#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00270 Uniform title: śukavākya Manuscript : BHU C4252 Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 7, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### ओं नमो विघ्नहन्त्रे || श्री * न * ज * उ * च || भगवञ्श्रोतुमिच्छामि माहात्म्यं यच्छुकस्य च | परस्परं तु संवादं व्यासस्य च शुकस्य च || १ || यत्राश्रमपदे रम्ये संवादः सुमहानभूत् | पितुः पुत्रेण सहयस्तं मे ब्रूहि महामने || २ || शृणुष्वावहितो राजन्यथा तेषां महात्मनाम् | संवादमिममश्रौषमद्भुतलो महर्षणम् || ३ || तत्राश्रमपदेरम्ये सिद्धगन्धर्व सेविते | त्रैलोक्य विश्रुते देशे नाना ऋषि निसेविते || ४ || नानाद्रुमलताकीर्णे नानापुष्पो पशोभिते | ह्रदैश्च विविधाकारैस्तोयपूर्णैर्मनोरमैः || ५ || हंसकरण्ड वा कीर्णैश्चक्र वा कोपशोभितैः | सुनादैर्मधुरैः शब्दैर्हुङ्कारैः सुमनोरमैः || ६ || पक्षिभिर्विविधाकारैः पद्मैश्च भ्रमरा कुलैः | सेव्यमाने तु सततं ब्राह्मणैर्मुनि पुङ्गवैः || ७ || वेदध्वनिः श्रुयते च जुह्वतामग्नि होतृणाम् | तत्रास्रमपदेरम्ये तिष्ठते भगवान्नृप || ८ || पराशर सुतोव्यासो वेदव्यासो महामुनिः | प्. १८१अ) तस्य पुत्रो महायोगी शुकोनाममहात्मनाम् || ९ || समस्तशास्त्रविन्नित्यं पितरं परिपृष्टवान् | उपसङ्गृह्य चरणा विदं वचनमब्रवीत् || १० || रागद्वेषौ परित्यज्य श्रूयतां तातभाषितम् | संसारे विविधा दृष्टा महामोहमहार्णवे || ११ || मातरः पितरश्चैव बान्धवश्च सहस्रशः | भूषाणी यानि कर्माणि यौवनानि धनानि च || १२ || आगतश्च गतश्चैव नाना तिर्यक्त? योनिषु | भ्राम्यमाणो स्म्यहं तत्र यत्र वद्धः पशुर्यथा || १३ || प्राप्तोहं मानुषं लोकं कर्मभूमिं सुदुर्लभाम् | धर्म्यं स्वर्गस्य सोपानं मयालब्धं पुरातनम् || १४ || प्. १८१ब्) पूर्वमासा ऋतं? चैव मन्दिरं गणसेवितम् | नक्षत्त्रैस्तारकैश्चैव दीप्यमानं समन्ततः || १५ || भोगास्तत्र मया भुक्ताः परमाये विचिन्तिताः | परिभ्रष्टसुभश्चाहं क्षीणपुण्य इव ग्रहः || १६ || क्रिमिकीटपतङ्गेषु तिर्यग्योनि शतेषु च | अण्डजाः स्वेदजाश्चैव क्लेदजा भेदजास्तथा || १७ || उद्भिजामलजाश्चैतथाये चान्य योनिजाः | सिंहव्याघ्रवराहादि मार्जारादि शतेष्वपि || १८ || कीटोहं दशवर्षाणि पतङ्गोहं चतुर्दश | अण्डजातिस्तथा चैव शतं वर्षाणि वै पुनः || १९ || सिंहोहं दशवर्षाणि व्याघ्रः पञ्चदशापि च | प्. १८२अ) सूकरः पञ्चवर्षाणि ऋक्षः पञ्चदशाप्यहम् || २० || विंशद्वर्षाणि गर्ताटो *? लश्च चतुर्दश | त्रिंशद्वर्षाणि