ || एष ब्रह्मैष इंद्रश्चेत्यादि सर्वं प्रतिष्ठितं | इत्यतेन जगद्रूपं प्रतिपाद्य पुनस्ततः || ४४ || पृ० ६३) प्रज्ञाप्रतिष्ठेतिवाक्यात् प्रज्ञाशक्तिः प्रकीर्तिता | ततस्तच्छक्ति वैशिष्ट्यात् प्रज्ञानं ब्रह्म बोधितं || ४५ || अयमात्मा ब्रह्मेत्यत्र जीवात्मा चांगनामकः | लिंगरूपं परब्रह्म मांडूक्योपनिषत्श्रूतं || ४६ || शरीरत्रयसंबंधादवस्थात्रयसंयुतः | अंगवाच्यो हि जीवात्मा चायमात्मेति कथ्यते || ४७ || शरीररहितः साक्षादवस्थात्रयवर्जितः | तुरीयो लिंगवाच्यो हि शिवो ब्रह्मेति कथ्यते || ४८ || पृ० ६४) तस्माल्लक्ष्यार्थमादाय वाच्यार्थं वांगनामकः | चतुर्थः शिव एवेति सदा निश्चित्य तत्त्वतः || ४९ || शिवोऽहमिति भावेन शिवावस्थासमाश्रितः | ब्रह्मानंदं लभेद्भक्तः शिवाद्वैतं शिवंपदं || ५० || चो? उवाच श्रीमद्गुरो महास्वामिन् वेदागमविशारद | महावाक्यप्रबोधोऽयं ज्ञातस्त्वत्करुणाबलात् || ५१ || सर्वांगलिंगसाहित्यं कथं जीवात्मनो भवेत् | तद्वदस्व कृपासिंधो येन मुक्तिः स्थिरा भवेत् || ५२ || पृ० ६५) चिद्घन उवाच राजन् श्रुणु महाभाग शिवभक्तशिखामणे | भवादृशं विना वक्तुं गौप्यं किं विद्यते भुवि || ५३ || ईशावास्यमिदं सर्वं यत्किंचेति श्रुतीरितं | अंगं चेतदीशशब्दवाच्यलिंगमयं श्रुतं || ५४ || तेन लिंगेन हि त्यक्ते मा भुंजीथा कदाचन | अन्यलिंगं मा ग्रहाण मा जीवस्व शतं समाः || ५५ || प्राणानपि परित्यज्य सदा लिंगमयो भव | वाथ लक्षजपेनैतत् लिंगं धृत्वा सुखी भव || ५६ || पृ० ६६) त्यागांगे स्वेष्टलिंगं च भोगांगे प्राणलिंगकं | योगांगे भावलिंगं च पूजयेत् सुप्रतिष्ठितं || ५७ || एवं लिंगत्रयं स्वीयकलाभेदेन षड्विधं | उपासीत सदा भक्त्या वीरशैवो विधानतः || ५८ || आचारलिंगमाधारे नकारप्रणवान्वितं | घ्राणेंद्रियमुखं भक्तैः समुपास्यं निरंतरं || ५९ || स्वादिष्ठाने गुरुं लिंगं मकारप्रणवोज्वलं | जिह्वेंद्रियमुखं नित्यमुपास्यं तन्महेश्वरैः || ६० || मणिपूरे शिवं लिंगं शिकारप्रणवाश्रयं | नेत्रेंद्रियमुखं भक्त्या समुपास्यं प्रसादिभिः || ६१ || पृ० ६७) अनाहते चरं लिंगं वाकारप्रणवोल्लसत् | त्वगींद्रियमुखं रम्यमुपास्यं प्राणलिंगिभिः || ६२ || लिंगं विशुद्धौ प्रासादं यकारप्रणवान्वितं | श्रोत्रेंद्रियमुखं दिव्यमुपास्यं शरणैः सदा || ६३ || आज्ञाचक्रे महालिंगं ऊंकारप्रणवोज्वलं | मनोमुखं सदा चैक्यैः समुपास्यं स्वभक्तितः || ६४ || एवं स्वोपासनासक्तो लिंगत्रयसमाश्रितः | पूजाविधानतो भक्त्या सत्पदार्थसमर्पणात् || ६५ || पृ० ६८) दीक्षात्रयोण संदग्धमलत्रययुतत्वतः | इष्टलिंगं करांभोजे पूजयेत्सुविधानतः || ६६ || ततो मंत्रजपासक्तो भक्तो मुक्तिसुखेच्छया | मंत्रन्यासादिकं कृत्वा सद्गुरूक्तक्रमानुगः || ६७ || इष्टलिंगे बाह्यलक्ष्यं निधाय निहितात्मना | मध्यलक्ष्यं प्राणलिंगे धृत्वा हृत्पद्मशोभिते || ६८ || भावयित्वा भावलिंगमंतर्लक्ष्यानुसारतः | ध्यायन् निश्चलचित्तेन जपेत् पंचाक्षरीमनुं || ६९ || पंचाक्षरीं जपेत् गौप्यां न कदाप्युच्चरेद्बहिः | अन्यथा न लभेदैक्यं रौरवं नरकं व्रजेत् || ७० || पृ० ६९) ततो ध्यानस्थिरत्वेन स्वेष्टलिंगाकृतीरितं | ज्योतिःपुंजं प्राणलिंगे धृत्वा धारणमाचरेत् || ७१ || तत्परं तमसः लाक्षात् ज्योतिःपुजाकृति स्वयं | भावलिंगसमायोगात् दृश्यते परमाद्भुतं || ७२ || इष्टलिंगे बहिर्लक्ष्यात् सत्कला स्थिरतां व्रजेत् | प्राणलिंगे मध्यलक्ष्यात् चित्कलाविर्भवेत्स्थिरा || ७३ || अंतर्लक्ष्याद्भावलिंगे स्वात्मानंदकला स्फुरेत् | एवं क्रमेण सद्भक्तो भक्त्यानंदरसैकतां || ७४ || सच्चिदानंदरूपेण घनलिंगस्वरूपतां | संप्राप्य शिवयोगेन जीवन्मुक्तो भविष्यति || ७५ || पृ० ७०) सर्वं लिंगमयं चांगं सर्वं लिंगमयं जगत् | सर्वांगलिंगसहित्यं लिंगरूपेण पश्यति || ७६ || तत्र को मोहकः शोकः एकत्वमनुपश्यतः | इहामुत्रार्थसंसिद्धिर्जायते शिवयोगिनः || ७७ || तस्यां प्रीतिं परित्यज्य स्वेष्टसिद्धिं शिवास्पदां | संप्राप्य मोदते साक्षात् शिव एव भविष्यति || ७८ || इति परमरहस्यं चिद्घनाचार्यबोधं | अतिगहनमगम्यं श्रीशिवाद्वैततत्त्वं || अविचल शिवभक्त्या संनिशम्याचरन्सन् | अभवदिह हि जीवन्मुक्तिभाक् चो?राजः || ७९ || पृ० ७१) चन्नवीरामहादेव्यै चिक्कनंजेश्वराय च | शिवज्ञानैकसिद्ध्यर्थं प्रोक्ता सिद्धांतचंद्रिका || ८० || समाप्ता ########### END OF FILE #######