सर्पोहं जम्बुकत्वे त्रयोदश || २१ || हस्ती सप्तति वर्षाणि दशवर्षाणि गर्दभः | हंसोहं सप्तवर्षाणि दशवर्षाणि चातकः || २२ || गृद्ध्रः पञ्चदशाव्यानि काकत्वे दशवार्षिके | स्थावरत्वे गतश्चाहं पञ्चवर्षशतान्यपि || २३ || एवं जाति सहस्राणि भ्राम्यमाणेन नित्यशः | पक्षित्वेपि मयातात क्षुधादृष्टाति दारुणा || २४ || तिर्यक्षे कण्डुला नित्यं स्थावरत्वे तुषारता | एवं वर्षसहस्राणि त्वनु भूतानि वै मया || २५ || प्. १८२ब्) जातीः स्मरामित्राः सर्वा ह्यनु भूतास्सहस्राणि | एकैकां च विशेषेन स्मरमाणो लयं गतः || २६ || तदहं भीतभीतोस्मि संसारार्णवदुस्तरे | नरकेषु च घोरेषु पश्यमानः पुनः पुनः || २७ || भिन्नोहं विविधैश्शास्त्रर्यमदूतैः सुदारुजैः | संसारार्णव भीतोस्मि पञ्चभूतैरधिष्टिताः || २८ || इदं काममयं सर्वं विषयाः पञ्चमेन्द्रियाः | किमनेन करिष्यामि जरामरणभीतितः || २९ || तस्यै तद्वचनं श्रुत्वा शुकस्य स महात्मनः | अस्रुपूर्णो महायोगी ह्यासनात् पतितो भुवि || ३० || पराशर सुतो व्यासो वेदव्यासो महामुनिः | प्. १८३अ) वैष्णवी * *? माश्रित्य पुत्रस्नेहेन मोहितः || ३१ || कथं पुत्र परित्यज्य मातरं पितरं तथा | बान्धवांश्चैव मित्राणि सुहृत्संबन्धिनस्तथा || ३२ || प्रस्थाने गन्तुकामोस्ति नूनं हि तव पुत्रक | सर्वथा नास्ति मे कृत्यं भार्याया जीवितेन च || ३३ || माता पितृ सहस्राणि पुत्रदार शतानि च | संसारे ह्यनु भूतानि कस्य ते कस्य वा वयम् || ३४ || अहंता तत्व या जातो मयाजातास्सहस्रशः | सतेनापि सुतो जातः पश्यमायां विजृम्भितम् || ३५ || अगस्त्य ऋष्यशृङ्गश्च भृगुराङ्गिरसस्तथा | तेपि मृत्युवशं याता न कार्यं जीवितेन मे || २५ || प्. १८३ब्) पराश्वरो महात्मा वै मार्काण्डेयो महामुनिः | तेपि मृत्यु वशं याता न कार्यं जीवितेन मे || २६ || वसिष्टो गौतमशैव विश्वामित्रस्तथैव च | तेपि मृत्युवशं याता न कार्यं जीवितेन मे || २७ || दुर्वासा लोमहर्षश्च शाण्डिल्यश्च पुनर्वसुः | तेपि मृत्युवस्यं? याता नकार्यं जीवितेन मे || २८ || सौम्यः संवर्तकश्चैव गार्गिकात्यायनस्तथा | तेपि मृत्युवशं याता न कार्यं जीवितेन मे || २९ || दशज्योतिश्शतज्योतिस्सहस्रज्योतिर्व च | तेपि मृत्युवशं वाता न कार्यं जीवितेन मे || ३० || ऊर्ध्वबाहुश्च मार्कण्डो वायुभक्षोम्बुभोजनः | प्. १८४अ) एते चान्ये च बहवो मृत्युगोचरमागताः || ३१ || हिरण्यकशिप्यश्चैव रावणश्चेन्द्रजित्तथा | सुन्दोपसुन्दावसुरौ कालनेमिर्महाबलः || ३२ || नीलश्च जाम्भवांश्चैव सुग्रीवो गन्धमादनः | सुबाहुश्च महातेज वानरा एवमादयः || ३३ || देवाश्च राक्षसाश्चैव कुम्भकर्णोति वीर्यवान् | अक्षो महोदरश्चैव देवान्तक नरान्तकौ || ३४ || खरशुदूषणश्चैव सर्वे मृत्युवशं गताः | यश्च दुर्योधनो राजा पार्थो भीष्मो युधिष्ठिरः || ३५ || इन्द्रश्च धनदश्चैव यमलोके तथान्तकः | एवमादि मानुष्याणामृषीणां भावितात्मनाम् || ३६ || प्. १८४ब्) म्रियते सर्वजन्तूनां भूतग्रामश्चतुर्विधः | किं त्वं जानीहि हेतात सर्वे यास्यन्ति वै क्षयम् || ३७ || ब्रह्मादि स्तम्भ पर्यन्तमिमेलोकाश्चराचराः | निर्वेदो मे समुत्पन्नः प्रस्थाने प्रस्थितोस्म्यहम् || ३८ || संसारार्णव भीतोस्मि गन्तुकामो न संशयः | अहं तत्र गमिष्यामि यत्र त्वं गन्तुमिच्छसि | मनोरथशतैः पुत्र चिन्तितोसि मया वृथा || ४० || आशापाशनिबद्धस्य चाश्रयो मे भविष्यति || न कस्य चिदहं पुत्रो न च कश्चित् पिता मम | सहस्रेषु ह्यहं जातो जनिताश्च महस्रशः || ४२ || जने नापि जनो जातो जनो जानयते जनान् | प्. १८५अ) जनं शोचति चात्मा वै स्वात्मानं शोचते जनः || ४३ || पुत्रस्त्वहं त्वया जातो मया जाड्याः सहस्रशः | सुतेनापि सुतोजातः पश्यमाया विमोहितान् || ४४ || चराचरं जगत्सर्वं स देवासुरमानवम् | वृतं देवेन सूक्ष्मेण चेश्वरेण महात्मना || ४५ || सृष्टं भगवता तेन हरिणालोकधारिणा | केन वर्णेन वै शक्यं ज्ञातुं ज्ञानेन सर्वदा || ४६ || रजामरणभीतोहं जन्मे जन्मे पुनः पुनः | किन्तुतातनपर्याप्तं यन्मां मोहयसे पुनः || ४७ || वसता गर्भवामेषु यन्मया चिन्तितं महत् | नरकं तन्मयातीतं ज्ञानं लब्धं सुदुर्लभम् || ४८ || प्. १८५ब्) सीतमौष्ण्यं क्षुधातृष्णा गर्भवासेषु दारुणा | गर्भवासादृते तातनान्यत्कष्वतरं भयम् || ४९ || इन्द्रियाणां चलत्वाश्च स्त्रीणां च ऋतुलालनात् | रजोरेतस्यहंजातर्किं तत्र भवता कृतम् || ५० || न कस्य चिदहं पुत्रो न च जातोस्मि केन चित् | इन्द्रियाणां चलत्वेन बद्धोहं पूर्वकर्मभिः || ५१ || यदि पुत्रः पितुर्नाशे पिता वा पुत्र नाशने | प्राणत्यागं च कुरुते पश्य माया विजृम्भितम् || ५२ || गीतार्थे न पुरादिष्टं यदि जन्म न विद्यते | विपन्नस्य पुनर्जन्म देगिनोस्य? न विद्यते || ५३ || प्. १८६अ) भारतेपि त्वया तात पूर्वं दृष्टमनागतम् | त्रैकाल्यदर्शीभूत्वापि किं मूढ इव तप्यसे || ५४ || यथामुष्टिभिराकाशं तुषानां खण्डनं यथा | तत्वया भारते शास्त्रे गीतार्थे नावधारितम् || ५५ || कस्य माता पिता कस्य कस्य बन्धुर्महामुने | विभ्रमश्च स्मृति भ्रंशस्तेन मुह्यन्ति जन्तवः || ५६ || अहमेकोनमेकश्चिन्नाहमन्यस्य कस्यचित् | नाहं पश्यामि यस्याह नासौ पश्यति यो मम || ५७ || नैरं?सुहृत्समुपयाति न बन्धु वर्गो नार्थः प्रयत्ननिचितो न सुतो न भार्या | यस्मिन् क्षणे प्रिय शतानि विहाय पुंसः प्राणाः स्वकर्मफलपथ्यधनाः प्रयान्ति || ५८ || प्. १८६ब्) अहोभार्या अहो पुत्रा अहो आत्मा अहो सुखम् | अहो माता अहो भ्राता पश्यमाया विमोहितम् || ५९ || धर्मो माता पिता चैव धर्मो बन्धुर्महामुने | मातरो विविधा दृष्टा पीता नाना विधाःस्तनाः || ६० || संसारेकतिनातीताः पितरश्च पृथक् पृथक् | एवं संसरमणेन गतिर्लब्धा मयेप्सिता || ६१ || प्रसादाद्देवदेवस्य चेश्वरस्य महात्मनः | येन संवत्सरो दृष्टस्सकृत्कर्ता च सेविता || ६२ || तेन सर्वमिदं दृष्टं पुनरावर्तते जगत् | एकसार्थ प्रयातानां सर्वेषां तत्र गामिनाम् || ६३ || यद्येकस्त्वरितं याति तत्रकापरिदेवना | एकवृक्षे यथारात्रौ नाना पक्षि समागमः || ६४ || प्. १८७अ) प्रातर्दशदिशो यान्ति तद्वद्भूतसमागमः || ६५ || यौवनं जरयाग्रस्तमारोग्यं व्याधिभिर्हतम् | मृत्युर्ग्रसति भूतानि किं धीर इव भाषसे || ६६ || यथाकाष्टं च काष्टं च समीयातां महोदधौ | समेत्य च व्यतीतायां तद्वद्भूत समागमः || ६७ || इच्छन्ति केचिन्नरकेषु वासं ते *? न्ति नैवोदरदेशवासम् | श्रेयो हि तस्मान्नरकं विशिष्टं न गर्भवासात्परमं हि दुःखम् || ६८ || एतानि दुःखानि बहुनिलोकेसं स्मृत्यतावन्नरकं विशिष्टम् | योनि प्रवेशे परमं हि दुःखं विण्मुत्ररेतः प्रतिमं समग्रम् || ६९ || प्रव्रजामि ह्यहंतात न नित्यं खलु जीवितम् | प्. १८७ब्) गर्भनासभयोद्विग्रो भीतोस्मि मरणादपि || ७० || गृहाश्रमात्परोधर्मो वनस्थानां न विद्यते | पालयन्ति नरान्सर्वान्गुरु?देवार्चने रताः || ७१ || अशाश्वतो गृहारम्भो दुःखं संसारबन्धनम् | अहो प्रस्फुरिता मूढा निर्गुणागुणमाश्रिताः || ७२ || श्री स वा तपो वनेषु ये जातास्तत्रैव निधनं गता | तेषामल्पतरो धर्मः कामभोगमजानभाम् || ७३ || इदं तर्केण बन्धाय मठप्राकारतोरणम् | नराणां यत्र हूयन्ते यौवनानि धनानि च || ७४ || अनेकानि सहस्राणि कौमारव्रतधारिणाम् | प्. १८८अ) दिवंगतानि दृश्यन्ते ह्यकृत्वा कुलपद्धतिम् || ७५ || गृहस्थानाच्च संभूता दृश्यन्ते ह्याश्रसास्त्रयः | भि *?र्यश्चैव जीवन्ति तस्माच्छ्रेष्टो गृहाश्रमी || ७६ || गृहस्थ एव यजते गृहस्थस्तपते तपः | चतुर्णामपि वर्णानां गृहस्थस्तु विशिष्यते || ७७ || यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः | एवं गृहस्थमाश्रित्य सर्वे तिष्ठन्ति भिक्षुकाः || ७८ || स्वामिनो ह्युपकाराय भृत्या जीवन्ति नित्यशः | भृत्यानां हि प्रधानत्वात् स्वामि तत्फलमश्नुते || ७९ || सूर्यखद्योतयोर्यम्यहम् || १०० || प्. १८८ब्) धर्मं च रथमाधर्मं सत्यं वदतमानृतम् | नान्धकारे प्रवेष्टव्यं तस्माज्जाग्रत जाग्रत || १०१ || मानुष्यं दुर्लभं प्राप्य तडिद्बिलसितो मम | परमं च समासाद्य किमन्यत् सुकृतं कृतम् || २ || शारीरेण तु दुःखेन पीड्यन्ते मानसेन च | यदश्छ्रसन्तितच्चित्रं समस्ताः प्राणिनो भुवि || ३ || समागरात्वपर्यन्ता स शैलवनकानना | तावद्य च न पश्यामि यैर्भुङ्के यं वसुन्धरा || ४ || पुरन्दरसहस्राणि चक्रवर्ति सतानि च | निर्वापितानि कालेन प्रदीपा इव वायुना || ५ || प्रियसङ्गमलोभेन जनः शोकेन बध्यते | चमरी वालके नैव तत्रैव निधनं गता || ६ || fओलिओ १८९-१९० इस् मिस्सिन्ग् प्. १९१अ) अज्ञाने नाथ रागेण लोभेन च वशी कृतः | सङ्घैर्बहुभिना क्रान्तस्तेन स्वर्गं न गच्छति || ७ || अर्थं धिगस्त बहुवैरकरं नराणां राज्यं धिगस्तु भयदं बहु चिन्तनीयम् | स्वर्गं धिठस्तु? पुनरागमन प्रवृत्तिं धिग्धिक्करीरमिहरोगसमाश्रयं च || ८ || बीजं पिता क्षेत्र महीजनित्री वर्षाणि कर्माणि शुभाशुभानि | जीवांस्तसस्य प्रतिमान्हि लोके पक्वान पक्वांश्चलुनाति कालः || ९ || गृहे त्वर्थान् परित्यज्य श्मशाने मित्रभान्धवान् | नग्नाङ्गोरिक्तहस्तश्च प्रयाति मुषितो यथा || १० || बाल एव चरेद्धर्ममनित्यं *?ल जीवितम् | प्. १९१ब्) फलानामिव पक्वानां शश्वत्पतनतो भयम् || ११ || पश्यधर्मस्य माहात्म्यं क्रियमाणस्य नित्यशः | आत्मनः कुरुते श्रेयो लोकस्य भवति प्रियः || १२ || नि *? का देवयद्दुःखं मया प्राप्तसुदारुणम् | तेनासमिवसंलिप्तो बहुकालं * मन्ततः || १३ || एकविंशति सङ्ख्यांता नरकाः शास्त्र तत्परैः | गर्भवाससमीपे तु कलां नाहन्ति षोडशीम् || १४ || त्व *? वजनिताः पुत्रा पुत्रैश्च परिपालिताः | अपरैर्जनिताश्चान्ये पश्यसंसारविभ्रमम् || १५ || तपो मम पितानित्यं धर्मश्चैव पितामहः | प्रपितामहतात्यागे गतिर्माहेश्वरी तनुः || १६ || प्. १९२अ) मानुषत्वे तथान्योन्यं जन्मे जन्मे पुनः पुनः | गतिस्तातनसन्देहो यत्र जन्म न विद्यते || १७ || वसन्तकाले कुसुमा कुलाकुले वनान्तरे पुष्परसान्तरान्तरे | स्तनान्तरं यः पुरुषो न सेवते हतान्तरं तस्य नरस्य जीवितम् || १८ || ज्ञानान्तरं मोक्षपदान्तरान्तरं धर्मान्तरं योगपदान्तरान्तरम् | ध्यानान्तरं यः पुरुषो न सेवते मतान्तरं न्यस्य नरस्य जीवितम् || १९ || लवङ्गकल्लोलकवासिताधरं ताम्बूलरक्तौष्ठविभूषितान्तरम् | मुखान्तरं यः पुरुषोनुसेवते मिथ्यान्तरं तस्य नरस्य जीवि || २० || ########### END OF FILE #######